SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ XX कम् औपपाति तथा वीचयो - महाकल्लोलास्तैः प्रसृतश्च विस्तारमुपगतः स चासौ क्षीरोदकश्च - क्षीराकारजलः स चासौ प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूरः-प्रकृष्टः प्रवाहः स तथा तद्वचञ्चला यास्तास्तथा ताभि:, 'माणससरपरिसर- परिचियावासविसयवेसाहि' इह हंसवधूभिरिव कलित इत्यनेन सम्बन्ध:, मानसाभिधानसरसः परिसरे प्रान्ते परिचितः पुनः पुनः कृत आवासो - निवासो यकाभिस्तास्तथा ताश्च ता विशदवेषाश्च-धवलाकारा इति कर्मधारयोऽतस्ताभिः, 'कणगगिरिसिहरसंसियाहि' कनकगिरेः - मेरोरन्यस्य वा यच्छिखरं तत्संसृता यास्तास्तथा ताभिः, 'ओवइयउप्पइयतुरिय - चवलजइणसिग्द्यवेगाहिं' अवपतितोत्पतितयोः - निपतनोत्पतनयोस्त्वरितचपलः - अत्यन्तचपलः जविनः - शीघ्रो वेगवंता मध्येऽतिशिघ्र वेगो - गतिविशेषो यासां तास्तथा ताभि:, 'हंसवधूयाहि चैव कलिए' हंसिकाभिरिव युक्तः, इह च हंसिकाभिश्चामराणां धवलत्वेन | दण्डो परिवर्तित्वेन चपलत्वेन च साधर्म्यमिति, तथा 'णाणामणिकणगरयणविमलमहरिहत वणिजुज्जलविचित्तदंडाह' नानामणिकनकरत्नानां सम्बन्धिनो निर्मला महरिहत्ति - महार्घास्तपनीयोज्ज्वलाः- रक्तवर्ण सुवर्णदीप्राः विचित्रा - विविधचित्रा दण्डा यासां तास्तथा, 'चिलियाहि' दीप्यमानाभिनाभिर्वा नरवइसिरिसमुदयपगासणक रोहि' ति व्यक्तं, 'वरपट्टणुग्गयाहि' प्रधानपत्तनसमुद्भवाभिः वरपत्तने हि वराः शिल्पिनो भवन्तीति तत्परिकर्मिताः प्रधाना भवन्तीति वरपत्तनोद्गताभिरित्युक्तम् अथवा वरपट्टनात् प्रधानाच्छादनकोशकादुद्गता - निष्काशिता यास्तास्ताभिः, 'समिद्धरायकुलसेवियाहि ति व्यक्तं, 'कालागुरु- पवरकुंदुरुक्क - तुरुक्क - वरवण्णवासगंधुद्ध याभिरामाहि' कालागुरुः- कृष्णागुरुः प्रवरकुन्दुरुक्क - सच्चीडा-तुरुक्कं - सिल्हकं करवर्ण -प्रधानचन्दनं एतैर्यो वासो - वासनं तस्माद्यो गन्धः -सौरभ्यम् उद्भूत-उद्भूतस्तेनाभिरामा-रम्या यास्तास्तथा ताभिः 'सललियाहि 'ति व्यक्तम्, 'उभओ पासंवित्ति उभयोरपि पार्श्वयोरित्यर्थः, 'उक्खिप्यमाणाहि चामराहि' ति व्यक्तं कलित इति वर्तते, सुहसीयलवायवीइयंगे' ति समुत्क्षिप्यमाणचामराणामेव यः शुभः शीतलश्च वातस्तेन वीजितमङ्ग यस्य स तथेति । ॐ प्रवरश्वासौ कन्दः तस्य रुक् इव रुक् यस्य प्रवरकुन्दरुक् स एव प्रवरकुन्दरबकः तम् चीडा इति भाषायाम, तुरूवकं तुरुक्कमिति रुढः ॥११०॥ कोणिक ० सू० ३१ ।। ११० ।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy