Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 285
________________ पञ्चम विमर्श: २५९ रसङ्क्रमणान्तराल सर्व घटीभिर्भज्यन्ते, लब्धं कलाद्यं भुक्तं स्यात् । राहोस्तु वामगतित्वेन लभ्यते तत् २०० मध्यात् पात्यते, शेषं राहुणा तस्य पादस्य भोग्यं ज्ञेयं तस्य च भोग्यऋक्षाष्टशत्यादियोग एव कार्य:, राशयोऽपि तत्र भोग्या एवोपरि देयाः, एवं सूर्यादीनां क्वचित् पादापेक्षया क्वचित पादद्वयत्रयापेक्षया च स्वधिया वर्तना कार्या । केवलमनया रीत्याऽर्काद्याः सप्त ग्रहा भुक्तापेक्षया स्फुटीस्युः, राहुस्तु भोग्यापेक्षया स्फुटीस्यात् । यदि च राहुराश्यङ्कमध्ये षट्कं क्षिप्यते तदा केतुरपि भोग्यापेक्षयैव स्फुटीत्यात् । षष्ट्या हतेष्वष्टशतेषु भुक्तिरिति सर्वर्क्षनाडी विहृतेष्विति शेषः । भयं भावः - अष्टशत्या यथासम्भवं षट्चतुद्विंशतीनां वा षष्ट्या सगुण्य सर्वर्क्षनाडीभिर्यथायोगं त्रिद्वयेकपादनाडीभिर्वा भागे हृते यल्लभ्यते द्विस्थं फलं तत्कलाविकलारूपं ग्रहाणां दैवसिकगतिमानं ज्ञेयम् ॥ अथान तारकालिकानां नवग्रहाणां स्फुटीकरणेनोदाहरणं दर्श्यते तत्रार्कस्तावत् प्रागेव स्फुटीकृतोऽस्ति तस्य च द्वादशसङ्क्रान्तिषु क्रमात् कलाविकलारूपं दैव सिकगतिमानं प्राय एवंविधं स्यात्, तथाहि " वस्व निधयो५८- ९ नवे पुसधृतिः ५९-१८ द्विः षट्शरं५६-५६ यूनिका, षष्टिर्द्वादश ५७ - १२ कुञ्जरेषुगगनं ५८-० चैकोनषष्टियाः ५९-७ । षष्टिर्विश्वयुता६०-१३ कुषट् च सगुणा६१-३क्वङ्गं द्वियुग्विंशतिः ६१-२२, क्वङ्गं सन्निधि६१ ९षष्टिकाम् युगयुगं २२ खेटेषु धृत्या युतम् ५९ - १८ ॥ १ ॥” इन्दुस्तु तद्दिने पुष्येऽस्ति तस्य गतघढ्यः कार्यसमये १७ ता: ८०० गुणाः, जातं १३६०० । पुष्य सर्वघट्यः ६६, ताभिर्भागे लब्धकलाः २०६ विकलाः ३ शेषं ४२, तस्य ६६ अपेक्षयाऽर्घाभ्यधिकत्वाद्विकलाः ४ । पुनर्वस्वोरन्त्यपादस्य २०० कला: कलामध्ये क्षिप्ताः, जाता: कला: ४०६, आसां ६० भागे लब्धं ६ अंशाः कलाः ४६ विकलाः ४ । भुक्तराशित्रयमुपरि दत्तं जातस्तदानीं स्पष्टेन्दुः ३ - ६-४६-४ । तद्गतिस्तु कल।: ७२७ विकलाः १६ ॥ अथ भौमस्तद्दिनेषूत्तरभद्रपदास्वस्ति । तदा गतघढ्यः १४९ । कथं ? उ० भ० मङ्ग० ४४ । तद्दिनशेषघट्यः १६ । कार्यदिनघव्यः १३ । अन्तरालदिनद्वयस्य घट्यः १२० मीलने १४९ । ताः ८०० गुणा जातं ११९२००। सर्व्वर्क्षनाड्यः १०२२ । आभिर्भागे लब्धं कलाः ११६ विकलाः ३८ | पूर्व भद्रपदान्त्यपादसरक २०० कलाक्षेपे जाताः ३१६ कलाः । तासां ६० भागे लब्धं पक्ष ५ अंशाः उपरि ११ राशिदाने जातः स्पष्टो भौमः ११-५-१६-३८ । तद्गतिस्तु कलाः ४६ विकलाः ५८ । , Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320