Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 75
________________ औपपा अनगा० तिकम् ॥६३॥ शानामर्दसमीपवर्तित्वादपार्दाऽवमोदरिका द्वादशभिरिति, 'दुभागोमोयरिय'त्ति द्वात्रिंशतः पोडश द्विभागोऽद्धमित्यर्थः, ततः पोडशकवलमाना द्विभागावमोदरिकेत्युच्यते, 'पत्तोमोयरिय'त्ति चतुर्विशतेः कवलानां द्वात्रिंशद्वितीयाद्धेस्य मध्यभागं प्राप्तत्वाच्चतुर्विशन्या कवले प्राप्तावमोदरिकेत्यते. अथवा प्राप्तेव प्राप्ता द्वात्रिंशतस्त्रयाणां भागानां प्राप्तत्वाचतुर्थभागस्य चाप्राप्तत्वादिति, 'किंचूणमोयरिय'त्ति एकत्रिंशतो द्वात्रिंशत एकेनोनत्वात् , 'पमाणपत्ते'त्ति द्वात्रिंशता कवलैः प्राप्तप्रमाणो भवति साधुर्ने न्यूनोदर इति, 'एत्तो'त्ति इतो. द्वात्रिंशत्कवलमानादेकनापि 'घासेणाति ग्रासेन 'णो पकामरसभोईत्ति वत्तव्वं सिया' इति नात्यर्थमन्नभोक्तेति वाच्यं स्यादिति १० । 'अप्पसद्देत्ति अन्पकलह इत्यर्थः, कलहः-क्रोधकार्यम् 'अप्पझंझे'त्ति अन्पझञ्झः-अविद्यमानकलहविशेषः, अल्पशब्दश्चाभाववचनोऽप्यस्ति, ११ । 'दव्वाभिग्गहचरएत्ति द्रव्याश्रिताभिग्रहेण चरतिभिक्षामटति द्रव्याश्रिताभिग्रह वा चरति-आसेवते यः स द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रान्तायां यद् द्रव्याभिग्रहचरक इत्युक्तं तद्धर्मधर्मिणोरभेदविवक्षणात् , द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः, क्षेत्राभिग्रहः-स्वग्रामपरग्रामादिविषयः, कालाभिग्रहः-पूर्वाह्लादिविषयः, भावाभिग्रहस्तु गानहसनादिप्रवृत्तपुरुषादिविषयः, 'उक्खित्तचरए'त्ति उत्क्षिप्त-स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहतश्चरति-तद्गवेषणाय गच्छतीत्युक्षिप्तचरकः एवमुत्तरत्रापि, 'निक्खित्तचरए'त्ति निक्षिप्त-पाकभाजनादनुघृतं 'उक्खित्तनिक्खित्तचरए'त्ति पाकभाजनादुक्षिप्य निक्षिप्तं तत्रैवान्यत्र वा स्थाने यत्तदुरिक्षप्तनिक्षिप्तम् अथवोरिक्षप्तं च निक्षिप्तं च यश्चरति स तथोच्यते 'निक्खित्तउक्खित्तचरएत्ति निक्षिप्तं भोजनपाच्यामुरिक्षप्तं च स्वार्थ तत एव निक्षिप्तोत्क्षिप्तं (E), 'वटिजमाणचरए'त्ति परिवेष्यमाणचरकः 'साहरिज्जमाणचरए'त्ति यत् कूरादिकं शीतलीकरणार्थं पटादिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमानं संहियमाणमुच्यते, 'उवणीअचरएत्ति उपनीतं केनचित्कस्यचिदुपढौकितं प्रहेणकादि, 'अवणीयचरए'त्ति अपनीतं देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः, 'उवणीयावणीयचरए'त्ति उपनीतं-विनीतं ढाकितं सत् प्रहेणकाद्यपनीतं स्थानान्तरस्थापितं अथवोपनीतं चापनीतं च यश्चरति स तथा, अथवा उपनीतं-दायकेन वणितगुणं अपनीतं-निराकृतगुणम् उपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तु दुषितं, यथाऽहो शीतलं जलं केवलं क्षारमिति, यत्तु क्षारं किन्तु शीतलं तदपनीतोपनीतमुच्यत इति, अत आह-'अवणीयउवणीयच ॥ ६३॥

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200