Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 11
________________ -प्रदोप । ६६१] सम्भूतिविजयस्यैव, पट्टे साधुशिरोमणिः । गौतमगोत्रसम्भूतः, स्थूलभद्रो महामुनिः ॥२६॥ पाटलिपुरवास्तव्यः, शकटालाख्यमंत्रिणः । पुत्रः कोशागृहे वासी, पितृमृत्योरनन्तरम् ॥३०॥ मन्त्रिमुद्राप्रदानाय, नन्दराजेन तत्क्षणे। आहूतः स्थूलभद्रोऽसौ, तन्मुद्रा ढौकिता तदा ॥३१ तां दृष्ट्वा स्थूलभद्रेण, चिन्तितं मानसे निजे । राज्योन्मादवशेनैव, पितृणां मृत्युता खलु ॥३२॥ कणे जप प्रभावेन, राज्ञां च मतिमान्यतः। पितृणां मृत्युता जाता, ममापि सा कथं न स्यात् ॥ अतो मृत्युनिरोधाय, त्यत्तवा वेश्यानिवासता। मौनं विधाय तत्स्थानाद्विचाराय गतस्ततः ॥३४॥ दास्यामि चोत्तरं पश्चान्मानसे कृतनिश्चयः । सम्भूतिविजयाख्यश्च, सम्मुखे मीलितो गुरुः ॥३५ महामुनिं च तं दृष्ट्वा, स्वान्ते च चिन्तितं तदा । मृत्युनिरोधकार्याय, समर्थोऽयं मुनीश्वरः ॥३६॥ शरणं तस्य चेन्मे स्यान्मम श्रेयस्तदा भवेत् । इत्येवं मानसे मत्वा, दीक्षायै प्रार्थना कृता ॥३७ Shres Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84