Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 55
________________ wrmirmwarrammar 1-4447w -प्रदीप [७०५] जगच्चन्द्राख्य सरिश्च, मुख्यतया विराजते।। अनेककार्यकर्तृत्वं, सूरिषु च निगद्यते ॥४१७॥ घोरतपस्विनस्तांश्च, परमत्यागिनस्तथा । मेदपाटनरेशेन, जैत्रसिंहेन तत्क्षणे ॥४१८॥ तान् दृष्ट्वा च तपा रूपं पदं तेन समर्पितम् । दीक्षाग्रहणकालादारभ्य कण्ठगतासुकम् ॥४१६॥ आचाम्लाख्य तपश्चर्य, कृतं कल्याणहेतवे । मेदपाटनरेशश्च, जातः परमभक्तराट् ॥४२०॥ राजसभासु तैरेवः दिगम्बरीय वादिनाम् । द्वात्रिंशद्गणनानां च, जित्वा वादे सुयुक्तितः ॥४२१ हीरकवदभेद्यत्वाद्य क्तीनां वादकालिके । हीरलेति च सोपाधिः, प्राप्तश्च राजसंसदि ॥४२२॥ मेदपाटनृपाश्चैव, मन्यन्ते बहुभक्तितः। वटगच्छस्य सन्नाम, सरितश्च तपोऽभिधम् ॥४२३ अद्यावधि च तन्नाम, वर्तते जैनशासने । उन्नतिः खलु तस्यैव, प्रतिदिनं च जायते ॥४२४॥ जगच्चन्द्राख्यसूरीणां, पट्टे देवेन्द्रसूरयः । महाप्रभावसद्युक्ताः , संजाता जैनशासने ॥४२५॥ Shree Sudhalinaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84