________________
हा
बृहदत्तिः ।
विशेषा. ॥४११॥
उत्तानार्थश्वायं श्लोकः । तदेवं यथाऽधिको लोभाभिप्रायः कृतो वानरस्याऽनर्थाय जातः, तथा मात्रायधिकं सूत्रमपीति भावनीयमिति ॥ ८६३ ।।
अथाऽक्षरादिहीनसूत्रपाठेऽपायप्रदर्शनार्थमुदाहरणम्--
'विजाहर रायगिहे उप्पय पडणं च हीणदासेण । कहणो सरणागमणं पयाणुसारिस्स दाणं च ॥ ८६४॥
अस्या अप्यर्थः कथानकादवसेयः । तच्चेदम्- राजगृहनगरे भगवान् महावीरः समवसृतः । तदन्तिके च धर्म श्रुत्वोत्थितायां परिषदि गृहं प्रति गच्छता श्रेणिकराजेन दूरे दृष्टः कोऽपि विद्याधारो विधुरितपक्षः पक्षीव नभस्युत्पात-निपातौ विदधानः। ततः समुत्पन्नकौतुकः प्रतिनिवृत्त्य पुनरपि समवसरणमागतः। पृष्टवांश्च तद्वयतिकरं सर्वमेव भगवन्तम् । 'कहण त्ति' कथनं च कृतं भगवतायदस्य खेचरस्य विस्मृतमेकमक्षरं नभोगामिन्या विद्यायाः। ततो न सा स्फुरत्यस्य सम्यक् । अतोऽयमुत्पात-निपातौ विदधाति । एतचाकर्णितं पितृसमीपस्थितेनाऽभयकुमारेण । ततस्तेन गत्वाऽभिहितो विद्याधरः- यद् भवतो विस्मृतमेकमक्षरं, तदहं लब्ध्वा तव कथयामि, यदि समानसिद्धिकं मां करोष्यस्या विद्यायाः। ततः प्रतिपन्नमिदं खेचरेण । कथितं च पदानुसारिलब्ध्या समुपलभ्य तदक्षरमभयकुमारेण । प्रदत्ता च तस्य पदानुसारिणः खेचरेण विद्या । स्वयं च ततः क्षेमेण प्राप्तो वैतान्यशिखरिशिखरस्थितप्रवरविद्याधरीसंगमसुखानि । तदेवं यथाऽक्षरहीना विद्या न स्फुरति, अनर्थफला च जायते, तथा मूत्रमपीति ।। ८६४ ॥
अथ हीना-ऽधिकाक्षरोभयोदाहरणमाह
तित्त-कडुभेसयाई मा णं पीलेज ऊणए देइ । पउणइ न तेहिं अहियेहिं मरइ बालो तहाहारे ॥ ८६५॥
तिक्त-कटुभेषजान्यातुरस्य 'मा पीड्येताऽयमेतैः' इति विचिन्त्य माता-पितृ-वैद्यादिर्यद्यूनानि ददाति तदाऽसौ तैर्न प्रगुणीभवति, हीनमात्रत्वात् । अथ कथमप्यधिकानि प्रयच्छति, तदा तैरधिकमात्रैराकान्तोऽसौ म्रियत एवाऽऽतुरः। 'बालो तहाहारे ति तथा तेनैव प्रकारेण हीना-अधिके आहारेऽपि बालोऽपायमाप्नोति । एवं मूत्रेऽपि हीना-अधिके दोषा वाच्या इति ॥ ८६५ ॥
विद्याधरो राजगृहे उत्पातं पतनं च हीनदोषेण । कथनं शरणागमनं पदानुसारिणो दानं च ॥ ८६५॥ . २ तिक्त कटुभैषज्यानि मा तं पीडयेयुरूनानि ददाति । प्रगुणीभवति न तैरधिकैनिंयते बालस्तथाहारे ॥ ८५५॥
Jan Education Internation
For Personal and Private Use Only
RAww.jaineltrary.ary