Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 8
________________ विज्ञाः / पत्र पूर्वत्र वाक्ये कालात्ययो निदिष्टः / स किमवधिकः किक्रियापेक्ष इति च नोक्तम् / उत्तरत्र च कियोक्ता स्वातन्त्र्येण, न तु पूर्ववाक्यगतकालावधित्वेन / तेनोभयोर्वाक्ययोरवध्यवधिमद्भायो नावगतो भवति / स च मूलवाक्येऽभिसन्धित्सितो वक्त्रेति दूरं सान्तरे छाया च मूलं घेति न दुरवधारं सुधीभिः / तेनापहाय दुष्टमेतत्प्रकारत्रयं तिर्दुष्टमिदं प्रकारत्रयं परिगृह्णन्तु सन्तः-- (1) मद्य पएनासा भुवः कम्पितायाः / अथ वर्षसहतं महमूदस्य भरतभुवमाकान्तयतः (प्रथवा महमूदेन भरतभुव प्राक्रान्तायाः) / प्रच सप्ताहद्वयं धारासारवृष्टिस्य देवस्य / (2) अध षष्ठे मासि बलवद, भूरकम्पत / प्रद्य सहस्रतमे वर्षे महम दो भरतभुवमाचक्राम / अथ चतुर्दशे दिवसे धारासारैः रवर्षद, देवः / (3) इतः षट्सु मासेषु बलवद् भूरकम्पत / इतो वर्षसहस्र महमूदो भरतभुषमाचक्रान / इतः सप्ताहद्वये धारासाररवर्षद देवः / इह प्रथमे प्रकारे षएनासाः, वर्षसहस्रम्, सप्ताहद्वयमित्यतीतं कालं परािच्छन्दन्ति / तत्र च सर्वत्रातीताः सन्तीत्यावेः क्रियाया गम्यमानायाः कतृ तया प्रथमान्तानीमानि निविष्टानि / भुव इत्यादी षष्ठी शेषिकी / मधेति स्वस्मादह्न इत्यर्थमाचष्टेऽधिकरणवृत्तिरपि / तथा च शिष्टप्रयोगः--प्रद्य प्रमृत्यवनताङ्गि तवास्मि दास इति / द्वितीयस्मिन्प्रकारे न बहु वक्तव्यमस्ति / षष्ठे मासे इत्यादी सप्तमी भाव. लक्षणा ज्ञेया / अयं च विन्यासः कुन्दमालामतेन प्रध सप्तमे दिवसे संपतिताभिस्तपोवनवासिनीभिर्विज्ञापितो भगवान वाल्मीकिः (चतुर्थाङ्कादौ) इति प्रन्येन समर्थितो भवति / तृतीये खलु प्रकारे इत इति पञ्चम्यर्थे तसिप्रत्ययान्तः / पञ्चमी च यतश्चाध्वकालनिर्माणं तत्र पञ्चमीति वार्तिकेन कालमाने विहिता / षट्सु मासेष्वित्यावो सप्तमी तु कालात्सप्तमीति वचनानुसारिणी। प्रत्रान्त्ये प्रकारे शाबरभाष्यमपि प्रमारणम्-प्रतीयते हि गाव्या दम्यः सास्नादिमानर्थः / तस्मादितो वर्षशतेप्यस्यार्थस्य सम्बन्ध प्रासीदेव, ततः परेण ततश्च परतरेरणेत्यनादितेति / प्रकारत्रितयमप्येतदेवणीयं प्रणयने परीवर्ते वा वाचाम् / इदं चेह विवेच किमेते प्रकाराश्छन्दतो यत्र तत्र शक्या प्रास्थातुमुत यथास्वं प्रतिनियतविषया अमी इति / अन्त्यं प्रकारद्वयं तु कामतो यत्र तत्र शक्यं प्रयोक्तुम् / उभयथोच्यमानेणे न दोषः कश्चित् प्रादुःष्यात, न वा किञ्चिदाकुलं स्यात् / प्रथमः प्रकारस्तु क्वचिदेव सगतः स्यात् / तत्र हि कालविशेषस्यातिक्रान्तस्य विशेषणीभूता क्रिया कृत्प्रत्ययान्तेन षष्ठयन्तेनोच्यत इति कालापेक्षया तस्याः प्रव्यक्ता गौरखता / तस्माद्यत्रैवंविधः क्रियाकालयोगुण

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 278