Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥४१२॥
PISION
के पुनस्ते दोषाः ?, इत्याह
अत्थस्स विसंवाओ सुयभेआओ तओ चरणभेओ। तत्तो मोक्खाभारो मोक्खाभावेऽफला दिक्खा ॥८६६॥
मात्रादिहीनाधिक्ये मूत्रस्य भेदः, मूत्रभेदाचार्थस्य विसंवादः, तद्विसंवादे च क्रियारूपस्य चरणस्य विसंवादः, तद्विसंवादे च मोक्षाभावः, तदभावे च दीक्षावैफल्यमिति । तदेवमुक्तमागमतो द्रव्यावश्यकम् ।। ८६६ ॥
अथ नोआगमतस्तदभिधित्सुराह
नोआगमओ जाणय-भव्वसरीरा-इरित्तमावासं । लोइय लोगुत्तरियं कुप्पावयणं जहा सुत्ते ॥ ८६७ ॥
नोआगमतो द्रव्यावश्यकं त्रिविधम्- ज्ञशरीरद्रव्यावश्यकम् , भव्यशरीरद्रव्यावश्यकम् , तदुभयव्यतिरिक्तं द्रव्यावश्यकं च । तत्र सम्यक् पूर्वाधीतावश्यकं सिद्धशिलातलगतजीवविप्रमुक्तं मुनिशरीरमनुभूतभावत्वाज्ज्ञशरीरद्रव्यावश्यकम् । यत् पुनरावश्यकार्थ ज्ञास्यति, न पुनरिदानी जानाति, तत् सचेतनं देवदत्तादिशरीरं योग्यत्वाद् भव्यशरीरद्रव्यावश्यकम् । एतदुभयव्यतिरिक्तं तु नोआगमतो द्रव्यावश्यकं त्रिविधम्- लौकिकम् , लोकोत्तरम् , कुप्रावचनिकं च । तत्र लौकिक राजादीनां मुखप्रक्षालनाद्यावश्यकम् । लोकोत्तरं तु ये इमे श्रमणगुणविप्रमुक्ता लिङ्गमात्रधारिणः साध्वाभासाः प्रतिपदमनेकान्यसंयमस्थानान्यासेव्योभयकालं प्रतिक्रमणाद्यावश्यक कुर्वन्ति तद् विज्ञेयम् । कुमावचनिकं तु यत् पाखण्डिनश्चामुण्डाऽऽयतनोपलेपनाद्यावश्यकं कुर्वन्ति तद् बोद्धव्यम् । नोशब्दश्चेह सर्वत्राऽऽगमसर्वनिषेधे द्रष्टव्यः । एतच्च सर्वमपि नोआगमतो द्रव्यावश्यक सप्रभेदं यथा मूत्रेऽनुयोगद्वाराख्ये प्रोक्तं तथा विज्ञेयमिति ॥८६७।।
इह लोकोत्तरं यत् नोआगमतो द्रव्यावश्यकमुक्तम् । तत्रोदाहरणमाह
लोउत्तरे अभिक्खणमासेवालोयओ उदाहरणं । स रयणदाहगवाणियनाएण जईहुवालडो ॥ ८६८ ॥ लोकोत्तरे नोआगमतो द्रव्यावश्यकेऽभीक्ष्णमासेवकालोचकः साध्वाभास उदाहरणम् । आसेवकश्वासावालोचकश्चेति समासः ।
Faraloiaeeeeo
, अर्धस्य विसंवादः श्रुतभेदात् ततश्चरणभेदः । सतो मोक्षाभाषो मोक्षाभावेऽफला दीक्षा ॥ ८६६ ॥ ३ क. ग. 'दादेव चार्थ' । ३ नोआगमतो जायक भध्वशरीरा-उतिरिक्तमावश्यकम् । कौकिक लोकोत्तरिक कुमावनिकं यथा सूत्रे ॥ ८६७ ॥ । लोकोत्तरेऽभीषणमासेषकालोचक उदाहरणम् । स रखदाहकवणिरज्ञातेन यतिभिरुपालब्धः ॥ ६६८॥
॥४१२॥
For Personal and Private Use Only
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 202