Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 288
________________ २६२ आरम्भ-सिद्धिः अथ ये ग्रहा अनन्तरमेव कृतवा वक्राभिमुखा वा मार्गीभूता मार्गाभिमुखा वा स्युस्तेषां स्फुटीकृतिरुच्यते रवि । चन्द्र । मंगल बुध | गुरु । शुक्र क currm - २९ । m ४० । " वक्रानपश्चिमे भुक्ता भोग्या मार्गाग्रपश्चिमे । अन्तरांशकला ग्राह्यास्तासां सीमा च सर्वभम् ॥ १ ॥ वक्रादूर्व फलं लब्धं भुक्तभागोघतस्त्यजेत् । सभोग्यभुक्तभागौघात्त्याज्यं मार्गादितः फलम् ॥२॥" अनयोर्भाष्यम्" वक्रात् पूर्वगता नाड्यो हताः स्वर्शकलादिभिः । सीमान्तसर्वभघटीविभक्ताः स्युः स्फुटं कलाः ॥ ३ ॥ शेषे षष्टिगुणे सर्वक्षलब्धे विकलागमः । भुक्तायुक्त तत्राङ्के षष्टिभक्तेशकादिकम् ॥ ४ ॥ वक्रपश्चादपीत्थं स्यात्सीमाधिष्ण्येऽग्रत: स्थिते ।। लब्धं फलं पुनस्त्याज्यं भुक्तभागौघतस्तदा ॥ ५ ॥ मार्गात् पूर्वगता घट्यो गुण्या भोग्यकलादिभिः । शेषं प्राग्वद्भोग्ययुक्तभुक्तांशेभ्यः फलं त्यजेत् ॥ ६ ॥" मार्गपश्चात्तु रूढयेति वक्रिमार्गिग्रहाः स्फुटाः । ” इति । एषां व्याख्या - वक्र अपश्चिमे इति, वक्रीभवनादनन्तरमर्वाक चेत्यर्थः । मार्गाग्रपश्चिमे इति, मार्गीभवनादनन्तरमर्वाक् चेत्यर्थः । अन्तरांशकला ग्राह्या इति, यथा स्वभावगते ग्रंहस्व स्फुटीकर्तुं गसेष्टनाडीनां ८०० कलाभिर्गुणनमुक्तं. तथाऽत्र वक्रिमार्गीभवनसमयटिप्पनकलिखितभुक्तभागकलाभिर्गुणनं कार्यम् । केवलं वक्रीभवनस्योभयतो भुक्तकलाभिर्मार्गीभवनस्योभयतस्तु भोग्य कलाभिरिति । तासां सीमा च सर्वभमिति तासां प्रस्तावात्सर्वनाडीनां । अयमर्थ:-यथाऽन्यत्र सर्वक्षनाडीभिभीग उक्तस्तथा इष्टसमये तद्ग्रहाऽऽक्रान्तनक्षत्रस्य तत्पादस्य वा लगनादारभ्य वक्रिमागीभवन यावत् । अथवा वक्रिमार्गीभवनादारभ्य नक्षत्रान्तरे तत्पादान्तरे वा सङ्क्रमणं यावद्याः सर्वघट्यस्ताभिर्भागो देयः । ततश्च वक्रादूर्ध्वमिति यदि वक्रीभवनानन्तरं ग्रहः स्पष्टीक्रियमाणोऽस्ति तदा यल्लब्ध कलादिकं फलं तद्वक्रीभवनसम्रयटिपनकलिखितभुक्तभागकलादिमध्यात् कर्षणीयं । वक्रात् प्रथमं तु गतेष्टनाडीनां यथोक्तरीत्या भुक्तालाभिर्गुणने सर्वघटीभिर्भजनं Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320