Book Title: Vyutpattivada Gudharthatattvaloka Author(s): Dharmadattasuri Publisher: Nirnaysagar Yantralaya Mumbai View full book textPage 7
________________ गूढार्थतत्वालोकव्याख्यासहितः । क्वचिश्च तदतिरिक्त पवाधाराधेयप्रतियोग्यनुयोगिविषयविषयिभावादिः। वात्तनिरूपितसंसर्गताया न संग्रहः । नच घटोऽस्ति कलशोऽस्तीति द्विविधाकाढासमूहालम्बनज्ञानोत्तरं घटकलशोभयपदवृत्तिज्ञानजन्यघटोपस्थितेर्घटशाब्दबुद्धौ घटलप्रकारवघटविशेष्यखयोर्विनिगमकाभावेन पदयोः प्रयोजकलात्तनिरूपितसंसर्गखसंग्रहापत्तिः, स्वप्रयोजकपदसामान्यभिन्नत्वगर्भसंसर्गस्य खप्रयोजकपदाप्रयोज्यखस्य वा निवेशे नव्यगर्भवाक्यस्थलीयसंसर्गासंग्रह इति वाच्यम् खप्रयोजकपदनिष्ठाकाङ्क्षाज्ञानीयविषयतानिरूपितसांसर्गिकविषयतानिरूपितपदनिष्ठविषयताप्रयोज्यलसंसर्गस्यैव तेन विवक्षणात् घटपदकलशपदविषयतयोर्निरूप्यनिरूपकभावविरहात् न तत्र तत्संसर्गतासंग्रहः । नद्वयगर्भवाक्यस्थले नम्पदयोः साकाङ्घखात्तत्रत्यसंसर्गतासंग्रहः, स्वप्रयोजकविषयलं चेह स्वप्रयोजकवृत्तिज्ञानीयविषयतासमानाधिकरणं ग्राह्यम् । तेन कार्यतावच्छेदकघटकनिखिलविषयतानां कारणतावच्छेदककोटिप्रविष्टसकलपदविषयताप्रयोज्यत्वेऽपि न वृत्तिप्रयोज्यसंसर्गतासंग्रहप्रसङ्गः, एवं च खप्रयोज्यत्वमपि खसमानाधिकरणबृत्तिज्ञानीयविषयताप्रयोज्यलरूपमेवबोध्यम् । खप्रयोजकवृत्तिज्ञानीयविषयतासमानाधिकरणत्वेनाकाहाज्ञानीयविषयत्वोपादानेऽपि खप्रयोजकलमुपादेयमन्याऽस्तिघटः कलशोऽस्तीत्यादावेकस्य तदुभयवाक्यज्ञानं घटपदकलशपदयोः घटे शक्तिग्रहोअरस्य घटपदकलशपदयोः समभिव्याहारज्ञानं घटपदस्य घटे कलशपदस्य कम्युग्रीवादिमति वृत्तिज्ञानं तत्र घटघटखयोः संसर्गविषयत्वसंग्रहापत्तेः खप्रयोजकवृत्तिज्ञानीयेत्यादिसंबन्धप्रवेशादाख्यातैवकारादिस्थलीयसंसर्गतासंग्रहः । केन्वितु पदविशिष्टसंसर्गतायामेकपदार्थ इत्यादेस्ता स्पर्यम् । पदवैशिष्ट्यं च वविशिष्टविशेष्यताकत्लखविशिष्टप्रकारताकखान्यतरसंबन्धेन । प्रथमसंबन्धघटकवैशिष्ट्यं स्ववृत्तिज्ञानीय विषयताप्रयोज्यवस्खवृत्तिज्ञानीयमुख्य विशेष्यताप्रयोज्यप्रकारताकखोभयसंबन्धेन । प्रथमसंबन्धकथनं तु एकपदार्थद्वयनिरूपितसंसर्गतामात्रस्य संग्राहकतया प्रथमसंबन्धोपन्यास इति सूचयितुं नचास्ति तत्फलमिति बोध्यम् । द्वितीयसंबन्धघटकवैशिष्ट्यं च खवृत्तिज्ञानीयविषयताप्रयोज्यलवभिन्नपदवृत्तिज्ञानीयविषयताप्रयोज्यविशेष्यताकखोभयसंबन्धेन तथाचाख्यातार्थद्वयनिरूपितसंसर्गतायाः पदद्वयार्थनिरूपितसंसर्गतायाः संग्रहः पदार्थपदार्थतावच्छेदकद्वयनिरूपितसंसर्गताया न संग्रह इति वदन्ति । तदप्येवकारार्थव्यवच्छेदनिरूपिताया अन्ययोगलनिरूपितायाश्चावच्छिन्नप्रतियोगिताकलसंसगताया आकाङ्क्षाप्रयोज्याया असंग्रहादुपेक्षणीयम् । अथवा सामान्यत आकाङ्क्षाज्ञानशाब्दबोधयोः कार्यकारणभावे सत्येवाकाङ्क्षाज्ञानविशेषशाब्दविशेषयोः कार्यकारणभावविचारात्मकोक्तग्रन्थप्रवृत्तिः संभवति नान्यथा, नच तत्कार्यकारणभावस्य संभवः । तथाहि एकत्वाविवक्षायां घट इति कर्तृकारकपदे प्रयुक्त तस्माद्धटोपस्थितौ प्रमाणान्तरादस्तिलादियोग्यक्रियायामुपस्थितायां विनवाकाहाज्ञानं घटोऽस्तीति शाब्दबुद्धयुत्पत्तेः प्रभाकरसंमतलात् । पझ्यतः श्वतिमारूपं हेषाशब्दं च शृण्वतः । खुरविक्षेपशब्द च श्वेतोश्वो धावतीति धीरिति शाब्दप्रकरणे भट्टोक्तः श्वैत्यादिज्ञानस्य प्रत्यक्षादिजन्यत्वेऽपि विशिष्टज्ञानस्यालौकिकप्रत्यासत्त्यनङ्गीकर्तुस्तस्य मते प्रमाणपञ्चकाजन्यत्वेन शाब्दमतावन्तर्भावनीयत्वात्तस्याप्याकाहाज्ञानं विनैवोत्पत्तेराकाहाज्ञानस्य व्यतिरेकव्यभिचारादिति तत्समाधित्सयोक्तमतद्वयप्रतिक्षेपाय । शाब्दबुद्धिवावच्छेदेनैकपदार्थप्रतियोगिकापरपदार्थानुयोगिकसंसर्गस्य विषयवं दर्शयति-शाब्दबोधेचेत्यादिना । अत्र चैकखमपरत्वं च पद एवान्वेति नास्ति कोऽपि तादृशशाब्दबोधो न यः पद द्वयार्थसंसर्गमवगाहते। उक्तज्ञानदयस्यालौकिकप्रत्यक्षलमेवाभ्युपेयत इति न व्यभिचारः पदार्थलं च पदवृत्त्युपस्थाप्यखरूप मिह विवक्षितमेव तेनोक्तोपस्थिति विषयलसंसर्गखयोरेककालतालाभाभावाद् यदाकदाचिदुपस्थितिविषयत्वमादाय नोक्तस्थल उक्तसंसर्गविपयत्वप्रसङ्गः । एवं च सचेत्यवयुत्य शाब्दबोधविषयसंसर्गमाह तेनैकपदार्थद्वयसंसर्गासंग्रहनिबन्धनासङ्गतेन प्रसङ्गः इति शाब्दबोधे चेति चकारस्त्वर्थोऽनुमानादितो वैलक्षण्यमुपदर्शयति तच्चानुपपन्नं प्रयोजकविशेषमपेक्षमाणमाकाङ्क्षाज्ञानमेवोपक्षिपतीति तत्कार्यकारणभावदादाय भवतीति सर्वमवदातम् । क्वचिञ्च तदतिरिक्त एवेल्यनेनाभेदातिरिक्तसंबन्धानां तेषां सर्वेषां संग्रहेऽपि के ते संबन्धा इत्याकालाया अनिवृत्तवात्तग्निवृत्तये तद्विशेषानाह-आधाराधेयेत्यादि । अन्न द्वन्द्वान्ते श्रूयमाणस्य भावपदस्य प्रत्येकेणाभिसंबन्धादाधाराधेयभावादिलाभः । विषयविषयिभावादिरिति । अयं संबन्धो धाखर्थस्य सन्नर्थच्छादौ चेदितव्यः । आदिपदाजन्यजनकभावसमवायस्वरूपादिपरिग्रहः । अधाधाराधेयभावादीनां यत्संबन्धत्वोक्तिस्तरिक मिलितयोराधारवाधेयलयोराहोवित्प्रत्येकस्योत वोभयसाधारणैकास्खण्डोपाधिविशेषस्य । नायः, उभयोरेकनावर्तमानखात् । न द्वितीयः, आधारवादीनां खसिद्धान्ते कापि संसर्गलादर्शनात् । न तृतीयः आधेयत्वादिनैव विशिष्टबुद्ध्युपपत्तो तत्र मानाभावात् । नच संयोगादिप्रसिद्धसंबन्धानामुभयनिष्टत्वदर्शनाद्विभक्त्यर्थकर्मवादौ प्रातिपदिकार्थस्य संसर्गतया भासमाने विवादाध्यासितसंसर्गेऽपि तथाखमेवोचितमिति तसिद्धिरिति वाच्यम् । साधय॑स्य बलवत्प्रमाणपक्षपातं विनाभिमतार्थापर्यवसायिखादन्यथा संयोगस्य समवायेनोभयत्रसतः संसर्गवदर्शनादत्रापि तथा स्यात्तत्किं संबन्ध्यसंबद्धस्यैव संवन्धवं न तेन तेन संबन्धेन प्रतिनियतेन तत्तत्संबन्धिनि संबद्धस्य । अथ तर्हि कः प्रत्याख्येय इति चेदेकसंबन्धेन संबन्धिनोः संबद्धलं बलवत्तरप्रमाणाभावात् । एवं चाधेये खरूपेणाधारे निरूपकतया प्रत्यारान्नस्याधेयलस्य संसर्गत्वे न कापि हानिरिति चेन्न, प्राचीननवीनमतभेदेनाधारलाधेयखयोःPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 218