________________
पञ्चमो विमर्श
॥ अथ मिश्र द्वारम् ॥ ११ ॥
अथ मिश्र द्वारं वदन्नादौ तावल्लग्नग्रहणे ग्रहगोचरशुद्धिमाह - लग्ने गुरोर्वरस्याथ ग्राह्यं चान्द्रबलं बुधैः । शिष्यस्थापककन्यानां जीवेन्द्वर्कबलानि च ॥ ५ ॥
व्याख्या - लग्ने इति लग्नसमये । गुरोरिति दीक्षाप्रतिष्ठालग्नयोर्गुरो:, विवाहलग्ने तु वरस्य । चान्द्रबलमिति प्रागुक्तविधिना राशिगोचर १ नवांशगोचरा २ ष्टवर्गशुद्धि ३ शुभतारा ४ शुभावस्था ५ वामवेध ६ शुक्लेतरपक्षप्रारम्भ ७ मित्राधिमित्रगृहस्थिति ८ सौम्यगृहस्थिति ९ मित्राधिमित्रांश स्थिति सौम्यांशस्थिति ११ मित्राधिमित्रग्रहयुति १२ सौम्यग्रहयुति १३ मित्राधिमित्रग्रहदृष्टि १४ सौम्यग्रहदृष्टि १५ प्रकाराणामन्यतरे ( मे ) णापि प्रकारेण चन्द्रामुकूल्यबलं ग्राह्यमेव । यदुक्तं
१०
२०१
" सर्वत्रामृतरश्मेर्बलं प्रकल्प्यान्यखेटजं पश्चात् ।
"
चिन्त्यं यतः शशाङ्के बलिनि समस्ता ग्रहाः सबलाः ॥ १ ॥ शिष्येति शिष्यो दीक्षणीयः पदे स्थाप्यमानो वा, स्थापको यः श्राद्धादिव्यं व्ययति । जीवेन्द्रकेति एतान्यवश्यब्राह्माणि । यदुक्तं - रविशशिजीवैः सबलैः शुभदः स्याद्गोचर... इति । ग्रहाणां बलतारतम्यादिविभागश्चैवम् —
"
65
66
पूर्ण २० खेटाष्टकबलमूनं पादेन १५ गोचरं प्रोक्तम् । वेधोत्थमर्द्धमानं १० पादबलं ५ दृष्टितः खेचरे ॥ १ ॥
"
इदं सामान्येन सर्वग्रहानाश्रित्योक्तं । चन्द्रस्य तु विशिष्याह"पणाङ्के गोचरबल १ मटक २ तारोत्थ ३ वेध ४ पक्षभवम् ५ । क्रमशस्तारा १ वेधज २ पक्षभवानी ३ह गौणानि ॥ २ ॥” क्रमश इति एतानि बलानि यथोत्तरं न्यून
न्यूनतर २ न्यूनतमानि
३ । आद्यबलयोस्तु स्वरूपमाह
(6 ग्रहगोचरा १ व २ तुल्यबलौ शुद्धिकारणादनयोः । एकेनापि बलेन प्राप्तेन भवेत्सुशुद्धिरिह ॥ ३ ॥ चेद्गोचरान हि भवेत्तदाऽष्टवर्गाद्विलोक्यते शुद्धिः । गोचरतोsट्रकवर्गो बलवानुद्रादीक्षादौ ॥ ४ ॥
तस्मादष्टकशुद्धिर्गुरोर्विलोक्या रवेश्च चन्द्रस्य ।
निधना ८ न्त्या १२ म्बु ४ गतेष्वपि रेखाधिक्यात्सुशुद्धिः स्यात् ॥ ५ ॥
Aho ! Shrutgyanam