SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रवृत्तिवा० औपपातिकम् ॥३७॥ सू०११ ततोऽनन्तरं, 'ण'मिति वाक्यालङ्कारे 'से' इति असौ 'पवित्तिवाउएत्ति प्रवृत्तिव्यापतो भगवद्वार्ताव्यापारवान् 'इमीसे कहाए'त्ति अस्या भगवदागमनलक्षणायाँ कथायां वार्तायां 'लडढे समाणेत्ति लब्धार्थः सन्-प्राप्तार्थः सन , विज्ञः सन्निस्यर्थः, 'हहतुट्ठचित्तमाणंदिए'त्ति हृष्टतुष्टम्अत्यर्थतुष्टं हृष्टं वा-विस्मितं तुष्टं च तोषवञ्चित्तं-मनो यत्र तत्तथा तत् हृष्टतुष्टचित्तं यथा भवति, एवमानन्दित-ईपन्मुखसौम्यतादिभावैः समृद्धिमुपगतः ततश्च 'दिएत्ति नन्दितः-समृद्धितरतामुपगतः । 'पीइमणे' प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा, 'परमसोमणस्सिए' परमं सौमनस्य-सुमनस्कता सञ्जातं यस्य स परमसौमनस्यिकः तद्वाऽस्यास्तीति परमसौमनस्यिका, 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पद-विस्तारं व्रजद्धदयं यस्य स तथा, सर्वाणि चैतानि हृष्टादिपदानि प्राय एकार्थानि, न च दुष्टानि, प्रमोदप्रकर्षप्रतिपत्तिहेतुत्वात् स्तुतिरूपत्वाच्च, यदाह-"वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुव॑स्तथा निन्दन् । यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय ॥१॥" पहाएत्ति' व्यक्तं, 'कयबलिकम्मे'त्ति स्नानानन्तरं कृतं बलिकम स्वगृहदेवताना येन स तथा । 'कयकोउअमंगलपायच्छित्ते' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि-दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थदध्यक्षतर्वाङकुरादीनि 'सुद्धप्पवेसाई मंगल्लाई वत्थाई पवरपरिहिए' शुद्धात्मा-स्नानेन शुचिकृतदेहः वेश्यानि-वेशे साधृनि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि चेति विग्रहः, मङ्गल्यानि-मङ्गलकरणे साधूनि वस्त्राणि व्यक्तं, पवरत्ति-द्वितीयाबहुवचनलोपात प्रवराणि-प्रधानानि परिहितो-निवसितः अथवा प्रवरश्चासौ परिहितश्चेति समासः । 'अप्पमहग्घाभरणालंकियसरीरेत्ति व्यक्तं, नवरं अल्पानि-स्तोकानि महा_णि-बहुमूल्यानि । 'सआओ'त्ति स्वकात्-स्वकीयात् । जेणेव'त्ति यस्मिन्नेव देशे इत्यर्थः । 'बाहिरियत्ति अभ्यन्तरिकापेक्षया बाह्या । 'उवट्ठाणसाल'त्ति आस्थानसभेति । तेणेवात्ति तस्मिन्नेव देश इत्यर्थः । 'सिरसावत्तंति शिरसामस्तकेनाप्राप्तम्-अस्पृष्टं शिरसि वा आवर्तत इति शिरस्यावर्तोऽतस्तं । 'जएणं विजएणं बडावेतित्ति जयः-सामान्यो विघ्नादिविषयो विजयः स एव विशिष्टतरः प्रचण्डप्रतिपन्थादिविषयः वर्धयति-जयेन विजयेन च वर्द्धस्व त्वमित्येवमाशिषं प्रयुङ्क्ते स्मेत्यर्थः । 'देवाणुप्पियात्ति सरलस्वभावाः । 'दसणाति अवलोकनं । 'कखंतित्ति प्राप्तं सद्विमोक्तुं नेच्छन्ति । 'पीहंति'त्ति स्पृहयन्ति EXXXXXXXXXXXXXXXXXXXXXXXXXX ॥३७॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy