Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥४१०॥
अस्यायं भावार्थः- पाटलीपुत्रनगरे चाणक्यप्रतिष्ठितो मौर्यः प्रथमं किल चन्द्रगुप्तो राजा बभूव । ततस्तत्पुत्रो बिन्दुसारः समभूत् । तदनन्तरं तु तत्पुत्रोऽशोकश्रीर्जातः । तस्य चान्धोऽसौ कुणालः पुत्रः । एवं च सत्येष चन्द्रगुप्तस्य प्रपौत्रः, बिन्दुसारस्य तु | नतृकः पौत्रः, अशोकश्रीभूपतेस्तु पुत्रः, 'काकणि' क्षत्रियभाषया राज्यं याचत इति । ततो यवनिकापगम कारयित्वा किञ्चित् सकौतुकेन राज्ञा सविशेष पृष्टः सर्वमपि स्वव्यतिकरं कुणालः कथयामास । ततः पृथिवीपतिना पृष्टोऽन्धः- त्वं राज्येन किं करिष्यसि । तेन प्रोक्तम्- देव ! मम राज्याहः पुत्र उत्पन्नो वर्तते । राज्ञा प्रोक्तम्- कदा ? । कुणालः पाह-संप्रति । तत् 'संप्रतिः' इत्येव तस्य नाम प्रतिष्ठितम् । राज्यं च तस्मै प्रदत्तमिति । तदेवं यथेहाऽकारस्योपर्येकेनाप्यधिकेन बिन्दुना कुमारस्य नेत्राऽपायो जातः, तथा प्रस्तुतेऽपि सूत्रे बिन्द्वाद्याधिक्यादर्थान्तरमाप्त्या सर्वानर्थसंभव इति संभावनीयमिति ॥ ८६२ ॥
अथ भावाधिक्येऽन्यदिह लौकिकमुदाहरणम् । तत्सूचनार्थ 'जो जहा वट्टए कालो' इत्यादिश्लोकः । अस्यार्थः कथानकादवसेयः। तच्चेदम्
कस्मिंश्चिदटवीप्रदेशे सरोवरमेकमासीत् । तच्च लौकिकेषु 'कामिकतीर्थम्' उच्यते । तस्य हि तीरे वजुलनामा वृक्षोऽभूत् । तच्छाखामारुह्य यदि तिर्यक् सरोवरजले निपतति, तदा तीर्थमाहात्म्यात् किल मनुष्यो भवति । यस्तु मनुष्य एव संनिपतति, असौ देवो जायते । यस्तु लोभाधिक्याद् द्वितीयामपि वारां निपतति स यादृशः प्रागासीत् पुनरपि तादृश एव संपद्यते । एवं चान्यदा वानरमिथुनस्य पश्यतो नरमिथुनं वजुलवृक्षशाखातो निपतितं तत्सरोवरजले । संजातं च भास्वरशरीरं देवमिथुनम् । ततो वानरमिथुनमपि तथैव तत्र पतितम् । जातं च प्रवररूपधरं नरमिथुनम् । ततो वानरेण प्रोक्तम्-पुनरपि तथैवेह निपतावः, येन देवरूपौ भवावः' । ततोऽसौ निषिद्धो योपिता- 'यद् न ज्ञायते, पुनरपीत्थं कृते किं संपद्यते ?, पर्याप्तं चानेनैव प्रवरमानुषत्वेन, निषिद्धो ह्यतिलोभः सर्वशास्त्रेष्वपि' इति । इत्थं निवार्यमाणोऽपि तयाऽसौ पुरुषो द्वितीयामपि वारां तथैव तत्र निपपात। जातश्च पुनरपि वानरः। ततो गृहीता सा प्रवररूपा योषित् तत्राऽऽयातेन केनापि राज्ञा । संजाता च तस्य वल्लभा पनी । वानरस्तु गृहीतो मायेन्द्रजालिकः, शिक्षितश्च नर्तयितुम् । नीतश्चासौ सकलत्रोपविष्टस्य राज्ञः पुरतः । प्रत्यभिज्ञाता च तेन सा राज्ञी । तयाऽप्युपलक्षितोऽसौ वानरः । धावति च पुनः पुनर्निगृह्यमाणोऽपि राज्याः समुखं ग्रहणार्थम् । अतो राझ्या पठितम्
जो जहा वट्टए कालो तं तहा सेव वानरा! । मा वंजुलपरिभट्ठो वानरा! पडणं सर ॥ ८६३ ॥ BAn४१०॥
1 यो यथा वर्तते कालस्तं तथा सेवस्व वानर! । मा वन्नुलपरिभ्रष्टो वानर ! पतनं मर ॥ ८५३ ॥
in a
n
international
For Personal
Pre Use Only
TAMMww.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 202