Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 296
________________ २७० आरम्भ-सिद्धिः %3 इति दैवज्ञवल्लभे। अस्यार्थः-राजयोगा प्रागुक्ताः । खयोगा नामसंयोगाः । चन्द्रस्यान्यग्रहैः संयोगाः चन्द्रयोगाः । आयुषो योगा इति, कोऽर्थः १ येऽरिष्टयोगा उक्तास्तेषां भञ्जका ये योगास्ते भायुषो हितस्वादायुषो योगा इत्युच्यन्ते एषां सर्वेषां स्वरूपं जातकाज्ज्ञेयं । अत्रेति अभिषेकलग्ने विकल्प्या विचार्याः । वास्तुलमगुणाः प्रागुक्ताः। भपि च सर्वग्रहबलालङ्कृतलमाऽलाभे सर्वेष्वपि कार्ये'वेवं ज्ञेयं--"पञ्चभिः शस्यते लग्नं ग्रहैबलसमन्वितैः ।। चतुर्भिरपि चेत्केन्द्रे त्रिकोणे वा गुरु गुः ॥ १॥" अत्र पञ्चभिरित्युक्तेऽप्यय विशेषो ज्ञेयः-गुर्वन्दुमध्यादेकस्यापि बलाभावेऽन्यः पञ्चभिः सबलैरपि लग्नं नाऽऽद्रियते, इति रत्नमालाभाष्ये। केऽप्याहुः " त्रयः सौम्यग्रहा यत्र लग्ने स्युबलवत्तराः । बलवत्तदपि ज्ञेयं शेषेर्होनबलैरपि ॥ १ ॥" ॥ इत्येकादशं मिश्रद्वारम् ॥ ११ ॥ अथ सकलग्रन्थार्थ समर्थयतिइत्युक्तखेटबल शालिनि दोषमुक्ते, लग्ने शुभैश्च शकुनैः शशिनः प्रवाहे । कार्याणि भूमिजलतत्त्वगतौ कृतानि, निर्दम्भभाऽभ्युदयिकी प्रथयन्ति लक्ष्मीम् ॥८६॥ व्याख्या- खेऽटन्तीत्यचि तत्पुरुषे कृतीति, सप्तम्यलुपि खेटा ग्रहाः तेषां बलं, अनेन तिथ्यादिबलमपि लक्ष्यते । दोषमुक्ते इति, बृहदोषरहिते इति भावः । सर्वथा निर्दोषस्य लग्नस्यास्वल्पदिनैरप्यलाभात् , अत: स्वल्पदोषं महागुणं च लममादाय कार्याणि कार्याणि, न तु सर्वथा निर्दोषल मापेक्षया बहुतरविलम्बः कार्यः, धनयौवनजीवितानां स्थैर्याभावादित्याशयः । उक्तञ्च“यस्मादशेषगुणसम्पदहोभिरल्पै.राविदापि गणकेन न लभ्यतेऽत्र । तस्मादनल्पगुणसंयुतमलपदोषं, लग्नं नियोज्यमखिलेष्वपि मङ्गलेषु ॥१॥ स्वल्पो नानर्थकृद्दोषो लग्ने बहुगुणे भवेत् । तोयबिन्दुरिव क्षिप्तः समिद्धे कृष्णवर्त्मनि ॥ २ ॥" शकुनैरिति शकुना जाङ्घिकादयः । प्रधानं च शकुनिकाः । यदुक्तं व्यवहारप्रकाशे Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320