________________
२६२
आरम्भ-सिद्धिः
अथ ये ग्रहा अनन्तरमेव कृतवा वक्राभिमुखा वा मार्गीभूता मार्गाभिमुखा वा स्युस्तेषां स्फुटीकृतिरुच्यते
रवि । चन्द्र । मंगल बुध | गुरु । शुक्र
क
currm -
२९ ।
m
४० । " वक्रानपश्चिमे भुक्ता भोग्या मार्गाग्रपश्चिमे ।
अन्तरांशकला ग्राह्यास्तासां सीमा च सर्वभम् ॥ १ ॥ वक्रादूर्व फलं लब्धं भुक्तभागोघतस्त्यजेत् । सभोग्यभुक्तभागौघात्त्याज्यं मार्गादितः फलम् ॥२॥" अनयोर्भाष्यम्" वक्रात् पूर्वगता नाड्यो हताः स्वर्शकलादिभिः । सीमान्तसर्वभघटीविभक्ताः स्युः स्फुटं कलाः ॥ ३ ॥ शेषे षष्टिगुणे सर्वक्षलब्धे विकलागमः । भुक्तायुक्त तत्राङ्के षष्टिभक्तेशकादिकम् ॥ ४ ॥ वक्रपश्चादपीत्थं स्यात्सीमाधिष्ण्येऽग्रत: स्थिते ।। लब्धं फलं पुनस्त्याज्यं भुक्तभागौघतस्तदा ॥ ५ ॥ मार्गात् पूर्वगता घट्यो गुण्या भोग्यकलादिभिः । शेषं प्राग्वद्भोग्ययुक्तभुक्तांशेभ्यः फलं त्यजेत् ॥ ६ ॥" मार्गपश्चात्तु रूढयेति वक्रिमार्गिग्रहाः स्फुटाः । ” इति ।
एषां व्याख्या - वक्र अपश्चिमे इति, वक्रीभवनादनन्तरमर्वाक चेत्यर्थः । मार्गाग्रपश्चिमे इति, मार्गीभवनादनन्तरमर्वाक् चेत्यर्थः । अन्तरांशकला ग्राह्या इति, यथा स्वभावगते ग्रंहस्व स्फुटीकर्तुं गसेष्टनाडीनां ८०० कलाभिर्गुणनमुक्तं. तथाऽत्र वक्रिमार्गीभवनसमयटिप्पनकलिखितभुक्तभागकलाभिर्गुणनं कार्यम् । केवलं वक्रीभवनस्योभयतो भुक्तकलाभिर्मार्गीभवनस्योभयतस्तु भोग्य कलाभिरिति । तासां सीमा च सर्वभमिति तासां प्रस्तावात्सर्वनाडीनां । अयमर्थ:-यथाऽन्यत्र सर्वक्षनाडीभिभीग उक्तस्तथा इष्टसमये तद्ग्रहाऽऽक्रान्तनक्षत्रस्य तत्पादस्य वा लगनादारभ्य वक्रिमागीभवन यावत् । अथवा वक्रिमार्गीभवनादारभ्य नक्षत्रान्तरे तत्पादान्तरे वा सङ्क्रमणं यावद्याः सर्वघट्यस्ताभिर्भागो देयः । ततश्च वक्रादूर्ध्वमिति यदि वक्रीभवनानन्तरं ग्रहः स्पष्टीक्रियमाणोऽस्ति तदा यल्लब्ध कलादिकं फलं तद्वक्रीभवनसम्रयटिपनकलिखितभुक्तभागकलादिमध्यात् कर्षणीयं । वक्रात् प्रथमं तु गतेष्टनाडीनां यथोक्तरीत्या भुक्तालाभिर्गुणने सर्वघटीभिर्भजनं
Aho ! Shrutgyanam