Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५१८] .→ “नियुक्ति: [४८०] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४८०||
दीप अनुक्रम [५१८]
त्परमबन्धुकल्पानां गुरूणां पृष्ठं ददामि इति पश्चात्कृतपादमचारो हा ! कथमहं भूयोऽप्येवंविधगुरूणां चरणकमलं प्राप्स्यामि ? इति विचिन्तयन् वसतेविनिर्गत्य विश्वकर्मणो भवनमायाता, परिभावितमस्य सादरमनिमिषदृष्ट्या नटदुहितृभ्यां वपुः, प्रत्यभासत सकल| जगदाश्चर्यमस्य रूपं, ततोऽचिन्तयतामिमे-अहो ! कौमुदीशशाङ्कमण्डलमिवास्य मनोहरकान्तिवदनं कमलदलयुगलमिव नयनयुगलं || गरुन्मत इव तुङ्गमायतं नाशानालं कुन्दमुकुलश्रेणिरिव मुस्निग्धा दशनपद्धति: महापुरकपाटमिव विशालमस्य मांसलं वक्षास्थलं मृगरिपोरिव संवर्त्तितः कटिप्रदेमूः निगूढजानुपदेशं जगायुगलं सुमतिष्ठितकनककूर्मयुगलमिव चरणयुगलं, ततो विश्वकोऽवोचत्-महा-|| |भाग ! तबाऽऽयत्ते द्वे अप्यमू कन्यके वनः खीक्रियेतामिति, ततः परिणीते ते द्वे अपि तेन कन्यके, भणिते च विश्वकर्मणा-यो नामै-18 तादृशीमप्यवस्थां गतो गुरुपादान् स्मरति स नियमादुत्तमप्रकृतिः, तत एतच्चिचावर्जनार्थ सदैव मद्यपानविरहिताभिर्युष्माभिः स्थातव्यं । अन्यथैष विरक्तो यास्यति, आषाढभूतिश्च सकलकलाकलापपरिज्ञानकुशलो नानाविधैर्विज्ञानातिशयः सर्वेषामपि नटानामग्रणीभूव, लभते च सर्वत्र प्रभूतं द्रव्यं वस्त्राभरणानि च, अन्यदा च राज्ञा समादिष्टा नटा:-अद्य निर्मइलं नाटकं नर्चनीय, ततः सर्वेऽपि नटाः खां स्वां
युवति स्वस्वगृहे विमुच्य राजकुलं गताः, आपाढभूतिभार्याभ्यामपि चिन्तितम्-अद्य राजकुले गतोऽस्माकं भर्ती सकलामपि च राधिका बागमयिष्यतीति, ततः पिबामो यथेच्छमासवमिति, तथैव कृतं, मदवशाचापगतचेतने विगतबस्ने द्वितीयभूमिकाया उपरि मुले तिष्ठतः ।
राजकुलेऽपि परराष्ट्रदूतः समायात इति राज्ञो व्याक्षेपो बभूव, ततोऽनवसर इतिकृत्वा प्रतीहारेण मुत्ककिताः सर्वेऽपि नटाः समागताः स्वं स्वं भवन, आषादभूतिश्च निजकावासे समागत्य यावद्वितीयभूमिकामारोहति तावते हे अपि निजमायें विगतवस्त्रतया बीभत्से ग पश्यति, ततः स महात्माऽचिन्तयत्-अहो ! मे मूढता अहो ! मे निर्विवेकता अहो! मे दुर्विलसितं य एतादृशामप्यशुचिकरण्डकभूतानामधोगतिनिवन्धनानां कृते परमशुचिभूतमिहपरलोककल्याणपरम्पराजनकमक्षेपेण मुक्तिपदनिबन्धनं संयम उज्झविभूष, नतो
~ 278~
Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364