SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पञ्चम विमर्शः २६५ - मार्गावं स्वेवं वर्तनीयं-मार्गी बुधः ४५ इति भवनादनु सप्तमे दिने सप्तघट्यनन्तरं लग्नं गृह्यमाणमस्ति । ततो मार्गी बुधः ४५ दिनस्य शेवघटी १५ लग्नदिनघटी ७ अन्तरालदिन ६ घटी ३६० मीलने ३८२ । एता गतेष्ट. नाड्यः स्थानद्वये न्यस्य मार्गी बुधः घट्यः ४५-भागाः १३-कलाः १३-विकलाः ८, एवं टिप्पनकलिखितशेषाभिभौग्यकलाविकलाभिः १००६-५२ कमाद्गुण्यन्ते भोग्यमार्गाप्रपश्चिमे इति वचनात् जातं ३८४६२३-४ । ततः पुनष्टिप्पनकं निरीक्ष्यते मार्गीभवनादनु १४ दिने मृगे बुधः ४७ इति लिखितं दृष्टं । ततो बुधमार्गीभवनदिनशेषघटी १५ मृगे वुधागमनदिनघटी ४७ अन्तरालदिन १३ घटी ७८० मीलने ८४२ । आभिः सर्वक्षनाडीभिः पूर्वोक्ताङ्कस्य ३८४६२३ भागे लब्धं कलाः ४५६ विकला: ४८ । कलानां ६० भागे लब्धं ७ भागा: शेष कलाः ३६ विकलाः ४८, इंदं मार्गीभवनदिनलिखितभाग १३ कला १३ विकला ८ मध्ये शितं मार्ग पश्चात्तु रूट्येतिवचनात् जातं भागा: २० कलाः ४९ विकला: ५५, इदं लग्नवेलायां बुधेन वृषराशेभुक्तं । उपरि । राशिदाने जातः स्पष्टो बुधः १-२०-४९-५५। गतिस्तु १००६-५२ इत्याद्या स्य ६० गुणने २८२ सर्वक्षनाडीभिर्भागे लब्धं कलाः ७१ विकला: ३३ । अनया लब्धं कलाद्यं फलं पूर्वानीतग्रहेषु योज्यं । एवमन्येषामपि ग्रहाणां वर्तनोक्तानुसारेण स्वधिया कार्या । इदं सर्व ज्योतिर्विदा सर्वदेष्टत्वात् प्रस्तावाच दर्शितम् ॥ अथ विवाहे गोधूलिकलग्नमाह सन्ध्यालग्नमपि श्रेयो गोखुरोत्खातधूलिभिः। गोपानां हीनवर्णानां प्राचां च स्यात्करग्रहे ॥ ७३ ॥ व्याख्या-सूर्यस्यास्तसमयेऽर्द्धबिम्बभवनादनु गोखुरोत्खातधूलयो यावन्न शाम्यन्ति तावद्गोधूलिकलग्नसमयः, अत एव धूलिभिरित्युक्तं यावत्तारा नेक्ष्यन्ते तावदिति भावः । अभ्रच्छने स्व प्रपुनानाटपत्रमीलनशकुनिकुलकोलाहलकुलायौत्सुक्यादिलिङ्गैनिर्णय । श्रेय इति लोकरूढ्योक्तम् । हीनवर्णानामिति सामान्येनोक्तं, यद्गदाधरः-"घटिकालग्नाभावेऽङ्गीकार्य गोरजोऽपि विप्रै. श्च" । इति ॥ अथ गोधूलिके एतावत्येव शुद्धिरपेक्ष्यत इत्याहशीतद्युति षष्ठमथाष्टमंच, भद्रार्धयामी कुलिकं च हित्वा। विनापि लग्नांशग्वगानुकूल्यं, गोधूलिकं प्राग्रहरं वदन्ति॥७४॥ व्याख्या-षष्टमिति लग्नात षष्ठाष्टमेन्दुः कन्यामृत्युदः, भौमोऽपि मूर्त्यष्टमगः पत्युमत्युदस्वास्याज्य एवेति सारङ्गः । अर्धयामी कुलिकं चेति, अनेन गोधूलिके गुरुशनिवारी त्याज्यौ तहिनयोस्तदानीं क्रमेणार्धयामकुलिकोत्पत्तेरित्यसूचि । केशवार्कस्त्वाह Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy