Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
पञ्चम विमर्शः
२६५
-
मार्गावं स्वेवं वर्तनीयं-मार्गी बुधः ४५ इति भवनादनु सप्तमे दिने सप्तघट्यनन्तरं लग्नं गृह्यमाणमस्ति । ततो मार्गी बुधः ४५ दिनस्य शेवघटी १५ लग्नदिनघटी ७ अन्तरालदिन ६ घटी ३६० मीलने ३८२ । एता गतेष्ट. नाड्यः स्थानद्वये न्यस्य मार्गी बुधः घट्यः ४५-भागाः १३-कलाः १३-विकलाः ८, एवं टिप्पनकलिखितशेषाभिभौग्यकलाविकलाभिः १००६-५२ कमाद्गुण्यन्ते भोग्यमार्गाप्रपश्चिमे इति वचनात् जातं ३८४६२३-४ । ततः पुनष्टिप्पनकं निरीक्ष्यते मार्गीभवनादनु १४ दिने मृगे बुधः ४७ इति लिखितं दृष्टं । ततो बुधमार्गीभवनदिनशेषघटी १५ मृगे वुधागमनदिनघटी ४७ अन्तरालदिन १३ घटी ७८० मीलने ८४२ । आभिः सर्वक्षनाडीभिः पूर्वोक्ताङ्कस्य ३८४६२३ भागे लब्धं कलाः ४५६ विकला: ४८ । कलानां ६० भागे लब्धं ७ भागा: शेष कलाः ३६ विकलाः ४८, इंदं मार्गीभवनदिनलिखितभाग १३ कला १३ विकला ८ मध्ये शितं मार्ग पश्चात्तु रूट्येतिवचनात् जातं भागा: २० कलाः ४९ विकला: ५५, इदं लग्नवेलायां बुधेन वृषराशेभुक्तं । उपरि । राशिदाने जातः स्पष्टो बुधः १-२०-४९-५५। गतिस्तु १००६-५२ इत्याद्या
स्य ६० गुणने २८२ सर्वक्षनाडीभिर्भागे लब्धं कलाः ७१ विकला: ३३ । अनया लब्धं कलाद्यं फलं पूर्वानीतग्रहेषु योज्यं । एवमन्येषामपि ग्रहाणां वर्तनोक्तानुसारेण स्वधिया कार्या । इदं सर्व ज्योतिर्विदा सर्वदेष्टत्वात् प्रस्तावाच दर्शितम् ॥ अथ विवाहे गोधूलिकलग्नमाह
सन्ध्यालग्नमपि श्रेयो गोखुरोत्खातधूलिभिः। गोपानां हीनवर्णानां प्राचां च स्यात्करग्रहे ॥ ७३ ॥
व्याख्या-सूर्यस्यास्तसमयेऽर्द्धबिम्बभवनादनु गोखुरोत्खातधूलयो यावन्न शाम्यन्ति तावद्गोधूलिकलग्नसमयः, अत एव धूलिभिरित्युक्तं यावत्तारा नेक्ष्यन्ते तावदिति भावः । अभ्रच्छने स्व प्रपुनानाटपत्रमीलनशकुनिकुलकोलाहलकुलायौत्सुक्यादिलिङ्गैनिर्णय । श्रेय इति लोकरूढ्योक्तम् । हीनवर्णानामिति सामान्येनोक्तं, यद्गदाधरः-"घटिकालग्नाभावेऽङ्गीकार्य गोरजोऽपि विप्रै. श्च" । इति ॥ अथ गोधूलिके एतावत्येव शुद्धिरपेक्ष्यत इत्याहशीतद्युति षष्ठमथाष्टमंच, भद्रार्धयामी कुलिकं च हित्वा। विनापि लग्नांशग्वगानुकूल्यं, गोधूलिकं प्राग्रहरं वदन्ति॥७४॥
व्याख्या-षष्टमिति लग्नात षष्ठाष्टमेन्दुः कन्यामृत्युदः, भौमोऽपि मूर्त्यष्टमगः पत्युमत्युदस्वास्याज्य एवेति सारङ्गः । अर्धयामी कुलिकं चेति, अनेन गोधूलिके गुरुशनिवारी त्याज्यौ तहिनयोस्तदानीं क्रमेणार्धयामकुलिकोत्पत्तेरित्यसूचि । केशवार्कस्त्वाह
Aho! Shrutgyanam

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320