Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं ॥ .. "नियुक्ति: [५५१] + भाष्यं [३७...] + प्रक्षेपं [६...]" " मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५५१||
व्याख्या-मुगमं । नवरम् ' अप्पचा उ चउत्ये माला' इति चतुर्थेप्राप्ताख्ये भेदे पिठरममाप्ता ज्याला द्रष्टव्या, एवमन्यत्राप्यक्षरगमनिका कार्या | सम्पति 'जंतोलित्ते य जयणाए' इत्यवयवं व्याचिल्पामुराहal पासोलित्त कडाहे परिसाडी नत्थि तंपि य विसालं । सोवि य अचिरच्छूढो उच्छुरसो नाइउसिणो य ॥५५२॥
___ व्याख्या-इह यदीति सर्वत्राध्याहियते, यदि कटाहः-पिठरविशेषः सर्वतः पार्वेषु मृत्तिकयाऽवलिप्तो भवति दीयमाने चेचरसे यदि परिशाटिनोपजायते तदपि च कटाहरूपं भाजनं यदि 'विशालं 'विशालमुखं भवति, सोऽपि चेक्षुरसोऽचिरक्षिप्त इतिकृत्वा यदि नात्युष्णो भवति तदा स दीयमान इक्षुरस: कल्पते, इह यदि दीयमानस्येक्षुरसस्य कथमपि बिन्दुबहिः पतति तहि स लेप एवावर्तते, न तु चुल्लीमध्यस्थिततेजस्कायमध्ये पतति ततः पार्थावलिप्त इति कयहस्य विशेषणमुक्तं, तथा विशालमुखादाकृष्यमाण उदश्चनः पिठरस्य । कर्णे न लगति ततो न पिठरस्य भङ्ग इति न तेजःकायविराधनेति विशालग्रहणम्, अनत्युष्णग्रहणे तु कारणं स्वयमेव वक्ष्यति । सम्म-17
त्युदकमधिकृत्य विशेषमाह|| उसिणोदगंपि घेप्पइ गुडरसपरिणामियं अणच्चुसिणं । जं च अघट्टियकन्नं घट्टियपडणमि मा अग्गी ॥ ५५३ ॥
व्याख्या-उष्णोदकमपि गुढरसपरिणामितमनत्युष्णं गृह्यते, किमुक्तं भवति ?-पत्र कटाहे गुडः पूर्वं कथितो भवति, तस्मिन्निक्षिप्त जलमीपत्तप्तमपि कटाहसंसक्तगुडरसमिश्रणात् सत्वरमचित्तीभवति, ततस्तदनत्युष्णमपि कल्पते, अत्रापि पार्चावलिप्तकटाइस्थितमप-11 रिशाटिमचेति विशेषणद्वयमनुपात्तमपि द्रष्टव्य, तथा 'यदघटितकर्ण'न यस्मिन् दीयमाने पिठरस्य कर्णावृदश्चनेन प्रविशता निर्गच्छता
दीप अनुक्रम [५९३]
IAna
~ 308~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3849507eb8c326ffc29a81dd4da04b3ecd80f0186514a9db03d39f9f8f9eebd0.jpg)
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364