Book Title: Vyutpattivada Gudharthatattvaloka Author(s): Dharmadattasuri Publisher: Nirnaysagar Yantralaya Mumbai View full book textPage 6
________________ व्युत्पत्तिवादः । त्येवेति वाच्यम् । शृत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयमुख्यविशेष्यतानिरूपितप्रकारताविशिष्टत्वस्य संभवदुक्तिकलात् स्वप्रयोज्यावच्छेदकताकप्रकारताकत्लखभिन्नतादृशप्रकारताप्रयोज्यावच्छेदकताकविशेष्यताकत्वोभयसंबन्धेन वैशिष्ट्यस्य च वाच्यत्वात् पशुत्वलोमत्वावच्छेदकत्वयोमुख्यविशेष्यतानिरूपितप्रकारलाप्रयोज्यत्वादुक्तसंसर्गलसंग्रहस्यासंभवात् । यदि चात्र षष्ठ्यर्थप्रतियोगिखस्य स्वाश्रयगुरुखसंबन्धेनैकदेशान्वयभीत्या गुरावेवान्वयः स्वीक्रियत इति तृतीये न दोषः । नच गुरुत्वस्य सनिरूपकतया नित्यसाकाहत्वेन निरूपकेणानन्वयो आकाडाप्रशमादेकदेशान्वयोऽपि स्वीकार्यः । ब्रीहिलं च नैवं नित्यसाकासमिति तत्र खाश्रयव्रीहितसंबन्धेनान्वयेऽपि न क्षतिरिति वाच्यम् । संसर्गघटकतया निरूपकलज्ञानस्याप्याकालानिवर्तकलाभ्युपगमस्यैकदेशानन्वयनियमभङ्गापेक्षयाभ्यर्हितत्वादिति विभाव्यते । तदापीदं रजतमिति प्रत्यक्षसाधारणप्रवर्तकतावच्छेदकधर्मनिर्वाहायेदं रजतमिति वाक्यजज्ञान इदमर्थे खरूपतो रजतत्वभानस्य खीकृततया रजतखनिष्ठप्रकारतानिरूपितेदनलावच्छिन्नविशेष्यताकसंसर्गतायाः संग्रहासंभवात् । एवं घटो नास्तीत्यादौ वरूपतो भासमानघटलस्यावच्छिन्नप्रतियोगिताकलसंबन्धेनाभावेऽन्वयाभ्युपगमात्तत्संसर्गतया अप्यसंग्रहादिति चेत् । अत्र केचित् । एकपदार्थेऽपरपदार्थस्य संसर्ग इत्यस्योपस्थितीयविषयताविशिष्टसंसर्गतावानित्यर्थः । वैशिष्ट्यं च खप्रयोज्यप्रकारतानिरूपितलखानिरूपितविषयताप्रयोज्यविशेष्यताकत्वोभयसंबन्धेन बाच्यमत्र खानिरूपितेत्यत्र निरूपितलं सा. क्षात्परम्परासाधारणं विषयतात्वेनैव च प्रकारताविशेष्यतयोः प्रवेशः कार्य इत्यपि सुवचम् । प्रकारतालादिप्रवेशात् साक्षास्परम्परासाधारणनिरूपितत्वस्य प्रवेशाद्वोपस्थितीयसंसर्गतावच्छेदकत्वात्मकविषयताप्रयोज्यशाब्दबोधीयसंसर्गखावच्छेदकलास्मकविषयतानिरूपितलस्य साक्षात्तदनिरूपितविशेष्यखाद्यात्मकविषयताप्रयोज्यविषयतानिरूपितलस्य च वृत्तिप्रयोज्यसंसर्गतायां सत्त्वेऽपि न तत्संग्रह इति वदति तन्मन्दम् । नीलो घटः नीलः कलश इति द्विविधाकाजाज्ञाने घटपदस्य घटे शक्तिग्रहे तदुत्तरविभक्तरेकत्वे शक्तिग्रहे कलशपदस्यैकत्वविशिष्टघटे लक्षणामहे चैको घटो मील इति शाब्दबोधे घटखघटविषयताया विनिगमकाभावेन वृत्तियज्ञानजम्योपस्थितीयद्विविधविषयताप्रयोज्यत्वेनोपस्थित्योरसमानाकारकतया तदीयविषयलयोः परस्परनिरूप्यनिरूपकभावासंभवेन चैकोपस्थितीयघटसविषयतावैशियस्य समवायनिष्ठसांसर्गिकबिषयतायां वृत्तिप्रयोज्यायां सत्त्वेन तत्संग्रहप्रसङ्गात् । नच खानिरूपितत्वेत्यादिसंसर्ग विहाय स्वनिरूपितविषयलाप्रयोज्यविशेष्यताकत्वमेव संसर्गतयोपादेयम् । तथाच खानिरूपितविषयताप्रयोज्यवमिव स्वनिरूपितविषयताप्रयोज्यत्वमपि घटविशेष्यतायामस्तीति न दोषः । एकलप्रकारतानिरूपितसंसर्गतायां वृत्तिज्ञानीयविषयताप्रयोज्यत्वस्येवाकाङ्क्षाप्रयोज्यत्वस्यापि सत्त्वेन तत्संग्रहो न दोषायेति वाच्यम् । संयोगेनाभावो नास्तीति वाक्यजशाब्दबोधे नजीभावेऽवच्छिन्नप्रतियोगिताकलसंबन्धेनाभावत्वस्यान्विततयाकालाप्रयोज्यायास्तरसंसर्गताया असंग्रहापत्तेः नञ्पदाभावपदजन्योपस्थित्योः समानाकारकत्वेन तदीयविषयतयोर्निरूप्यनिरूपकभावेनाभावत्वविषयतानिरूपितविषयताप्रयोज्यलस्यैवाभावविषयतायां सत्त्वात् । परे तु पदार्थलं च पदवृत्तिज्ञानीयविषयताप्रयोज्यविषयत्वं तद्धटकवृत्तिज्ञानीयविषयत्व एवैकखापरलयोरन्वयः, तथा सति संसर्गताविशिष्टसंसर्गलं पर्यवसितार्थः । वैशिष्ठवंच खनिरूपकप्रकारताप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयत्वाप्रयोज्यविशेष्यताकखखतादात्म्योभयसंबन्धेन । एवंचाभावपदनपदवृत्तिज्ञानयोरसमानाकारकतया नम्पदप्रयोज्यविषयतायाः प्रतियोगिलसंबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतात्वस्यैवानुभवसिद्धत्वेनोभयपदवृत्तिज्ञानीयविषयतयोर्विनिगमकाभावेन प्रकारखविशेष्यत्वयोः प्रयोजकत्वस्य वकुमशक्यत्यानोक्तदोष इत्याहुस्तदपि तत्प्रयोज्यत्वस्य खप्रयोज्योपस्थितीय विषयताप्रयोज्यत्वानतिरिक्तल उपस्थितीयविषयतयोरनतिरिक्ततयोक्तदोषतादवस्थ्यादतिरिक्तत्वेऽपि नद्धयगर्भवाक्यस्थले वृत्तिज्ञानयोरपि समानाकारकलादभावलाभावयोर्भासमानावच्छिन्नप्रतियोगिताकत्यसंसर्गत्वासंग्राहकत्वादुपेक्षणीयम् । अत्र च स्वनिरूपकप्रकारताप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयखाप्रयोज्यत्वस्य संसर्गत्वे न कोऽपि दोषो यद्यपि संभवति तथापि तस्य तथात्वे वृत्त्यविषयसंसर्गः संसर्गमर्यादया भासते इत्यस्यैव लिखितुमुचितत्वेन तदुपेक्षाया निर्बीजत्वापत्तेस्तदुपेक्षणीयम् । नच तथैव कथं नोक्तमित्याशंकनीयम् शाब्दबोधविषयो हि संसर्गो द्विविधो वृत्तिभास्य आकाडाभास्यश्च तत्रैकभेदेनापरो न लक्षणीयः विनिगमकाभावेन परस्परभेदस्य परस्परलक्षणलापत्त्या लक्षणकार्य इतरेतराश्रयप्रसङ्गात्प्रागुपदर्शितस्य वृत्तिविषयस्याकालाभास्यसंसर्गस्यासंग्रहप्रसङ्गाच्च । तस्मादेकपदार्थ इत्यादेरन्यत्रैव तात्पर्यस्य वक्तव्यखादिति चेत् । अत्राहुः-पदार्थान्तरत्वव्यवहारो हि पदभेदप्रयुक्तो वृत्तिभेदप्रयुक्तश्च परिदृश्यत इति तदुभयसाधारणमेवापरपदार्थलमत्र विवक्षितम् । तथा सति संसर्गताविशिष्टसंसर्गत्वं पर्यवसितार्थः, वैशिष्ट्यं च स्वतादात्म्यखनिरूपितप्रकारताविशिष्टविशेष्यताकलोभयसंबन्धेन । वैशिष्ट्यं च खप्रयोजकपदभिन्नपदप्रयोज्यत्वखप्रयोजकतिक्षानीयविषयतानिरूपितविषयत्वाप्रयोज्यलान्यतरसंबन्धेन । नद्वयगर्भवाक्यस्थल एकनपदार्थीभूताभावत्वनिष्ठप्रकारताविशिशपरनपदार्थीभूताभावनिष्ठविशेष्यतायां सत्त्वात्तदुभयप्रयोजकपदयोभिन्नत्वात्सन्निरूपितसंसर्गताया नासंग्रहः । घटसप्रकारत्वघटविशेष्यत्वयोः प्रयोजकपदभेदाभाPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 218