________________
२५८
आरम्भ-सिद्धिः
-
-
-
-
प्रसङ्गाच्छायाकालयोरानयनमूचे । अथ प्रस्तावाद् ग्रहाणां च तद्वतीनां च स्फुटीकृतिरुच्यते" गतेष्टनाड्यो गुणिताः खखेभैः ८००-६००-४००-२००,
सर्वक्षनाडीविहृताः कलाद्यम् । भुक्तायुक्तं सकला ग्रहाः स्युः,
षष्टया हतेष्वष्टशतेषु भुक्तिः ॥ १ ॥” अस्य भाष्यं" इष्टात् प्राग्गतनाड्योऽष्टतायेगुणितास्ततः । सर्वसंघटिका भक्ताः कलाद्याः स्युरिति स्फुटम् ॥ १ ॥ भुक्तऋक्षाष्टशत्यादिप्रमाणसहितास्ततः । षष्टिभक्तेशकादि स्याच्छेषे षष्टिगुणे ततः ॥ २ ॥ सर्वसंघटिकाभक्ते लब्धं स्याद्विकलादिकम् । एवं स्पष्टा ग्रहाः सर्वे कर्तव्या गणकोत्तमैः ॥ ३ ॥"
स्पष्टाः । नवरं अष्टशताबैरिति समग्रनक्षत्रसत्कगतनाडीगुणने तद्भोगस्य ८०० कलारूपत्वात् ८०० गुणकारः। आद्यशब्दात् यत्र नक्षत्रपादत्रयस्य द्वयस्य नक्षत्रैकपादस्य वा गतनाड्य इष्टाः, तत्र ६००-४००-२०० रूपाः क्रमाद्गुणकारा इति स्वयमूह्यं । सर्वक्षेति, अत्रापि समग्रनक्षत्रतत्पादत्रयद्वयादिसत्कामिरेव सर्वनाडीमिस्तत्र तत्र भजनमूह्यम् । एवं भुक्तऋक्षाष्टशत्यादीत्यत्राप्येकद्वित्रिपादभुक्तत्वसम्भवे २००-४००-६०० कलानां लब्धकलासु क्षेपोऽभ्यूह्यः । ऋक्षशब्देन च राशयोऽप्युच्यन्ते, तेन यदि कत्यपि राशयस्तेन ग्रहेण भुक्ताः स्युस्खदा तेऽप्युपरि लेख्याः । अयमेवार्थो व्यक्त्योच्यते-- " इन्दोर्गुण्या गता घटयोऽष्टशत्या प्रतिभं सदा । भौमसूर्यज्ञशुक्राणां गुण्या अष्टशतादिभिः ॥ १ ॥ शनिवाक्पतिराहूणां द्विशत्या पादगत्वतः । गता घटयो हताभ्यांन्हिघट्याप्तं स्यात्कलादिकम् ॥ २ ॥ राहोमिगतित्वेन लब्धा या विकलाः कलाः । शोध्यास्ता द्विशतीमध्याच्छेषं भोग्यकला इह ॥ ३ ॥"
व्याख्या-अष्टशत्येति चन्द्रचारस्य सर्वत्र नक्षत्रापेक्षयैव टिप्पनकेषु लिखनात् । अष्टशतादिभिरिति भौमादीनां चारस्य नक्षत्रापेक्षया राश्यपेक्षयाऽपि च लिखनात्, द्विशत्येति शन्यादीनां चारस्य तु भैकपादापेक्षयैव लिखनात् तदपेक्षयैव वर्तनीयं, तत्र भपादसरकगतेष्टनाड्यः २०० गुणिता भपादात् पादान्त
Aho! Shrutgyanam