________________
पञ्चम विमर्शः
" खमहीकर २१० हतदिवसे विहृते वाञ्छित पलैर्द्युगतशेषैः । लब्धं मध्यपदैर्युग् नग ७ रहितं स्यात् पदच्छाया ॥ १ ॥ शेषर्क १२ गुणं कृत्वा वाञ्छितैस्तु पलैर्हृतम् । लब्धमङ्गुलसंज्ञं स्यादेवं छायाङ्गुलागमः ॥ २ ॥
""
स्पष्टौ । उदाहरणं यथा - तद्दिनं घन्यः ३१ पलानि ५० अक्षराणि ३९, इदं २१० हतं जातं ६५१०- १०५००-८१९० । षष्ट्या भक्त्वा भक्त्वा उपरि क्षेपे जातमध: ३० तदुपरि १६, तस्याप्यूर्ध्व ६६८७ । ततोऽस्य गति पूर्वाह्णे गतपलैर्भागः, अपराह्णे तु शेषपलैः । अत्र पूर्वानीत १३ घटी ३२ पलसरकै ८१२ भागे लब्धं पदानि ८, शेषं १९१, तत् १२ गुणनेऽधःस्थ १६ क्षेपे च जातं २३०८, भस्य ८१२ भागे लब्धं भङ्गुलद्वयं २, शेषं ६८४, इदं व्यङ्गुलानयनाय ६० गुणं, अधःस्थ ३० क्षेपे जातं ४१०७०, तस्यापि ८१२ भागे लब्धं व्यङ्गुलानि ५०, शेषं ४७० त्यक्तं । अस्य पद ८ अङ्गुल २ व्यगुल ५० [ ५१ ] रूपस्य मध्ये मध्यच्छायापदाङ्गुलभ्यङ्गुलक्षेपे पदाङ्कात् ७ कर्षणे च जातं पद २ भगुल १० व्यङ्गुल २३ [ २४ ] | इयं सप्ताङ्गुलशङ्कुच्छाया १३ घटी ३२ पलसमये स्यादित्यागतम् । अथ प्रत्ययार्थमेतच्छायातोऽयं काल आनीयते
"
" साद्रि ७ शङकुपदैरर्क १२ गुणैर्मध्याङ्गुलोनितैः । द्विवेद ४२ मे दिने भक्ते युगतं शेषमाप्यते ॥ १ ॥ यथाऽत्र साद्रि ७ शकुपदा ९ र्क १२ गुणाः १०८ अधःस्थ १० अगुलक्षेपे जातं ११८ । इतो मध्यच्छायायाः १ पद ७ अगुरुरूपत्वादङ्गुलरूपत्वकरणे १९ अङ्गुलकर्षणे जातं ९९ । अथ तद्दिनमानाङ्कत्रयं ४२ गुणी - कृत्य षष्ट्या भक्त्वा भक्त्वोपरि क्षेपे जातं अधः ४२ उपरि २८, तस्याप्युपरि १३३७ । अस्य ९९ भागे लब्धं घटी १३ शेषं ५० । तत् ६० गुणनेऽधःस्थ २८ क्षेपे च जातं ३०२८ । अस्य ९९ भागे लब्धं पलानि ३० शेषं ५८ । तत् ६० गुणनेऽधःस्थ ४२ क्षेपे च जातं ३५२२ । अस्यापि ९९ भागे लब्धमक्षराणि ३५ शेषं ५५ तच ९९ अपेक्षयाऽर्धाधिकमित्यतो रूपग्रहणेऽक्षराणि ३६ । अय ३६ अङ्कः ६० अपेक्षयाऽर्घाधिकोऽस्तीत्यतोऽस्मात् १ पलग्रहणे जात पलानि ३१, तत आगतं पदे २ अङ्गुलानि १० व्यङ्गुलानि २४, छायायां घटी १३ पल ३१ रूपं चटितदिनं । अपराह्णे त्वेतावत्यां छायायां शेष'दिनमेतावत् स्यात् । एकद्विपलविसंवादे च न दोषः, करणान्तरखात् । इति
"
Aho ! Shrutgyanam
२५७
: