________________
पञ्चम विमर्श:
२५९
रसङ्क्रमणान्तराल सर्व घटीभिर्भज्यन्ते, लब्धं कलाद्यं भुक्तं स्यात् । राहोस्तु वामगतित्वेन लभ्यते तत् २०० मध्यात् पात्यते, शेषं राहुणा तस्य पादस्य भोग्यं ज्ञेयं तस्य च भोग्यऋक्षाष्टशत्यादियोग एव कार्य:, राशयोऽपि तत्र भोग्या एवोपरि देयाः, एवं सूर्यादीनां क्वचित् पादापेक्षया क्वचित पादद्वयत्रयापेक्षया च स्वधिया वर्तना कार्या । केवलमनया रीत्याऽर्काद्याः सप्त ग्रहा भुक्तापेक्षया स्फुटीस्युः, राहुस्तु भोग्यापेक्षया स्फुटीस्यात् । यदि च राहुराश्यङ्कमध्ये षट्कं क्षिप्यते तदा केतुरपि भोग्यापेक्षयैव स्फुटीत्यात् । षष्ट्या हतेष्वष्टशतेषु भुक्तिरिति सर्वर्क्षनाडी विहृतेष्विति शेषः । भयं भावः - अष्टशत्या यथासम्भवं षट्चतुद्विंशतीनां वा षष्ट्या सगुण्य सर्वर्क्षनाडीभिर्यथायोगं त्रिद्वयेकपादनाडीभिर्वा भागे हृते यल्लभ्यते द्विस्थं फलं तत्कलाविकलारूपं ग्रहाणां दैवसिकगतिमानं ज्ञेयम् ॥ अथान तारकालिकानां नवग्रहाणां स्फुटीकरणेनोदाहरणं दर्श्यते तत्रार्कस्तावत् प्रागेव स्फुटीकृतोऽस्ति तस्य च द्वादशसङ्क्रान्तिषु क्रमात् कलाविकलारूपं दैव सिकगतिमानं प्राय एवंविधं स्यात्, तथाहि
" वस्व निधयो५८- ९ नवे पुसधृतिः ५९-१८ द्विः षट्शरं५६-५६ यूनिका, षष्टिर्द्वादश ५७ - १२ कुञ्जरेषुगगनं ५८-० चैकोनषष्टियाः ५९-७ । षष्टिर्विश्वयुता६०-१३ कुषट् च सगुणा६१-३क्वङ्गं द्वियुग्विंशतिः ६१-२२, क्वङ्गं सन्निधि६१ ९षष्टिकाम् युगयुगं २२ खेटेषु धृत्या युतम् ५९ - १८ ॥ १ ॥” इन्दुस्तु तद्दिने पुष्येऽस्ति तस्य गतघढ्यः कार्यसमये १७ ता: ८०० गुणाः, जातं १३६०० । पुष्य सर्वघट्यः ६६, ताभिर्भागे लब्धकलाः २०६ विकलाः ३ शेषं ४२, तस्य ६६ अपेक्षयाऽर्घाभ्यधिकत्वाद्विकलाः ४ । पुनर्वस्वोरन्त्यपादस्य २०० कला: कलामध्ये क्षिप्ताः, जाता: कला: ४०६, आसां ६० भागे लब्धं ६ अंशाः कलाः ४६ विकलाः ४ । भुक्तराशित्रयमुपरि दत्तं जातस्तदानीं स्पष्टेन्दुः ३ - ६-४६-४ । तद्गतिस्तु कल।: ७२७ विकलाः १६ ॥ अथ भौमस्तद्दिनेषूत्तरभद्रपदास्वस्ति । तदा गतघढ्यः १४९ । कथं ? उ० भ० मङ्ग० ४४ । तद्दिनशेषघट्यः १६ । कार्यदिनघव्यः १३ । अन्तरालदिनद्वयस्य घट्यः १२० मीलने १४९ । ताः ८०० गुणा जातं ११९२००। सर्व्वर्क्षनाड्यः १०२२ । आभिर्भागे लब्धं कलाः ११६ विकलाः ३८ | पूर्व भद्रपदान्त्यपादसरक २०० कलाक्षेपे जाताः ३१६ कलाः । तासां ६० भागे लब्धं पक्ष ५ अंशाः उपरि ११ राशिदाने जातः स्पष्टो भौमः ११-५-१६-३८ । तद्गतिस्तु कलाः ४६ विकलाः ५८ ।
,
Aho ! Shrutgyanam