Book Title: Vyutpattivada Gudharthatattvaloka Author(s): Dharmadattasuri Publisher: Nirnaysagar Yantralaya Mumbai View full book textPage 3
________________ भूमिका। ॐ तत्सत् । कस्को न जानाति “काणादं पाणिनीयं च सर्वशास्त्रोपकारक"मिति वैदुष्यसमानाधिकरणं वचनम् । एतस्य चायमेवार्थो भवितुमर्हति यच्छब्दार्थशरीरस्य शास्त्रशब्दघटितस्य भगवतो महानुभावस्य सरित्पतेः प्रमितीकरणे न शक्नोति असम्यक्परिशीलितोक्तशास्त्रद्वयो विद्वच्छब्दध्रुक्कश्चित् । शक्नोति च सम्यक् परिशीलितोक्तशास्त्रद्वयो विद्वच्छब्दानन्ददायी कश्चिदेवेति । अत्रापि सत्स्वपि बहुषु महार्थेषु ग्रन्थमहाशयेषु श्रीमद्गदाधरभट्टाचार्यजन्मा व्युत्पत्तिवाद एवातिव्युत्पादकत्वात्संप्रति राजानतीत्यपि नापरोक्षं विश्वेषां विदुषाम् । विदितमेवास्ति यत्परिमितशब्दस्यास्यातिगूढार्थस्य तत्त्वालोकः कश्चिदपेक्षित आसी दिति । स च न संप्रत्यासी दिति वक्तुं शक्यते किन्तु मिथिलाभूषणश्रीधर्मदत्त( बच्चा )झामहाशयानुग्रहादास्तइति । उपादेयत्वंत्वस्य दर्शनसमनन्तरमेव विदितं भविष्यतीति न स्वकीयं दधि मधुरं वदामः । परमदयालुनाश्रीमतास्य प्रकाशने साधिकारप्रदानं वयमुत्साहिता इत्युपकारभारं शिरसा विभृमः । एतस्य च झटिति प्रकाशने शुद्धिसंपादने च पण्डितश्रीवासुदेवपणशीकरशास्त्रिणा बहु प्रयतितमित्येतदीयमहेतुकमुपकारमाजन्म न विस्मरिष्यामः । ॐ तत्सत् । अन्यान्यपि न्यायव्याकरणपाठ्यपुस्तकानि कानिचित्परिष्कृतानि कानिचिच विषमस्थलात्युपयुक्तटिप्पणसहितानि नातिविलम्बेन निर्णयसागरद्वारा प्रकाशयितुं शास्त्रप्रचारिणी समष्टिर्यतते । छातावास्तव्यौ पं. हरिराज, पं. हरिनाथशर्माणौ. पनिचावास्तव्यो रमापतिमिश्रः, यद्यपि पुस्तकमिदं क्रय्यपुस्तकालयेष्वन्येष्वपि प्रायः प्रामुयात्तथापि कानिचिदत्यभिमतानि स्थानानि निर्दिश्यन्ते १ पं० राजाराम त्रिपाठी--बडागुदरका अखाडा-असीघाट, बनारस. २ पं० रामनगीनाजी-मु. अम्दौर-पो. छाता, जि. बलिआ. ३ शास्त्रप्रचारिणी कंपनी बनारस.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 218