SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥४१२॥ PISION के पुनस्ते दोषाः ?, इत्याह अत्थस्स विसंवाओ सुयभेआओ तओ चरणभेओ। तत्तो मोक्खाभारो मोक्खाभावेऽफला दिक्खा ॥८६६॥ मात्रादिहीनाधिक्ये मूत्रस्य भेदः, मूत्रभेदाचार्थस्य विसंवादः, तद्विसंवादे च क्रियारूपस्य चरणस्य विसंवादः, तद्विसंवादे च मोक्षाभावः, तदभावे च दीक्षावैफल्यमिति । तदेवमुक्तमागमतो द्रव्यावश्यकम् ।। ८६६ ॥ अथ नोआगमतस्तदभिधित्सुराह नोआगमओ जाणय-भव्वसरीरा-इरित्तमावासं । लोइय लोगुत्तरियं कुप्पावयणं जहा सुत्ते ॥ ८६७ ॥ नोआगमतो द्रव्यावश्यकं त्रिविधम्- ज्ञशरीरद्रव्यावश्यकम् , भव्यशरीरद्रव्यावश्यकम् , तदुभयव्यतिरिक्तं द्रव्यावश्यकं च । तत्र सम्यक् पूर्वाधीतावश्यकं सिद्धशिलातलगतजीवविप्रमुक्तं मुनिशरीरमनुभूतभावत्वाज्ज्ञशरीरद्रव्यावश्यकम् । यत् पुनरावश्यकार्थ ज्ञास्यति, न पुनरिदानी जानाति, तत् सचेतनं देवदत्तादिशरीरं योग्यत्वाद् भव्यशरीरद्रव्यावश्यकम् । एतदुभयव्यतिरिक्तं तु नोआगमतो द्रव्यावश्यकं त्रिविधम्- लौकिकम् , लोकोत्तरम् , कुप्रावचनिकं च । तत्र लौकिक राजादीनां मुखप्रक्षालनाद्यावश्यकम् । लोकोत्तरं तु ये इमे श्रमणगुणविप्रमुक्ता लिङ्गमात्रधारिणः साध्वाभासाः प्रतिपदमनेकान्यसंयमस्थानान्यासेव्योभयकालं प्रतिक्रमणाद्यावश्यक कुर्वन्ति तद् विज्ञेयम् । कुमावचनिकं तु यत् पाखण्डिनश्चामुण्डाऽऽयतनोपलेपनाद्यावश्यकं कुर्वन्ति तद् बोद्धव्यम् । नोशब्दश्चेह सर्वत्राऽऽगमसर्वनिषेधे द्रष्टव्यः । एतच्च सर्वमपि नोआगमतो द्रव्यावश्यक सप्रभेदं यथा मूत्रेऽनुयोगद्वाराख्ये प्रोक्तं तथा विज्ञेयमिति ॥८६७।। इह लोकोत्तरं यत् नोआगमतो द्रव्यावश्यकमुक्तम् । तत्रोदाहरणमाह लोउत्तरे अभिक्खणमासेवालोयओ उदाहरणं । स रयणदाहगवाणियनाएण जईहुवालडो ॥ ८६८ ॥ लोकोत्तरे नोआगमतो द्रव्यावश्यकेऽभीक्ष्णमासेवकालोचकः साध्वाभास उदाहरणम् । आसेवकश्वासावालोचकश्चेति समासः । Faraloiaeeeeo , अर्धस्य विसंवादः श्रुतभेदात् ततश्चरणभेदः । सतो मोक्षाभाषो मोक्षाभावेऽफला दीक्षा ॥ ८६६ ॥ ३ क. ग. 'दादेव चार्थ' । ३ नोआगमतो जायक भध्वशरीरा-उतिरिक्तमावश्यकम् । कौकिक लोकोत्तरिक कुमावनिकं यथा सूत्रे ॥ ८६७ ॥ । लोकोत्तरेऽभीषणमासेषकालोचक उदाहरणम् । स रखदाहकवणिरज्ञातेन यतिभिरुपालब्धः ॥ ६६८॥ ॥४१२॥ For Personal and Private Use Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy