SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पर्युपास कम् औपपाति 'वयणणालासहस्सेहिं अभिथुव्वमाणे'त्ति व्यक्तं, 'कतिसोभग्गगुणेहि पत्थिजमाणे २' कान्त्यादिगुणैर्हेतुभूतैः प्रार्थ्यमानो-भर्तृतया स्वामितया लि वा जनेनाभिलष्यमाणः मंजुमंजुणा घोसेण पडिपुच्छमाणे' मञ्जमञ्ज ना-अतिकोमलेन घोषेण-स्वरेण प्रतिपृच्छन् -प्रश्नयन् प्रणमतः स्वS रूपादिवा 'पडिबुज्जमाणोत्ति पाठान्तरे प्रतिबुद्धधमानो जाग्रद्, अप्रचलायमान इत्यर्थः, 'अपडिबुज्झमाणे'त्ति पाठान्तरं, तत्राप्रत्यूह्यमानः IN -अनपह्रियमाणमानस ईत्यर्थः, 'समइच्छमाणे'त्ति समतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरे त्वेवं 'तंतोतलतालतुडियगीयवाइयरवेण' व्य- 2 क्तमेव, किंविधेन रवेणेत्याह-मधुरेण, अत एव 'मणहरेणं' तथा 'जयसह ग्घोसविसएणं मजमजणा घोसेणं'ति जयेति शब्दस्याभिधानस्य उद्घोष:-उद्घोषणं विशदं-स्पष्टं यत्र स तथा तेन, मञ्जमञ्जना-कोमलेन घोषेण-ध्वनिना 'अपडिबुज्झमाणे त्ति प्राग्वत्, 'कदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउक्कचच्चरआरामुज्जाणकाणणसभापवापदेसदेसभागे' कन्दराणि-दों गिरीणां विवरकुहराणि-गुहाः पर्वतान्त राणि वा गिरिवरा:-प्रधानपर्वताः प्रासादा:-सप्तभूमिकादयः ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि देवकुलानिप्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत आरामाः-पुष्पजातिप्रधानाः वनषण्डाः, उद्यानानि-पुष्पादिमवृक्षयुक्तानि काननानि-नग राद् दूरवर्तीनि सभा-आस्थायिकाः प्रपा-जलदानस्थानम् एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान् , तत्र प्रदेशा-लघुतरा भागा देशा॥१२२॥ स्तु-महत्तराः, 'पडिसद्द (डिसुआ)सयसहस्ससंकुलं करते' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कु लान् कुर्वन कूणिको निर्गच्छतोति सम्बन्धः तथा 'हयहेसियहत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं महया कलकलरवेणं जणस्स महुरेण पूरयते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान वेत्यनेन, ' 'सुगंधवरकुसुमचण्णउम्विद्धवासरेणुकविलं नभं करते' सुगन्धोनां वरकुसुमानां चूर्णानां च उव्विद्धः--उर्ध्व गतो यो वासरेणुः-वासकं रजः-तेन यत्कपिलं तत्तथा 'नभंति नभ आकाशं कुर्वन् , 'कालागुरुकुंदुरुक्चतुरुक्कधूवनिव हेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत 'समंतओ खुभियचक्कवाल' सर्वतः क्षुभितानि चक्रवालानि-जनमण्डलानि र यत्र निर्गमने तत्तथा तद्यथा भवतीत्यवं निर्गच्छतीत्येवं सम्बन्धः, तथा 'पउरजणबालवुड्ढपमुइयतुरियपहावियविउलाउलबोलबहुलं नभं ॥१२२॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy