Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 15
________________ 8 आसेवकालोचकस्य च योऽगीतार्थगुरुः स खलु रत्नदाहकवणिज्ज्ञातेन गीतार्थयतिभिरुपालब्धः । इत्यक्षरार्थः। भावार्थस्तु कथानकग-3 विशेषा० म्यः। तच्च कथ्यते बृहद्वृत्तिः । वसन्तपुरं नाम नगरम् । तत्र चाऽगीतार्थः संविनाभास एको गच्छः मूरिसहितो विचरति । तन्मध्ये चैकः साध्वाभासस्ति॥४१३॥ ष्ठति । स च प्रतिदिनमुदकाहस्तादिदोषदुष्टान्यनेषणीयभक्त-पानकादीनि गृहीत्वाऽऽवश्यककाले महान्तं संवेगमिवोद्वहन् सर्वं गुर्वन्तिके वहमालोचयति । गुरुरपि तथैव प्रायश्चित्तं प्रयच्छति । तच्च प्रयच्छन्नगीतार्थत्वेन नित्यमेवं वक्ति- अहो ! धर्मश्रद्धालुरयं महाभागः सुखेनाऽऽसेव्यते, दुष्करं च यदित्थमालोच्यते, अतोऽशठत्वादेव शुद्धोऽयम् । एतच्च दृष्ट्वाऽन्ये मुग्धसाधवश्चिन्तयन्ति- अहो ! आलोचयितव्यमेवेह साध्यम् , तच्चेत् क्रियते, तकृत्यासेवनेऽपि न कश्चिद् दोष इति । एवं सर्वस्मिन्नपि गच्छे प्रायः प्रवृत्तमसमञ्जसमिति । इत्थं च ब्रजति कालेऽन्यदा गीतार्थसाधुः कश्चित् तत्र गच्छे प्राघूर्णकः समायातः । तेन च सोऽविधिः सर्वोऽपि दृष्टः । ततश्चिन्तितम्अहो ! अनेनाऽगीतार्थगुरुणा सर्वोऽप्ययं नाशितो गच्छः । ततस्तेन भणितो गुरु:- अहो ! त्वममुं नित्यमकृत्यासेवकं साधुमित्थं प्रशंसन् भवसि गिरिनगरनृपतेस्तनगरनिवासिलोकस्य च सदृशः । कथम् ?, इत्यत्रोच्यते गिरिनगरं नाम नगरम् । तत्र चैको वणिक् कोटीश्वरो निवसति । स च वैश्वानरभक्तत्वात् प्रतिवर्ष रत्नानामपवरकं भृत्वा वह्निना प्रदीपयति । तं च तथा कुर्वन्तं राजा नगरलोकश्च सर्वदा प्रशंसति, यथा- अहो! वैश्वानरे भक्तिरस्य, यदमुं भगवन्तं प्रतिवर्षमित्थं रत्नस्तर्पयत्यसौ। एवं च प्रशस्यमानोऽयमादृततरः प्रतिसंवत्सरं तथाऽनुतिष्ठति । ततोऽन्यदा प्रचण्डपवनोद्धृतस्तेन प्रदीपितो वह्निः सराजगृहं समस्तमपि नगरं भस्मसात् करोति । ततः सनगरेण राज्ञा 'किमस्माभिरित्यं कुर्वन्नसौ पूर्व न निषिद्धः, किंवा प्रशंसितः?" इत्यादिबहुं पश्चात्तापं कृत्वा दण्डितः, निर्वासितश्च नगरादसौ वणिगिति ।। एवमाचार्य! त्वमप्यविधिप्रवृत्तस्याऽस्य साधोनित्यमित्थं प्रशंसां कुर्वन्नमुम् , आत्मानम्, गच्छं च नाशयसि । तस्माद् मथुरापुरीनरपतेः, तन्निवासिलोकस्य च सदृशो भव, यतोऽनर्थभाग न भवसि । कथम् ?, इत्यत्राप्यभिधीयते मथुरानगर्यामपि वैश्वानरभक्तेन केनापीश्वरवणिजेत्थमेव रत्नभृतं गृहं प्रदीपयितुमारब्धम् । ततः सनगरलोकेन राज्ञा दण्डितः, तिरस्कृतश्चासौ वणिक् । अटव्यां गृहं कृत्वा किमित्यं न प्रदीपयसि ?, इति निष्कासितो नगरादिति । स्वमपीत्थं कुर्वन्नमुम् , आत्मानं, गच्छं चानर्थेभ्यो रक्षसि । तदेवं युक्तिभिः शिक्ष्यमाणोऽप्यसौ गुरुरगीतार्थत्वेन साग्रहतया, निधर्मतया च स्वप्रवृत्तेन निवर्तते । ततस्तेन ॥४१३॥ प्राघूर्णकसाधुना गच्छसाधवोऽभिहिताः- अलमेवंभूतस्य गुरोर्वशवर्तित्वेन, परिहियतामयम् । अन्यथा सर्वेषामनाय संपत्स्यते । त TERE SRIDEO Jan Education Inter For Personal and Private Use Only www.jaineltrary.ory

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 202