Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६८१] .. “नियुक्ति: [६३९] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६३९||
कर्मणा च संयोजयति भवं ' दीर्घतरं संसार, तस्माच्च भवादीर्घतरसंसाररूपात् 'दुःखम् ' असा संयोजयति, ततो यो द्रव्यसंयोजना Jell करोति तस्येत्थमनन्तकालसंवेद्यो दुःखनिपात इति । सम्पत्यस्या एव द्रव्यसंयोजनाया अपवादमाह। पत्ते य पउरलंभे भुत्तुव्वरिए य सेसगमणट्ठा । दिट्ठो संजोगो खलु अह कम्मो (कमो) तस्सिमो होइ ॥६४०॥
___ व्याख्या-'प्रत्येकम् ' एकैकं साधुसङ्घाटकं प्रति 'प्रचुरलाभे' विपुलघृतादिप्राप्तौ सत्यां यदि कथमपि भुक्ते सति 'चः' समुवाये शेष-उद्धरितं भवति, ततस्तस्य शेषस्य निर्गमनाथ दृष्टः-अनुज्ञातस्तीर्थकरादिभिः खलु संयोगः, उद्धरितं हि घृतादि न खण्डा
दिकमन्तरेण मण्डकादिभिरपि सह भोक्तं शक्यते, प्रायस्तृप्तत्वात न च परिष्ठापनं युक्तं, घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि । कीटिकादिसत्त्वव्याघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात् , तत उद्धरितघृतादिनिर्गमनार्थ खण्डादिभिरपि तस्य संयोजन न दोषाय-| एष तावदयमपवादः संयोजनायाः । अथान्योऽपि तस्य संयोगस्यायं-वक्ष्यमाणः क्रमो भवन परिपाटीरूपो भवति ।। तमेवाह
रसहेउं पडिसिहो संयोगो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो य ॥ ६४१॥
व्याख्या-रसहेतोः गृद्धया रसविशेषोत्पादनाय संयोगः प्रतिषिद्धस्तीर्यकरादिभिः, यावता पुनः स एव संयोगो 'मलानाथ ग्लानसज्नीकरणार्य कल्पते, यदा यस्य ' अभक्तच्छन्दः' भक्तारोचकः, यश्च मुखोचितो-राजपुत्रादिः यथाद्याध्यभावितः-असञ्जातसम्यक्परिणामः शैक्षकस्तस्य निमित्वं कल्पते । उक्तं संयोजनाद्वारम्, अथाहारममाणद्वारमाह- .
बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसरस महिलियाए अट्ठावीसं भवे कवला ॥६४२॥
दीप अनुक्रम [६८१]
~348~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0a7ae01d069d590599fa3dcbab568ddd8e62afe733c879ebe470e0c45f05de07.jpg)
Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364