________________
प्रथम विमशः
३९
ततोऽयमर्थः - लग्नानि द्वादश, तेषां त्रिभागे त्रिभागे चत्वारि, ततो लग्नानां चतुष्कस्यान्तरेऽर्धघटी, कथं ? तुर्य लग्नं कर्कस्तस्यान्त्यानि पञ्चदश पलानि, पञ्चमलग्नस्य च सिंहस्याद्यानि पञ्चदश पलानीत्युभयमीलनेऽर्धघटी लग्नगंडान्तः । एवमष्टमनवमयोर्वृश्चिकधनुषोर्द्वादशाद्ययोर्मीनमेषयोश्चान्तरालेऽपि भाव्यं । तिथयः पञ्चदश, तेषां त्रिभागे पञ्च पञ्च ततः पञ्चम्या अन्त्यार्धघटी षष्ठया आद्यार्धघटी चेत्येका घटी तिथिगंडान्तः, एवं दशम्येकादश्योः पञ्चदशीप्रतिपदोश्चान्तरालेऽपि भाव्यं । उडूनि सप्तविंशतिः, तेषां त्रिभागे त्रिभागे नव नव, तत्र नवममश्लेषा तस्या अन्त्या घटी, दशमं मघा तस्या आद्या घटी चेति द्वे घट्यो नक्षत्रगंडान्तः, एवमष्टादशैको नविंशयोज्येष्ठामूलयोः सप्तविंशाद्ययो रेवत्यश्विन्योश्चान्तरालेऽपि । गंडान्तस्थापना-
लग्न गंडान्त तिथि गंडान्त
तथा
४
कर्क
भाग ३
८
वृश्चिक
१२
मीन
भाग ३
५
सिंह ५ ६
९
धन
92 ११
१
मे
अर्ध घटी एका घटी
१५
१
नक्षत्र गंडान्त
भाग ३
९
अश्लेषा
१८
ज्येष्ठा
१०
मघा
१९
मूल
२७
१
रेवती | अश्विनी
द्वे घट्यो
श्रीपतिस्तु श्रीनप्येतान् द्विगुणद्विगुणप्रमाणानाह । नक्षत्रगंडान्तोऽष्टघटीमान : इति सारङ्गः । नक्षत्रगंडान्तरीत्या विष्कंभादिसप्तविंशतियोगगंडान्तोऽपि पञ्चपञ्चघटमानो गण्य इति केशवार्कः । विशेषस्तु
" नक्षत्रो मातरं हन्ति तिथिजः पितरं तथा ।
लग्नस्थ बालकं हन्ति गंडान्तो बालदूषकः " ॥ १ ॥
Aho! Shrutgyanam