Book Title: Vyutpattivada Gudharthatattvaloka Author(s): Dharmadattasuri Publisher: Nirnaysagar Yantralaya Mumbai View full book textPage 5
________________ व्युत्पत्तिवादः । ५०८ गूढार्थतत्वालोकव्याख्यासहितः । श्रीगणेशाय नमः । शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते । स च क्वचिदभेदः । व्याजस्वीकृत सेवया विधुरभूद प्रेसरः श्रीमतां मानव्याहतिकैतवावनमनादीशस्त्रिलोकीपतिः । संभिन्नाच्जकुलप्रसूतिविभवादम्भोजमब्जालयो यस्य श्रीगिरिजापदाम्बुजयुगं तत्स्यादभीष्टप्रदम् ॥ १ ॥ मैथिलान्वयजातेन धर्मदत्तेन धीमता । व्युत्पत्तिवादगूढार्थतत्त्वालोको वितन्यते ॥ २ ॥ अथ शब्दाकाङ्क्षा विज्ञान विशेष कार्यकारणभावविज्ञानरूपाया व्युत्पत्तेरनुकूलेऽन्तर मतान्तरखण्डनगर्भत्वेऽपि तदुद्देशेनाप्रवृत्ततया जल्पव्यवहारायोग्ये व्युत्पत्तितस्वयुभुत्सयारम्भणीयत्वेन वादपदव्यवहार्ये चिकीर्षितसंदर्भे भेदाभेदान्वयविषयकत्वेन द्विविधे शाब्दबोधे सामान्यतो विशेषतश्चाकाङ्क्षाज्ञानस्य कार्यकारणभावमभेदान्वयबोधश्चेत्यादिना वक्ष्यति तत्प्रथममेव शाब्दद्वैविध्यप्रयोजकं संबन्धद्वैविध्यं वक्तुमुचितमिति कचिदभेदः कचिच तदतिरिक्त एवेति प्रथमत उक्तं तावन्मात्रस्य च परिचायकसाकाङ्क्षत्वेन परिचायकाकाङ्क्षानिवृत्तये तदुतिरपेक्षिता, तत्र शाब्दबोधेऽपि संसर्गे भासते सचेत्येवमुक्तावविशेषेण वृत्त्युपस्थाप्याभेदादिसंसर्गस्यापि संगृहीतत्वेन तदन्वयबुद्धेराकाङ्क्षाज्ञानत्र्यभिचारितयाकाङ्क्षाज्ञान विशेषकार्यकारणभावबोधकस्याभेदान्वयबुद्धिसामान्यकार्यकारणभावबोध पर्यवसायिनोऽभेदान्वयबोधश्चेत्यादेरसंगतिः । एवमाकाङ्क्षाज्ञानप्रयोज्य तत्कार्यताव - च्छेदककोटिनिविष्टविषयताश्रयाखिलसंसर्गासंग्राहकपरिचायकोक्तौ तदसंगृहीतसंसर्गविशेषविषय कशाब्दबुद्धा वाकाङ्गाज्ञान कार्यकारणभावकथनमसंगतं स्यादनुपक्रान्तविषयकत्वादिति वृत्तिविषयसकल संबन्धासंग्राहकमा काङ्क्षाभास्य निखिलसंबन्ध संग्राहकं परिचायकमाह — शाब्दबोधे चेत्यादिना । तस्य चैकपदार्थानुयोगिकापरपदार्थप्रतियोगिकः संसर्ग आकाङ्क्षाप्रयोज्यसंसर्गलाभिन्नशाब्दबोधनिरूपितविषयतावानित्यर्थः । सचेति । आकाङ्क्षाप्रयोज्यसांसर्गिकविषयतावांश्चेत्यर्थः । अत्रासति बाधक उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य सर्वानुमततया एकपदार्थानुयोगिकापरपदार्थप्रतियोगिक संसर्गल स्याकाङ्क्षाप्रयोज्यसांसर्गिकविषयत्वव्याप्यतालाभादुक्त संसर्गत्वं वृत्तिविषयाखिलसंसर्गाद्यावर्तमानं साधकाभावादाकाङ्क्षाप्रयोज्यसंसर्गतां विनिवर्तयत्याकाङ्क्षाभास्यसकलसंसर्गे ग्वानुवर्तमानमनुवर्तयत्तीति वृत्तिविष यसकलसंसर्गासंग्रह आकाङ्क्षाभास्य सकलसंसर्गसंग्रहश्च । अथैकं यत्पदं तदर्थ इत्यर्थः एकस्मिन्पदार्थ इतिवार्थः एकत्ववत्पदार्थतावच्छेदकावच्छिन्न इतिवार्थ एकपदार्थं इत्यस्य विवक्षितस्तत्र नाद्यः, आख्यातार्थं कालकृत्योराकाङ्क्षाभास्य संसर्गस्यासंग्राहकत्वात् । न द्वितीयः, आकाङ्क्षाभावस्य तादात्म्यस्यासंग्राहकत्वात्तदनुयोगिप्रतियोगिनोर्भेदविरहात् । न तृतीयः, संपन्नो ब्रीहिरित्यादौ पदार्थतावच्छेदकानवच्छिन्नत्री हिलैकत्वसंसर्गस्याकाङ्क्षाभासस्य संग्रहासंभवात् । नच व्रीहित्वेऽन्वयपक्षो न सिद्धान्त इति तृतीये न दोष इति वाच्यम्, चैत्रस्य गुरुकुलमित्यत्र गुरुत्वस्य सखण्डतयान्वयितावच्छेदकरूपेणोपस्थिति संभवेन पदार्थतावच्छेदके तत्र पदार्थान्तरान्वयस्य संगततया तत्संसर्गासंग्रहात् । नच गुरुत्वस्यापि पदार्थतावच्छेदकत्वान्न दोष इति वाच्यम्, साक्षात्परम्परासाघारणावच्छेदकवस्य विवक्षणे लाङ्गूलवलोमत्वयोरपि पशुपदार्थतावच्छेदकतया तदवच्छिन्नयोरन्वयस्य वृत्तिविषयस्य संप्रहृप्रसङ्गात् । यत्त्वेकत्वापरत्वयोरविशेषितयोः सर्वसाधारणत्वादुपादानवैफल्यं विशेषितयोरुपादानेऽननुगम इति तन्न, पदविशिष्टसांसर्गिकविषयत्वादिप्रवेशे दोषासंभवात् । वैशिष्ट्यं च स्वप्रयोज्यप्रकारताकत्वस्वभिन्नपदप्रयोज्यविशेष्यताकलो भयसंबन्धेन विवक्षितम् । एतेनैकस्यैव संसर्गस्य पदार्थतयाऽकाङ्क्षाभास्यतया च संग्रहो न दोषाथायकः । कृतिप्रकारतानिरूपितचैत्रादिविशेष्यताकसमवायनिष्ठसंसर्गतायाः पदविशिष्टत्वेऽपि घटलप्रकारतानिरूपितघटविशेष्यता कसमवायनिष्ठसंसर्गतायाः पदविशिष्टत्वासंभवेन तद्ब्रहृणासंभवात् । नचैवं तृतीये खावच्छिन्नविशेष्यता कत्वस्वभिम्नधर्मावच्छिन्नप्रकारताकत्वोभयसंबन्धेन पदार्थतावच्छेदकविशिष्टत्वं धर्मविशिष्टत्वं वा प्रवेश्यं तदुभयमपि लोमस्वलाङ्गूलवयोर्लोमलाङ्गूलपदार्थतावच्छेदकत्वाद्धर्मलाब पशुपदार्थतावच्छेदकघटकलोमलाङ्गुलोभयसंसर्गलसंग्राहकत्वान संभवदुक्तिकम् । अत्र हि पदस्य विशिष्य प्रवेशो न संभवPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 218