Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||४६३||
दीप
अनुक्रम [५०१]
Education t
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [५०१ ]
मुनि दीपरत्नसागरेण संकलित
*******
८०
“निर्युक्तिः [ ४६३ ] + भाष्यं [ ३४...] + प्रक्षेपं [५...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
अन्नेसि दिज्जमाणे जायंतो वा अलडिओ कुप्पे । कोहफलंमिऽवि दिट्ठे जो लम्भइ कोहपिंडो सो ॥ ४६३ ॥ व्याख्या—' अन्येभ्यः' ब्राह्मणादिभ्यो दीयमाने याचमानोऽपि साधुर्यदा न लभते तदाऽलब्धिमान् सन् कुप्येत, कुपिते च सति तस्मिन् साधुः कुपितो भन्यो न भवतीति यद्दीयते स क्रोचपिण्डः । यदिवा तस्मिन्नन्यत्र वा क्रोधफले मरणादिशापे फलवति दृष्टे यो लभ्यते स क्रोधपिण्डः । अत्रैवोदाहरणमाह
करय भत्तमल अन्नहिं दाहित्य एव वञ्चतो । थेरो भोयण तइए आइक्खण खामणा दाणे || ४६४ ||
व्याख्या - हस्तकल्पे नगरे कचिद्राह्मणगृहे मृतकभक्ते मासिके दीयमाने कोऽपि साघुर्मास पणपर्यवसाने भिक्षार्थी प्रविवेश, दृट्टा तेन घृतपूरा ब्राह्मणेभ्यो दीयमानाः सोऽपि च साधुः प्रतिषिद्धो दौवारिकेण, ततः कुपितोऽवादीत्, 'अनहिं दाहित्य 'ति, अस्य चायमर्थ:-अस्मिन् मासिके तावन्मया न लब्धं ततोऽन्यस्मिन् मासिके दास्यथेति, एवं चोक्त्वा निर्गतः दैवयोगेन च तत्रान्यन्मानुषं पञ्चपद्दिनमध्ये मृतं सतस्तस्य मासिके दीयमाने भूयः स एव साधुर्मासलपणपारणे गतः, तथैव च प्रतिषिद्धो दौवारिकेण, ततः भूयोऽपि कुपितोऽवादीत्— 'अन्नहिं दाहित्य 'त्ति, ततः पुनरपि दैवयोगेन तत्रान्यन्मानुषमुपगतं ततस्तस्यापि मासिके स एव साधुर्मासक्षमणः पारणे भिक्षार्थमागतः, तथैव च प्रतिषिद्धो दौवारिकेण भणति- 'अनहिं दाहित्य'त्ति, एतच श्रुत्वा तेन स्थविरेण दौवारिकेण चिन्तितं, पुराऽप्येतेन वारद्वयमित्थं शापो वितीर्णस्ततो द्वे मानुषे उपगते सम्पति तृतीयबेला ततो किमपि मानुषं प्रियतामिति जाताऽनुकस्पेन सर्वोऽपि वृतान्तो गृहनायकाय निवेदितः तेन च समागत्य सादरं साधुं क्षमयित्वा घृतपूरादिकं तस्मै यथेच्छं व्यतारि, स क्रोधपिण्डः । सूत्रं सुगमं, नवरं 'करकभक्तं ' मृतकभोजनं मासिकादि । तदेवमुक्तः क्रोधपिण्डः सम्पति मानपिण्डस्य सम्भवमाह-
For Para Lise Only
~270~
yog
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c2dfebe9964f8e7a3d584492368f572ae8cc10768de14d37d3c4e475ba651264.jpg)
Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364