Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 302
________________ २७६ आरम्भ-सिद्धिः एकोऽप्यनेक शिष्याणां यश्चित्ताब्जान्यबोधयत् । तं श्रीचारित्ररत्नं भो नभोरत्नसमं स्तुमः ॥ ९ ॥ चिन्मयानां मयाऽमीषामृषीणां सुप्रसादतः । हेमहंसाभिधानेन वाचनाचार्यतायुजा ॥ १० ॥ श्रीमविक्रमवत्सरे मनुतिथौ १५१४ शुक्ल द्वितीयातिथौ, नक्षत्रे गुरुदैवते गुरुदिने मासे शुचौ सुन्दरे । आशापल्लिपुरे पुरः प्रतिनिधेः श्रीमद्युगादिप्रभो - ग्रन्थः सैप समर्थितः प्रथयतादाद्यं पुमर्थ्यः सताम् ॥ ११ ॥ इति श्रीतपागच्छपुरन्दर श्री सोमसुन्दरसूरि श्रीमुनिसुन्दर सूरिश्रीजयचन्द्रसूरिप्रमुखश्रीगुरुसाम्प्रत विजयमानश्रीगच्छनायक श्री रत्नशेखरसूरिचरणकमलसेविना महोपाध्यायश्री चारित्ररत्नगणिप्रसाद प्राप्त विद्यालवेन वाचनाचार्य श्रीहे महंसगणिना स्वपरोपकाराय सुधीशृङ्गाराख्यं श्रीआरम्भसिद्धिवार्तिकं सर्वथा सावद्यवचनविरतैः सुविहिताचार्यवर्यैर्वाच्यमानं चिरं नन्दतात् ॥ अथ ग्रन्थकृत्स्वाभिप्रायं प्रकाशयति, तथाहिविद्यारम्भतपःक्रियाप्रभृतिकप्रारम्भव समे - Sप्यारम्भा अशुभाः शुभाव नियतं सावग्रतादूषिताः । सर्व्वारम्भविश्वसिद्धिकरणादारम्भसिद्ध्याह्नयो, ग्रन्थोऽयं तत एव चाप्रकटनायोग्यो विशूकात्मसु || १|| ततश्च येन श्रीप्रभु सोमसुन्दरगुरोः काले कलौ जङ्गमश्रीमतीर्थकरस्य चारु सुचिरं सेवा कृता तस्य मे । एतज्ज्योतिषवार्त्तिकप्रणयनं नो युज्यते सर्वथा, ग्रन्थोऽयं तदपीह येन विधिना जातस्तदाऽऽकर्ण्यताम् ॥ २ ॥ केचित् केचिदपि कचित् क्वचिदपि ग्रन्थे विशेषा मया । दृष्टा ज्योतिषगोचराः किल समुच्चेतुं च ते चिन्तिताः । प्रक्रान्तश्च समुच्चयो रचयितुं संवर्धमानः पुनः, सोऽयैरेव शनैः शनैः समभवद्ग्रन्थानुरूपाकृतिः ॥ ३ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320