________________
'निउणोवियमिसिमिसिंत-मणिरयणसूरमंडलवितिमिरकर-निग्गयग्गपडिहयपुणरविपञ्चागडत-चंचलमिरिइकवर्ग विणिमुयंतेणं' निपुणेन ॥१०९॥ शिल्पिना 'निपुणं वा यथा भवति एवं उवियत्ति-परिकमितानि मिसिमिसिंतत्ति-देदीप्यमानानि यानि मणिरत्नानि तानि l
K तथा सूरमण्डलाद्-आदित्यबिम्बात् ये वितिमिरा-हतान्धकाराः करा:-किरणा निर्गतास्तेषां यान्यग्राणि तानि (प्रतिहतानि)-निराकृतानि
पुनरपि प्रत्यापतन्ति च-प्रतिवर्तमानानि यस्माञ्चञ्चलमरीचिकवचात्तत्तथा, अथवा सूरमण्डलाद् वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि *
प्रत्यापतच्च तच्च तच्चञ्चलमरीचिकवचं च-चपलरश्मिपरिकर इति समासः, निपुणोपितमिसिमिसायमानमणिरत्नानां यत्सूरमण्डलवितिमिरToll करनिर्गताग्रप्रतिहतं पुनरपि प्रत्यापतच्चञ्चलमरीचिकवचं यत्तत्तथा तद्विनिर्मुञ्चता-विसृजता, 'सपडिदंडेणं, अतिभारिकतया एकदण्डेन दुर्व-श हत्वात्सप्रतिदण्डेन, 'धरिज्जमाणेणं आगवत्तेणं विरायते' इति व्यक्तम् ।
अधिकृतवाचनायां तु चतुश्चामरवालवीजिताङ्ग इति व्यक्तं ।
वाचानान्तरे तु 'चउहि य पवरगिरिकुहरविचरण-सुमुइयनिरुवहयचमर-पच्छिमसरीरसंजायसंगयाहिं' चउहियत्ति-चतसृभिः, 'ताहिय'त्ति क्वचित् तत्र ताभिश्च तथाविधाभिर्वर्णकवर्णितस्वरूपाभिः चामराभिः कलित इति योगः, इह च चामरशब्दस्य नपुंसकलिङ्गत्वेऽपि स्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वा न दुष्टः, प्रवरं यगिरिकुहरं-पर्वतनिकुञ्जस्तत्र यद्विचरणं-सञ्चरणं तेन सुमुदिता-अतिहृष्टा निरुपहताश्च उपघातरहिता ये चमरा: आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं-देहस्य पश्चिमो भागस्तत्र या सञ्जाता-उत्पन्नाः सङ्गताश्च-अनवद्यास्ता- |१०९॥ स्तथा ताभिः, 'अमलियसियकमलविमलुज्जलिय-रययगिरिसिहर-विमलससिकिरणसरिस-कलधोयनिम्मलाहिं' अमलीतम्-अमदितं यत्सितकमलंपुण्डरिक तथा विमल-निर्मलं उज्ज्वलितम्-उद्दीप्तं यद्रजतगिरिशिखरं-वैताढ्यगिरिकुट तथा विमला ये शशिकिरणास्तत्सदृश्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्व-रूप्यवदुज्ज्वला इति समासोऽतस्ताभिः, 'पवणाहयचवलललियतरंगहत्थनच्चत-वीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं' पवनाहताः-वायुप्रेरिताश्चपला:-तरला ललिता-मनोहरास्तरङ्गहस्ताः-प्रतनुकलोलपाणयस्तैः नृत्यन्निव नृत्यन् यः स