Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 300
________________ ૨૭૪ आरम्भ-सिद्धिः तानि चेत्थं, यथा-मेषलग्ने सप्तमस्य तुलांशस्यायेष्वष्टादश (१८) पलेषु लग्नाशुद्धः पञ्चवर्गशुद्धिः पृथ्वीतत्त्वं च । तथा मेषलग्ने नवमे धनुरंशेऽन्त्येष्वष्टादश (16) पलेषु पञ्चवर्गशुद्धिः पृथ्वीतत्त्वं च १ । वृषलग्ने तृतीये मीनांशे आयेषु सप्त (७) पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च । तथा वृषलग्ने पञ्चमस्य वृषांशस्यायेषु चतुर्दश (१४) पलेषु षड्वर्गशुद्धिर्जलतत्त्वं च २। मिथुनलग्ने षष्टस्य मीनाशस्यायेष्वष्ट (6) पलेषु षड्वर्गशुद्धिर्जलतत्त्वं च । पञ्चवर्गशुद्धिस्तु सम्पूर्णेऽपि नवांशेऽस्ति द्वादशांशाशुद्धः३। कर्कलग्ने आये कक्कांशे आद्यष्वष्टाविंशति (२८) पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च । तथा कर्कलग्ने तृतीये कन्यांशे सम्पूर्ण षड्वर्गशुद्धिः पृथ्वीतत्त्वं च ४। सिंहलग्ने षष्ठे कन्यांशे दशपलेभ्योऽन्वष्टाविंशति (२८) पलेषु लग्नाशुद्धेः पञ्चवर्गशुद्धिर्जलतत्वं च ५। कन्यालग्ने तृतीये मीनांशे नवपलेभ्योऽनु सप्तविंशति (२७) पलेषु षड्वर्गशुद्धिः पृथ्वीतत्वं च ६ । तुला. लग्नेऽष्टमे वृषांशे आयेष्वष्टादश (१८) पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च । तथा तुलालग्ने नवमे मिथुनांशेऽन्त्येषु सप्तविंशति (२७) पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च ७। वृश्चिकलग्ने तुर्ये तुलांशे आयेष्वष्टाविंशति (२८) पलेषु लग्नाशुद्धः पञ्चवर्गशुद्धिर्जलतत्त्वं च ८। धनुर्लग्ने षष्ठे कन्यांशे सम्पूर्णेऽपि पञ्चवर्गशुद्धिकाणाशुद्धेर्जलतत्वं च । तथा धनुर्लग्ने सप्तमे तुलांशेऽन्त्येषु नव (९) पलेषु द्वादशांशाशुद्धेः पञ्चवर्गशुद्धिः पथ्वीतत्वं च । तथा धनुर्लग्ने नवमे धनुरंशे आयेषु नव (९) पलेषु द्वादशांशाशुद्धः पञ्चवर्गशुद्धिः पृथ्वीतत्वं च ९ । मकरलग्ने पञ्चमे वृषांशे आयेषु षोडश (१६) पलेषु लग्नाशुद्धेः पञ्चवर्गशुद्धिर्जलतत्वं च १०। कुम्भलग्ने षष्ठस्य वृषांशस्यान्त्येषु विंशति २० पलेषु लग्नाशुध्धेः पञ्चवर्गशुध्धिजलतत्त्वं च । तथा कुम्भलग्नेऽष्टमस्य वृषांशस्यान्त्यानि चतुर्दश (१४) पलानि, नवमस्य च मिथुनांशस्याद्यानि सप्ते (७) त्येकविंशति (२१) पलेषु लग्नाशुध्धेः पञ्चवर्गशुध्धिः पृथ्वीतत्त्वं च ११ । मीनलग्ने आये काशे आयेष्वष्टादश(१८) पलेषु षड्वर्गशुधिः पृथ्वीतत्त्वं च । तथा मीनलग्ने तृतीये कन्यांशे सम्पूर्णे पञ्चविंशति (२५) पलरूपे षड्वर्गशुध्धि: पृथ्वीतत्वं चेति १२ । कृतानीति अत्र वृध्धाः प्राहुः-दीक्षाप्रतिष्ठातीर्थयात्रापदारोपादिकार्येषु यत्र कार्ये यन्नक्षत्रं यो वारो या तिथिश्वाधिकृतानि तानि शुध्धानि सम्यग्विलोक्य रवियोगसिध्धियोगादियुता पूर्व दिनशुध्धिस्ततो लग्नशुध्धिनवांशशुध्धिश्च विलोक्ये । सर्वथाऽपि शुध्धलग्नालाभे कार्यस्याऽवश्यकर्तव्यत्वे च शुभदिनशुधौ छायालग्ने ध्रुवलग्ने विजयमुहूर्ते शुभचतुर्घटिके वा कार्य कार्यमिति सकलग्रन्थरहस्य । प्रथयन्तीति, एवं कृतानि कार्याणि सर्वाङ्गीणमभ्युदयं प्रथयन्ति ॥ इति श्रीमति आरम्भसिद्धिवार्तिके विलग्न १ मिश्र २ द्वारपरीक्षा त्मकः पञ्चमो विमर्शः सम्पूर्णः ॥५॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320