Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 8
________________ व्युत्पत्तिवादः । अभेदश्च प्रातिपदिकाथै स्वसभानविभक्तिकेन खाव्यवहितपूर्ववर्तिना च पदेनोपस्थापितस्यवैसंसर्गमर्यादया भासते यथा नीलो घटो नीलघतमानयेत्यादी घटादौ नीलादेः, नतु विरुद्धविभक्तिमत्एदार्थस्य । नीलस्य घट इत्यादी नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात् । स्वसमानविभक्तिकत्वं च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । साजात्यं च विभक्तिविभाजकप्रथमात्वादिना नत प्रत्येकं संबन्धलादुभयमतानुरोधेन पक्षपातपरित्यागेन तथोक्तेः । यद्वाधारतानिरूपिताधेयत्वप्रतियोगितानिरूपितानुयोगिलादीनां संसर्गतामतमालम्ब्येयमुक्तिः । तत्र वहिलावच्छिन्नलप्रतियोगिलस्य संसर्गत्वे वहिलावच्छिन्नलप्रतियोगिखानां संसर्गवमिवाधारत्वाधेयलाद्योरुभयोः संसर्गखोपपत्तिरिति ध्येयम् । अभेदश्च प्रातिपदिकार्थ इत्यादि। एतेन वहिमत्येव धूम इत्यत्र वहिव्याप्यवमिवाकाडाप्रयोज्याभेदनिष्ठसांसर्गिकविषयताखस्य प्रातिपदिकविशिष्टखव्याप्यलं लभ्यते वैशिष्टयं च स्वप्रयोज्यविशेष्यताकत्लखविशिष्ट प्रकारताकत्वोभयसंबन्धेन । खवैशिष्टयं च खप्रकृतिकविभक्तिसजातीयविभक्तिकत्लखाव्यवहितपूर्ववर्तिलान्यतरसंबन्धेन स्वविशिष्टप्रातिपदिकप्रयोज्यवसम्बन्धेन । नच क्रियाविशेषणस्थले व्याप्यखहानिरिति वाच्यम् , अभेदः संसर्गः प्रातिपदिकार्थ स्वसमानविभक्तिकपदोपस्थापितार्थस्यैवेति हिन योजना किंतु प्रातिपदिकार्थेऽभेदसंसर्गस्तथाविधार्थस्यैवेति, तथासति प्रातिपदिकार्थानुयोगिकाभेदसंसर्गे खसमान विभक्तिकपदोपस्थाप्यार्थातिरिक्तप्रतियोगिकलव्यवच्छेदवति सांसर्गिकविषयललाभेन प्रातिपदिकार्थनिष्ठविशेष्यतानिरूपिताकासाप्रयोज्यसांसर्गिकविषयताखस्य व्याप्यतालाभादुक्तदोषासंभवात् , अथैतब्यापकमर्धपिप्पल्यादिपूर्वपदार्थप्रधानसमासस्थले पिप्पलीपदलक्ष्यार्थपिप्पलीसंबन्धिप्रतियोगिकार्धपदार्थानुयोगिकसंसर्गनिष्ठविषयतायामवर्तमानं ततो व्याप्यं विनिवर्तयतीति प्रातिपदिकार्थयोरभेदान्वयनियमभा इति चेन्न । पूर्वपदार्थप्रधानसमासस्थले उत्तरपदस्यैव पूर्वपदार्थघटितार्थे लक्षणाखीकारेण पूर्वपदस्य तात्पर्थमात्रग्राहकतया तत्रत्यसांसर्गिकविषयतार्या व्याप्यनिवृत्तेरिष्टत्वात् । पूर्वोत्तरपदार्थयोरन्वयपक्षेच खविशिष्टप्रातिपदिकप्रयोज्यत्वस्यैव संसर्गत्वं वाच्यम् । वैशिष्ट्यं च खाव्यवहितोत्तरलघटितान्यतमसंबन्धेन बोध्यम् । प्रातिपदिकखप्रवेशाच घटः पचति चैत्र इत्यादी घटैकलसंसर्गविषयतायां चैत्रकृतिसंसर्गविषयतायां च न व्यापकसत्त्वप्रसङ्गः। नच तत्सत्त्वेऽपि का हानिरिति वाच्यम् । उक्तव्याप्यप्रयोजकान्तरस्य दुर्वचतया भेदएव संसर्गमर्यादया भासत इति समभिव्याहारकल्पनया वा तयोः परस्परव्याप्यव्यापकभावे पर्यवसानेनोक्तसांसर्गिकविषतायामभेदसंसर्गताखापत्तेरिति द्वितीयव्याप्यन्यापकभावश्च यत्र यत्र पद विशिष्टसांसर्गिकविषयतात्वं तनाभेदसंसर्गतरत्यमिति, वैशिष्ठ्यं च स्वप्रयोज्यविशेष्यताकलखविशिष्टप्रातिपदिकप्रयोज्यप्रकारताकत्वोभयसंबन्धेन स्ववैशिष्ट्यमुक्तान्यतमसंबन्धेन । नीलो घटो नीलघटमानयेत्यादि । अत्र प्रथमान्तपदघटितव्यस्तवाक्यमुदाहृत्य प्रथमान्तमेव समस्तवाक्यमुदाहर्तुमुचितं तत्परित्यागबीजं तु मृग्यम् । कचिच्च नीलं घटमानयेल्यादावित्येव पाठः । आदिपदाच तृतीयाद्यन्तपदघटितवाक्यसमस्तवाक्यपरिग्रहस्तत्र च नानुपपत्तिः। विरुद्ध विभक्तिमदिति । विरुद्धवं यद्यप्यरामानाधिकरणलमेव प्रसिद्ध तथापि विधमॆत्यादाविबानापि विशब्दो विरुद्धवचनस्तथा च विरुद्धेन रुद्धो विरुद्धधर्मवानित्यर्थः बिरुद्धशब्दस्य । विरोधप्र. तियोगिधर्मश्च प्रथमालादिस्तत्र तत्र ग्राह्य इति तत्समानविभक्तिकत्ल विपरीते पर्यवसन्नम् । नीलस्य घट इत्यादाविति । सप्तम्या: प्रयोज्यत्वमर्थः । तथा च तादृशवाक्यप्रयोज्यत्वप्रकारकानुभवविषयलाभाववत्त्वात्तादृशबोधस्येति तात्पर्यार्थः । तेनोक्तप्रयोज्यत्वविशिष्टोक्तबोधस्याप्रसिद्धत्वेऽपि न क्षतिः । विभक्तिविभाजकेति । अत्र विभक्तित्वेन न विभाज्यता अपितु सुवेन तथा सति विभक्तिखव्याप्यत्वे सति विभक्तिवव्याप्याव्याप्यत्वरूपस्य विभक्तित्वेन विभक्तिविभाजकलस्य प्रथमात्वेऽसंभवात्प्रथमालादिनेत्यस्यासत्यापत्तेः ! सुहवं च स्वाद्येकविंशतिविभक्तिसाधारणं संकेतविशेषसंबन्धेन सुप्पदवत्त्वमेव । न चैवंविधसुत्त्वज्ञानाभावकाले समानविभक्तिकलस्य दुयत्वादभेदान्वयबोधानुपपत्तिः । नहि समानविभक्तिकत्वं स्वरूपसदेव शाब्दबोधोपयोगि समानविभक्तिकस्थलेऽपि विरुद्धविभक्तिकखज्ञानदशायां शाब्दमतेरनुत्पादादिति वाच्यम् , उक्तसमान विभक्तिकलादीनां कारणतावच्छेदकघटकलानभ्युपगमाच्छिष्याणामवगतिसौलभ्याय तत्प्रदर्शनस्य शब्दानुगममात्रखात् एतेन प्रदर्यमाननियमेष्वपीदृशशकानां नावकाशः । नच प्रथमावादिनेति व्यर्थ सुबिभाजकत्वस्य तेष्वेव सत्त्वादिति वाच्यम् । तदुपादानादेव सुवेन विभाज्यतालाभात् । नच सुब्बिभाजकधर्मेणेत्येव कुतो नोक्तमिति वाच्यम् । कोसौ सुविभाजको धर्म इत्याकाङ्क्षानिवृत्तये प्रथमावादिनेत्यस्य वक्तव्यत्वे विशेषाभावात् । वस्तुतः प्रथमाखाद्यन्यतमपुरस्कारेणैव साजाये तात्पर्यम् तथा हि सुब्बिभाजन्कवं सुप्त्वव्याप्यत्वे सति सुस्वव्याप्याव्याप्यत्वं विभक्तित्वस्य विभाजकत्ववारणाय सत्यन्तम् । तदपि स्वसमानाधिकरणत्वे सति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकलरूपमेव वाच्यम् । तेन सुवस्य न विभाजकलनसक्तिः । अत्र सत्यन्तोपादानात्तिङ्लादिवारणम् । मुप्वादीनां विभाजकत्ववारणाय विशेष्यं तत्र सुप्वव्यायप्रथमालादिव्याप्यलस्य प्रथमात्वादो व्यावृत्तये द्वितीयं व्याप्यत्वं न्यूनवृत्तिखरूपमेव वक्तव्यम् । प्राथमिकं च व्याप्यवं लाघवात्सामानाधिकरण्याविशेषितं खसमानाधिकरणभेदप्रतियोगितावच्छेदकलस्पमुपादेयम् । तत्र सुश्वव्याप्यस्खमादि

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 218