SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४६३|| दीप अनुक्रम [५०१] Education t “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [५०१ ] मुनि दीपरत्नसागरेण संकलित ******* ८० “निर्युक्तिः [ ४६३ ] + भाष्यं [ ३४...] + प्रक्षेपं [५...]" ८० आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः अन्नेसि दिज्जमाणे जायंतो वा अलडिओ कुप्पे । कोहफलंमिऽवि दिट्ठे जो लम्भइ कोहपिंडो सो ॥ ४६३ ॥ व्याख्या—' अन्येभ्यः' ब्राह्मणादिभ्यो दीयमाने याचमानोऽपि साधुर्यदा न लभते तदाऽलब्धिमान् सन् कुप्येत, कुपिते च सति तस्मिन् साधुः कुपितो भन्यो न भवतीति यद्दीयते स क्रोचपिण्डः । यदिवा तस्मिन्नन्यत्र वा क्रोधफले मरणादिशापे फलवति दृष्टे यो लभ्यते स क्रोधपिण्डः । अत्रैवोदाहरणमाह करय भत्तमल अन्नहिं दाहित्य एव वञ्चतो । थेरो भोयण तइए आइक्खण खामणा दाणे || ४६४ || व्याख्या - हस्तकल्पे नगरे कचिद्राह्मणगृहे मृतकभक्ते मासिके दीयमाने कोऽपि साघुर्मास पणपर्यवसाने भिक्षार्थी प्रविवेश, दृट्टा तेन घृतपूरा ब्राह्मणेभ्यो दीयमानाः सोऽपि च साधुः प्रतिषिद्धो दौवारिकेण, ततः कुपितोऽवादीत्, 'अनहिं दाहित्य 'ति, अस्य चायमर्थ:-अस्मिन् मासिके तावन्मया न लब्धं ततोऽन्यस्मिन् मासिके दास्यथेति, एवं चोक्त्वा निर्गतः दैवयोगेन च तत्रान्यन्मानुषं पञ्चपद्दिनमध्ये मृतं सतस्तस्य मासिके दीयमाने भूयः स एव साधुर्मासलपणपारणे गतः, तथैव च प्रतिषिद्धो दौवारिकेण, ततः भूयोऽपि कुपितोऽवादीत्— 'अन्नहिं दाहित्य 'त्ति, ततः पुनरपि दैवयोगेन तत्रान्यन्मानुषमुपगतं ततस्तस्यापि मासिके स एव साधुर्मासक्षमणः पारणे भिक्षार्थमागतः, तथैव च प्रतिषिद्धो दौवारिकेण भणति- 'अनहिं दाहित्य'त्ति, एतच श्रुत्वा तेन स्थविरेण दौवारिकेण चिन्तितं, पुराऽप्येतेन वारद्वयमित्थं शापो वितीर्णस्ततो द्वे मानुषे उपगते सम्पति तृतीयबेला ततो किमपि मानुषं प्रियतामिति जाताऽनुकस्पेन सर्वोऽपि वृतान्तो गृहनायकाय निवेदितः तेन च समागत्य सादरं साधुं क्षमयित्वा घृतपूरादिकं तस्मै यथेच्छं व्यतारि, स क्रोधपिण्डः । सूत्रं सुगमं, नवरं 'करकभक्तं ' मृतकभोजनं मासिकादि । तदेवमुक्तः क्रोधपिण्डः सम्पति मानपिण्डस्य सम्भवमाह- For Para Lise Only ~270~ yog
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy