________________
भूमिका।
ॐ तत्सत् । कस्को न जानाति “काणादं पाणिनीयं च सर्वशास्त्रोपकारक"मिति वैदुष्यसमानाधिकरणं वचनम् । एतस्य चायमेवार्थो भवितुमर्हति यच्छब्दार्थशरीरस्य शास्त्रशब्दघटितस्य भगवतो महानुभावस्य सरित्पतेः प्रमितीकरणे न शक्नोति असम्यक्परिशीलितोक्तशास्त्रद्वयो विद्वच्छब्दध्रुक्कश्चित् । शक्नोति च सम्यक् परिशीलितोक्तशास्त्रद्वयो विद्वच्छब्दानन्ददायी कश्चिदेवेति । अत्रापि सत्स्वपि बहुषु महार्थेषु ग्रन्थमहाशयेषु श्रीमद्गदाधरभट्टाचार्यजन्मा व्युत्पत्तिवाद एवातिव्युत्पादकत्वात्संप्रति राजानतीत्यपि नापरोक्षं विश्वेषां विदुषाम् । विदितमेवास्ति यत्परिमितशब्दस्यास्यातिगूढार्थस्य तत्त्वालोकः कश्चिदपेक्षित आसी दिति । स च न संप्रत्यासी दिति वक्तुं शक्यते किन्तु मिथिलाभूषणश्रीधर्मदत्त( बच्चा )झामहाशयानुग्रहादास्तइति । उपादेयत्वंत्वस्य दर्शनसमनन्तरमेव विदितं भविष्यतीति न स्वकीयं दधि मधुरं वदामः । परमदयालुनाश्रीमतास्य प्रकाशने साधिकारप्रदानं वयमुत्साहिता इत्युपकारभारं शिरसा विभृमः । एतस्य च झटिति प्रकाशने शुद्धिसंपादने च पण्डितश्रीवासुदेवपणशीकरशास्त्रिणा बहु प्रयतितमित्येतदीयमहेतुकमुपकारमाजन्म न विस्मरिष्यामः । ॐ तत्सत् ।
अन्यान्यपि न्यायव्याकरणपाठ्यपुस्तकानि कानिचित्परिष्कृतानि कानिचिच विषमस्थलात्युपयुक्तटिप्पणसहितानि नातिविलम्बेन निर्णयसागरद्वारा प्रकाशयितुं शास्त्रप्रचारिणी समष्टिर्यतते ।
छातावास्तव्यौ पं. हरिराज,
पं. हरिनाथशर्माणौ. पनिचावास्तव्यो रमापतिमिश्रः,
यद्यपि पुस्तकमिदं क्रय्यपुस्तकालयेष्वन्येष्वपि प्रायः प्रामुयात्तथापि कानिचिदत्यभिमतानि स्थानानि निर्दिश्यन्ते
१ पं० राजाराम त्रिपाठी--बडागुदरका अखाडा-असीघाट, बनारस. २ पं० रामनगीनाजी-मु. अम्दौर-पो. छाता, जि. बलिआ. ३ शास्त्रप्रचारिणी कंपनी बनारस.