________________
पञ्चम विमर्शः
२६३
-
-
च विधाय लब्धं भुक्तसंयुक्त कार्यमिति सुगममेव । मार्गादित इति, यदि मार्गीभवनादाग ग्रहः स्पष्टीक्रियमाणोऽस्ति तदा मार्गीभवनसमयटिप्पन कलिखितभुक्तभागकलामध्ये तस्यैव भोग्यं भागकलादिकं सम्मील्य तपिण्डमध्यालब्धं कलादिकं शोध्यते, मार्गीभवनानन्तरं तुं रूढ्येति, कोऽर्थः ? यथास्वभावगतीनां ग्रहाणां कला भानीय भुक्तक्षयोग: क्रियते तथा सोऽत्रापि कार्यः, एवं वक्रिणो मारिंगणस्तथास्वाभिमुखाश्च ग्रहाः स्पष्टीस्युः । इदं बुधशुक्राभ्यामुदाहियते तयोः प्रायो वक्रिमार्गित्वस्य बहुशो भवनात् ।
तत्र वावं वर्त्तनैवं कार्या-वृषराशी वक्रितस्य बुधस्य वर्तनं यथावक्रदिनशेषधव्यः २६, लग्नदिनवव्यः १०, अन्तराल दिन ४ घट्यः २४० मीलने २७६ । एतत् पृथक्कृत्वा स्थाप्यते । ततो बुधस्य वक्रीभवनदिने वृषराशिभुकं टिप्पनकलिखितं यथा भागा: २५ कलाः ४४. इदं सर्व कलीकृतं जातं १५४४ अस्मात् कृत्तिकापादयरोहिणीसत्काः १४०० कलाः कृष्यन्ते, शेषं १४४, इदं मृगशीर्षस्य भुक्तं । एतेन वक्रारपश्चिमेऽन्तरांशकला भुक्ता ग्राह्या इति व्याख्यातं। ततोऽनेन १४४ मृगशिरोभुक्तन पूर्वमीलिता गतेष्टघट्यो २७६ गुण्यन्ते, जातं ३९७४४ । ततष्टिप्पनकं निरीक्ष्यते। वक्रदिनादारभ्य पुना रोहिण्यां बुधः घट्यः ७ इत्यन्तं यावद् घट्यः सर्वा एकत्र मील्यन्ते. तथाहि-वकदिनशेषघट्यः २६, पुना रोहिण्यां बुधः घव्यः ., अन्तरालदिन ६ घटयः ३६०, सर्वासां मीलने जातं ३९३ । अनेन सर्वक्षनाडी रूपेण पूर्वोक्ताकस्य ३९७४४ भागे लब्धं कलाः :०१ विकला: ८ । इदं पूर्वोक्तान्मृगशीर्षभुक्तात् १४४ रूपात् शोध्यते । एतेन चक्राचे फलं लब्धं भुक्तभागौघतस्त्यजेदिति व्याख्यातं । कृष्टशेष कला: ४२ विकला: ५२, इदं कृत्तिकापादत्रयरोहिणीसक ४०० कलायुक्तं कृतं, जातं कला: १४४२ विकला: ५२ । कलानां ६० भागे लब्धं २४ अंशाः, उपरि भुक्त। राशिदाने जातः स्पष्टो बुधः १-२४-३-५२। अथ गति:-अष्टशतीस्थानीयोऽङ्कः १५४ रूपः ६० सगुण्य सर्वक्षनाडीभिः ३९३ रूपाभिर्भकः, लब्धं कलाः २१ विकलाः ५९ । इयं वावं लग्नदिने बुधगतिः । गतिस्पष्टीकृतेः फलं प्राग्वत् । नवरमनया गत्या गतेष्टघटीनां प्रागुक्तरीत्या गुणने यस्कलादिकं फलं लभ्यते, तद् द्वितीयकार्य वेलायां पूर्व कार्यकालिकाहेभ्यः शोध्यते, ततस्तद्वेलाग्रहाः स्पष्टीस्युः ॥
अथ वक्रात् पूर्व वर्तनैवम्-पुनर्वसुशुक्रः घट्यः ५९ इति दिनानन्तरं द्वितीये दिने १० घव्य नन्तरं लग्नं गृह्यमाणमस्ति, तो लमदिन घट्यः १० पुनर्वसुशुक्रागमन दिनशेषघटी १ मीलने ११ । ततष्टिप्पनकं निरीक्ष्यते कदा शुक्रो वक्रीभविष्यतीति, ततो लग्मदिनादन वक्री सितः धन्यः ४९ भागाः २१ कला: १० इति टिप्पनके लिखितं दृष्टं । एतच्च भागादि सर्व कलीकृतं जातं १२७०,
Aho! Shrutgyanam