Page #1
--------------------------------------------------------------------------
________________
इतिहास
90
23A
वीरधर्म
पदावल
1638
158
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
De=900=000=0
000000000000000
०००००००००००००००
ecomecDGE
=0000-900090G
TREEPERSO
वीरधर्मपट्टावलिः
DERDOct
DOCE
098290FRE®®®EDOESe=®
DSODOG
-मंगलविजयः
iOGEOGO
pe=
OTEle=500=000=e
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
॥अर्हम्॥
श्री नमो नमः श्री प्रभुधर्मसूरये
श्री वीरधर्म पट्टावलि
कर्तान्याय-विशारद न्याय-तीर्थ उपाश्रयः।
श्री मङ्गलविजयजी महाराज "
प्रकाशक:
हेमचन्द सवचन्द शाह
कलकत्ता
प्रथमावृत्तिः
२५०
वीर सं० २४६६
धर्म सं० १८
वि० सं० १९EE
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
मुद्रककृष्णगोपाल केडिया
वणिक प्रेस १, सरकार लेन, कलकत्ता ।
aamaamrrr
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
शुद्धि-पत्रक
.
অযু
जम् ताम्
MS
BEE
A. NA
24
. . . . . .
५८५
सृरीणांच
सूरयश्च ताः
सूरि
सरि तः
ताः
७०१
न्तु नेनैव
ने नैव तां मकम्
'E EFFEREE EFFE
s . . . .
यां
७०५ ७०८
पदम्
काः
m
नर
७१५
७१७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandal.com
Page #6
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
॥ नमो नमः श्री प्रभुधर्मसूरये ॥
वीरधर्मपट्टावलिः।
योगप्रदीपस्य प्रशस्तिः। वन्दे शासननायकं जिनपतिं वीरं सिद्धार्थात्म द्वादशवर्षमितं तपश्च विहितं येनैव घोरं महत् ॥ उपसर्गादिककष्टसोढशक्तं ध्यानातकैवल्यकं पावापुरिस्थितमनन्तसुखदं, श्रीवर्धमानं स्तुवे ॥१॥ मिथ्यात्वतैमिरतया च व्याप्तम् यदीयस्वान्तमज्ञानदोषतः। श्रीवीरभानूदयेनैव नष्टम् पावानगर्या यजनक्षणे तत् ॥२॥ श्रीवर्धमानात्रिपदीमवाप्य दृब्धं परिपूर्णश्रुतं च येन । श्रीद्वादशांगित्वरूपात्प्रसिद्धम् तमिन्द्रिभूतिं शतशो नमामः ॥३॥
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
योग
[६५८] तस्यैव यादृशी भक्तिः, निःसीमा जगतां गुरौ । तल्लेशो मादृशां स्याच्चेत्तदैव सफलं जनु ॥४॥ मानोऽपि रत्नलाभाय, सद्रागः प्रभुभक्तये । खेदः कैवल्यज्ञानाय, सर्व चित्रं गुरो तव ॥५॥ अल्पायुष्कत्वहेतोश्च, अन्येषां गणधारिणाम् । भगवत्पट्टयोग्यत्वं, नैव तेषां प्रकीर्तितम् ॥६॥ सुधर्मस्वामिनां किन्तु, स्वपट्टत्वं समर्पितम् । तदादिशिष्यसम्पत्तिः, तेषामेव विभाव्यते ॥७॥ विचरन्त्यधुना ये च, ते सर्वे साधवः किल । सुधर्मस्वामिनां शिष्याः, ज्ञातव्या सर्वसज्जनः । श्रीवीरात्रिपदीमवाप्य रचना पूर्वस्य पूर्व कृता सल्लन्धिं परिप्राप्य नैव मनसि दाङ्कुरो रोपितः। सर्वज्ञ सदृग्यदीय शुद्धशिक्षां गृह्णाति संघः सदा तद्धर्मेण सुवासितं च भरतं जीयात्सुधर्मा ग्रणीः ॥ प्रभुश्रीवीरदेवानां, पहो येन विभूषितः । स सुधर्मा गणी सर्वकल्याणकारको भवेत् ॥१०॥ कोटि नवनवतिं विहाय हेम्नामष्टौ च प्रियास्तथा। मातृपितृगणैश्च येन गृहीता चौरैः सह तत्क्षणे
Shree Suanarmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
- प्रदोष
[६५६ ]
श्रीसुधर्मगुरोश्च पार्श्वे सततं गत्वा बहुप्रेमतः । दीक्षा चाहती योगशुद्धहृदयाज्जीयात्स जम्बू गुरु: ११ सुधर्मस्वामिनां पद्यः, भूषितो येन साधुना । जम्बूस्वामिगुरुः स स्यात्सङ्गकल्याणकृत्सदा ॥ १२ ॥ ऋषभधरिणीपुत्रः जम्बूनामा महामुनिः । सम्प्राप्तशील सम्यक्त्वः, अभूत्साधुशिरोमणिः १३ षोडशवर्षपर्यन्तं गृहे स्थित्वा ततः परम् । छद्मस्थे विंशतिज्ञेया वर्षाणां च ततः परम् ॥ १४॥ अशीतिवर्षपूर्णायुः परिपाल्य शिवं गतः । तत्पट्ट े प्रभवः स्वामी, स्थापितः गुरुणा तदा ॥ १५ ॥ आर्यप्रभवस्वामी च, कात्यायनीयगोत्रकः । आर्यशय्यंभवं प्राप्य ततस्तेऽपि दिवं गताः ॥१६॥ वात्सगोत्रेषु सम्भूतः, आर्यशय्यंभवो मुनिः । यज्ञस्तम्भस्य चाधस्ताद्वीतरागजगद्गुरोः ॥१७॥ शान्तिनाथजिनेन्द्रस्य, वीतरागत्वदर्शिनी । मूर्त्तिं दृष्ट्वा प्रबुद्धोऽसौ, जैनोदोक्षां च लब्धवान् ॥ मनकाख्यस्वपुत्रस्य, शिवाय रचितं महत् ।
दशवैकालिकाख्यं हि सूत्रं स्वाचारदर्शकम् ॥१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
rrrrrr
wwwxxx.ru
[६६.]
योगजगत्कल्याणरूपं तन्मत्वा संघेन रक्षितम् । पठित्वा नैकभव्याश्च, मोक्षमार्गे प्रयान्ति वै ॥२०॥ प्रभवस्वामिनः पट्टे, शय्यंभवो महामुनिः । श्रुतकेवलितां प्राप्य, व्यहरच्च महीतले ॥२१॥ सूरेः शय्यंभवस्यैव, पट्टेऽभूच्छ तकेवली। यशोभद्राख्यसूरिश्च, प्रतापिसूर्यसन्निभः ॥२२॥ तुङ्गिकायनगोत्रीयः, सर्वलब्धिसमन्वितः । अनेकभव्यजन्तूनां, बोधको दोषरोधकः ॥२३॥ सम्भूतिविजयाख्यश्च, तत्प? शान्तसेवधिः । माढरगोत्रसम्भूतः, सम्पूर्णश्रुतपारगः ॥२४॥ प्राचीनगोत्रसंजातः, भद्रबाहुमहामुनिः । नैकागमेषु नियुक्तीः, कृतवान् बुद्धियोगतः ॥२५॥ कल्पसूत्राख्यसूत्रं च, उद्ध तं दृष्टिवादतः। संघोपद्रवनाशाय, स्तोत्रं व्यरचयत्तथा ॥२६॥ उपसर्गहराख्यं च, जगज्जन्तुहितावहम् । महास्तोत्रं कृतं येन, शीघ्र दुरितनाशकम् ॥२७॥ तस्मै महामुनीन्द्राय, नमः श्रीभद्रबाहवे । रक्षणं जैनधर्मस्य, कृतं च मुनिना तदा ॥२८॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.amaragyanDhandar.com
Page #11
--------------------------------------------------------------------------
________________
-प्रदोप
। ६६१]
सम्भूतिविजयस्यैव, पट्टे साधुशिरोमणिः । गौतमगोत्रसम्भूतः, स्थूलभद्रो महामुनिः ॥२६॥ पाटलिपुरवास्तव्यः, शकटालाख्यमंत्रिणः । पुत्रः कोशागृहे वासी, पितृमृत्योरनन्तरम् ॥३०॥ मन्त्रिमुद्राप्रदानाय, नन्दराजेन तत्क्षणे। आहूतः स्थूलभद्रोऽसौ, तन्मुद्रा ढौकिता तदा ॥३१ तां दृष्ट्वा स्थूलभद्रेण, चिन्तितं मानसे निजे । राज्योन्मादवशेनैव, पितृणां मृत्युता खलु ॥३२॥ कणे जप प्रभावेन, राज्ञां च मतिमान्यतः। पितृणां मृत्युता जाता, ममापि सा कथं न स्यात् ॥ अतो मृत्युनिरोधाय, त्यत्तवा वेश्यानिवासता। मौनं विधाय तत्स्थानाद्विचाराय गतस्ततः ॥३४॥ दास्यामि चोत्तरं पश्चान्मानसे कृतनिश्चयः । सम्भूतिविजयाख्यश्च, सम्मुखे मीलितो गुरुः ॥३५ महामुनिं च तं दृष्ट्वा, स्वान्ते च चिन्तितं तदा । मृत्युनिरोधकार्याय, समर्थोऽयं मुनीश्वरः ॥३६॥ शरणं तस्य चेन्मे स्यान्मम श्रेयस्तदा भवेत् । इत्येवं मानसे मत्वा, दीक्षायै प्रार्थना कृता ॥३७
Shres Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
[२]
योगयोग्यजीवं परिज्ञाय, गुरुणा दीक्षितः किल । राजसभा समागत्य, धर्मलाभं प्रदत्तवान् ॥३८॥ शोचितो. राजप्रश्नश्च, लोचितमुत्तरं कृतम् । तं श्रुत्वा मानसे स्वीये, राज्ञा च परिचिन्तितम्॥३६ अहो ! चैतस्य दाढ्यं तदहो मानसनिश्चयः। अहो ! वैराग्यपुष्टित्वं, कामरागस्य मन्दिरे ॥४०॥ इत्येवं स्तुतिश्लाघां च, मुहुर्मुहुः करोत्यसौ । तत्काले राजहाच, निर्गतः शान्तसेवधिः ॥४१॥ कोशाया प्रतिबोधाय, चातुर्मासाय याचनाम् । करोति गुरुसाम्मुख्ये, स्थूलभद्रो महामुनिः ॥४२ योग्यस्य योग्यतां ज्ञात्वा, गुरुणा स्वीकृतिः कृता । गतः कोशागृहे साधुः, चित्रशालां च याचते ॥४३ पूर्वप्रेमवशेनैव, शाला समर्पिता तदा । षड्सभोज्यसामग्री, वर्षाकालो महांस्तथा ॥४४ मदनागारवासेन, मदनोऽपि विनाशितः। कोशाशृङ्गारसामग्री, दृष्ट्वापि नैव मोहितः ॥४५ वैराग्यमयवाक्येन, अध्यात्मदेशनादिना । प्रतिबोध्य च तां कोशामणव्रतं प्रदत्तवान् ॥४६॥
Shree Sudharmaswami Gyanbhandar-Umara, surat
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
- प्रदीप
[ ६६३ ]
शुद्ध च श्राविकां कृत्वा, आगतौ गुरुसन्निधौ । कठिन कार्यकर्त्तारं, स्थूलभद्रमुनीश्वरम् ॥४७ धन्यवादं मुहुर्दत्त्वा कथितं गुरुणा तदा । साधुशिरोमणिर्ज्ञेयः, भारते नैव त्वादृशः ॥४८॥ दशपूर्व च सम्पूर्ण, पठितं चार्थयोगतः । चतुःपूर्वं च सूत्रेण, अर्थेन नैव लब्धवान् ॥४६॥ सम्पूर्णदृष्टिवादं च, भद्रबाहुगुरोर्मुखात् । सम्प्राप्य भारतेऽन्तिमः सञ्जातः श्रुतकेवली ॥५० वेश्यागृहनिवासेन षड्स भोज्य भोगिना । कामरागवद् वेश्यायाः, हावभावे न मोहितः ॥ ५१ ॥ तादृशो भारते वीरः, न भूतो न भविष्यति । सत्साधुगणनायां च प्रथमोस्थूलभद्रकः ॥ ५२ ॥ भगवत्स्थूलभद्र ण, स्वपट्टे स्थापितौ च द्वौ । आर्यमहागिरिचैकः, सुहस्ती च द्वितीयकः ॥ ५३ एलापत्ये च गोत्रे वै, सम्भूतः स महामुनिः । विच्छेदे जिनकल्पेऽपि तत्कल्पतुलना कृता ॥५४ विशुद्धव्रतयोगेन, स्वीपवीर्यं परिस्फुरन् ।
कठिनं तादृशं कार्य, कृतं तेन मुनीन्द्रकैः ॥ ५५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
rrrrrammmmmmmm
[६६४]
योगवासिष्ठगोत्रसम्भूतः, सुहस्तिगुरु संयमी । गुणानुरागरक्तत्वात्स्तुतिरेव चकार सः ॥५६॥ श्रेष्ठिगृहे स्थितः सूरिरार्यमहागिरेस्तथा । जिनकल्पविनाशेऽपि, जिनकल्पस्य कार्यता ॥५७ कृता येन मुनीन्द्रेण, तस्य स्तुतिं च किं ब्रुवे । इत्येवं भावना तेन, भाविता शुद्धयोगतः ॥५॥ आर्यमहागिरिं तं च, वन्देऽहं भक्तिभावतः। धन्यास्ते मुनयो ज्ञेया, जैनशासनदीपकाः ॥५६ सुहस्तिसूरिबोधेन, भद्राश्राद्धासुतेन वै। अवन्तिसुकुमारेण, लब्धा दीक्षा च शास्वती ॥६० द्वात्रिंशच्च वधूस्त्यक्त्वा, स्वर्गतुल्यं च सौख्यकम् । तीव्रवैराग्ययोगेन, गृहीतं भावतो व्रतम् ॥६१॥ गुरोरनुमति प्राप्य, श्मशाने ध्यानकं कृतम् । पूर्वभवीयवैराच्च, जम्बूकी चागता तदा ॥६२॥ तया च भक्षिते देहे, न कृता स्वल्पदेवना । शुद्धचारित्रयोमेन, विग्रहं च समर्पितम् ॥६३ त्रिप्रहरीयदुःखं तदनुभूय महामुनिः । यतः स्थानावन्त्यां च, आगतस्तन्त्र चागमत् ॥६४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanthandar.com
Page #15
--------------------------------------------------------------------------
________________
- प्रदीप
[ ६६५ ]
तत्स्थाने मन्दिरं शुभ्र, कारितं तत्सुतेन च । महाकालं च तन्नामधृतं, जिनालयस्य च ॥६५॥ अवन्तिपार्श्वनाथस्य, मूर्त्तिरपि च कारिता । प्रतिष्ठिता शुभे योगे, सूरिणा शुद्धमन्त्रकैः ६६ ॥ दुर्भिक्षे च परिप्राप्ते, अटन् रङ्कः क्षुधातुरः । भिक्षार्थं परिभ्रान्यन् सन्सूरीणां निकटे गतः ||६७ गोचर्यार्थं गतः सूरिः, कस्यचिच्छ्रेष्ठिनो गृहे । विशुद्धमोदकीं भिक्षां, श्रेष्ठी ददाति भावतः ॥ ६८ भिक्षां च तादृशीं दृष्ट्वा रङ्को याचति मोदकान् । अतीव क्षुत्प्रयोगेन, मह्यं पीडा प्रजायते ॥ ६६ ॥ मह्यं ददातु भो किञ्चित्त्वत्पार्श्वे प्रचुराः खलु । विद्यन्ते मोदकाः सूरे ! ददाने नैव न्यूनता ॥७०॥ सूरिणा ज्ञानयोगेन, भाविकालो विलोकितः । अस्माच्छासन वृद्धिश्च, भाविकाले च निश्चिता ७१ स्वीयज्ञानेन विज्ञाय, पश्चादुक्तं मुनीश्वरैः । गृह्यते यदि दीक्षा चेन्ममाहारस्तु लभ्यते ॥७२॥ दीक्षा च दीयतां साधो मा विलम्बो विधीयताम् ।
दत्ता च तत्क्षणे दीक्षा, भोजनं कारितं महत् ॥७३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
[६६६]
योगअतिगरिष्ठ भोज्यं च, रुक्षदेहे न पच्यते । भक्षितं प्रचुरं तेन, देहपीडा ततो भवेत् ॥७४ देहे व्याधिः समुत्पन्ना, अतीव प्राणघातिनी । तदीयभक्तिकर्त्तव्ये, श्रेष्ठिनस्ते समागताः ॥७॥ तान् दृष्ट्वा मानसे स्वीये, व्यचिन्तयत्स साधुराट्। अहो संयमसाम्राज्यं, मीलितं गुरुयोगतः ॥७६॥ ददति ये न मे भिक्षां, तेऽपि सेवासु चागताः। सेवां च तादृशीं दृष्ट्वा, जाता धर्मेषु रागता ॥७७ धन्योऽहं कृतकृत्योऽहं, मानुष्यं सफलं मम । जैनधर्मस्य सम्प्राप्तिः, विना पुण्यं न जायते ॥८॥ चिन्तामणिमहारत्नं, रङ्कगृहे न राजते। मादृशरङ्कहस्ते च, तदपि चागतं प्रभो ! ॥७॥ तदेवं युण्ययोगेन, लब्धं गुरुप्रसादतः । धन्यास्ते गुरवो ज्ञेया, धन्यो धर्मश्च सर्वदा ॥८॥ इत्येवं भावनां कृत्वा, विशुद्धपरिणामतः । मृत्वा मौर्यकुले जातः, सम्प्रति नाम संप्रति ॥८१॥ चन्द्रगुप्तप्रपौत्रोऽयमशोकनृपपौत्रकः । कुणालस्य सुतो जातः गुरुदीक्षा प्रभावतः ॥८२॥ ..
Shree Sudharmaswami Gyanbhandar-Umara, surat
www.umaragyambhandar.com
Page #17
--------------------------------------------------------------------------
________________
प्रदीप
जातमात्रेण सम्प्राप्तमशोकदत्तराज्यकम् । जिनेन्द्ररथयात्रा च, प्रयाति कुत्रचिदिने ॥३॥ संघेन बहुहर्षेण, अतीवाडम्बरेण च । सम्पूर्णनगरे तत्र, भ्रामिता रथयात्रिका ॥४॥ आर्यसुहस्तिभिः साकं, सुसाधुवृन्दकं तथा । प्रचुरं च समायातं, धर्मोन्नतिनिमित्ततः ॥८॥ राजमार्गे समायाते, सम्राट् च सम्प्रतिस्तदा । सम्मुखे च समायाति, दृष्टा च रथयात्रिका ॥६॥ तन्मध्ये गुरुदेवं च, दृष्ट्वा चिन्तति मानसे । नेपथ्यं तादृशं चैव, पूर्व दृष्टं मया कचिद् ॥८॥ दर्शनाद् गुरुदेवानां, जातिस्मृतिरजायते । धन्योऽहं कृतकृत्योऽहं, जातं गुरोश्च दर्शनम् ॥८८ पूर्वभवं च संस्मृत्य, गुरुपादान्तिके तदा। आगत्यैव नमस्कारं, करोति शुद्धभावतः ॥६॥ रङ्कावस्था मदीया क क च राज्यस्य योग्यता। जातमात्रेण सम्प्राप्त, राज्यं च भारतं खलु ॥१०॥ एतत्सर्वगुरूणां च, कृपया समवाप्तकम् । गुरुकृपा च किं किं नो, कार्य चैव करिष्यति ॥६१
Shree Shaharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
[६६८]
योग
भवकूपाद्यथा पूर्वमुद्धृतो हस्तदानतः । तथैवोद्धरणं चैव, अस्मिन्भवे वितन्यनाम् ॥१२॥ गुरुणा श्रुतज्ञानेन, सर्व विलोकितं तदा। तस्य भाविहितायैव, मार्गोऽपि दर्शितः खलु ॥६३ आगत्य गुरुदेवं च, पृच्छति भक्तिपूर्वकम् । त्वत्प्रसादेन सम्प्राप्ता, भारते चेदृशी भूमिः ॥१४॥ गुरुणा देशना पूर्व, बोधितः सम्प्रतिस्तदा । विशुद्धजैनधर्मश्च, संप्राप्तो गुरुयोगतः ॥६॥ शुद्धसम्यत्तवतां प्राप्य, सञ्जातो दृढधर्मवान् । अपूर्वधर्मसम्प्राप्तिः, गुरु विना न जायते ॥६६॥ गुरूणामुपदेशेन, धर्मोन्नतिविधापने । पुस्फोरितं स्वीय वीर्य स्वं, जैनधर्मे क्षणे क्षणे ॥७॥ अवन्त्यां च नगर्या हि साधुसभा नियोजिता । आर्यसुहस्तिद्वारेण, विभक्ता देशभागकाः ॥९८? अमुकसाधुसन्दोहैरमुके भागके खलु । विहर्त्तव्यं च सर्वत्र, दातव्या शुद्धदेशना ॥६॥ अमुकरमुके भागे, विहर्त्तव्यं च प्रेमतः । भारते चैकदेशोऽपि, मोक्तव्यो साधुना नहि ॥१०॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
-प्रदीप
[ ६६ ]
साधुविहारशून्येन, भारतं धर्महीनकम् । अतः सर्वत्र गन्तव्यं, साधुना भारते खलू ॥१०१ किं चानार्य प्रदेशेषु, साधुविहारहेतवे ।
कृत्रिम साधवस्तत्र, प्रेष्यन्ते च मया तथा ॥ १०२॥ व्यवस्थां ईदृशीं कृत्वा, सर्वत्र दर्मिनां तथा । विहारः कारितस्तेन, प्रचारो विहितो बहु ॥ १०३ ॥ स्वल्पकालेन जैनानां, साम्राज्यं तेन निर्मितम् । धर्मप्रचारबाहुल्यं, सुहस्तिगुरुयोगतः ॥ १०४ ॥ सपादलक्षसंख्याकाः, प्रसादास्तेन कारिताः । जिनानां ते च विज्ञेयाः जैनधर्मस्य भारते ॥ १०५ ॥ सपाद कोटिसंख्याकाः, प्रतिमाः कारिताः शुभाः । जीर्णानि मन्दिराण्येव, उद्धृतानि विशेषतः १०६ षट्त्रिंशत्सहस्राणि उद्धृतानि तथा खलु । एकलक्षाणि धातूनां प्रतिमास्तेन कारिताः ॥ १०७ शतशो दानशालानामुद्घाटनं कृतं तदा ।
धर्मप्रचारकार्याय, म्लेच्छानां मोचितः करः ॥ १०८
१ जैनसाधूनाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
[६७०]
योगसाधुविहारयोग्यानि, क्षेत्राणि कारितानि च । वस्त्रपात्रान्नपानादि शुद्ध देयं च साधुभ्यः ॥१०६ इत्येवं घोषितं तेन, ज्ञापितं देशनादिना । प्रतिपुरं प्रतिग्राम, कृत्रिमसाधुद्वारतः ॥११०॥ यस्य गृहेषु यद्वस्तु, विद्यते शुद्धमानकम् । तद्वस्तु साधुसामीप्ये, ढौकनं शुद्धभावतः ॥१११॥ यदि साधुश्च गृह्णाति, तदा देयं च तत्तथा । मूल्यं तस्य महाराजा, तस्मै दास्यति कोशतः ११२ एवंरीत्या च म्लेच्छेषु, विहारः सुलभः कृतः। साधुभिस्तत्र गत्वैव, प्रचारो बहुधा कृतः ॥११३॥ आर्यदेशेषु साधनां, प्रचारे स्वल्पकष्टता । अन्यत्र कष्टबाहुल्य, तदपि सुलभीकृतम् ॥११४॥ अनेककोटिसंख्याकाः, जैनधर्मानुयायिनः । जैनाश्च कारितास्तेन, श्रद्धारत्नसमर्पणात् ॥११५॥ धन्याश्च गुरवस्ते वै, धन्याः सम्प्रतिभूमिपाः । शासनरागता तादृग, येषां स्वान्ते विराजते ११६ तादृशगुरुशिष्याणां, समायोगस्तु दुर्लभः । सुहस्तिना कृतं यादृक् तादृशं च करोति कः ॥११७.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
-प्रदोप
[६७१] दन्तधावनकार्य च, कर्त्तव्यं तेन तत्क्षणे। नव्यमन्दिरनिर्माणजल्पनं कर्णगोचरे ॥११८॥ समायाति तदा चैव, कर्त्तव्यं दन्तधावनम् । तादृशी प्रतिज्ञा तेन, कृता गुरुसमीपके ॥११६॥ चतुर्दिक्षु च सर्वत्र, मन्दिराणां विधापनम् । भव्यमूर्तिप्रतिष्ठानां, विधानं शुभयोगतः ॥१२०॥ सुयोग्यशिष्ययोगेन, आर्यसुहस्तिना खलु । भारते जैनसामाज्यं, कारितं धर्मभावतः ॥१२१॥ प्रभुवीरात्समारभ्य, आर्यसुहस्तिकावधि । निर्ग्रन्थगच्छनाम्नैव, प्रसिद्ध वीरशासनम् ॥१२२॥ वोरनिर्वाणकालाच्च, द्वितीयस्मिन् शताब्दिके । उत्तरार्धे च दुष्कालो, जातो द्वादशवार्षिकः ॥१२३ साधुसंख्यासु न्यूनत्वं, श्रुतज्ञानस्य हासता। श्रुतसाधोश्च रक्षायै, सम्प्रतेयत्नको महान् ॥१२४ जैनधर्मस्य रक्षायां, सर्व च रक्षितं भवेत् । स्थितिद्वयस्य चोन्नत्य, निर्ग्रन्थसाधुना तदा ॥१२५ विभिन्नगच्छशाखानां, कुलानां व्यवस्थाकृता । एवं रीत्या च कर्त्तव्ये, सर्व व्यवस्थितं भवेत् ॥१२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
mmmmmmmmmmmmmmmm.
[६७२]
योगभद्रपाहुविनेयाच्च, गोदासाभिधानकात् । गोदासगणसम्भूतः, ज्ञातव्यो जैनशासने ॥१२७ आर्यमहागिरेः शिष्याद् बलिस्सहस्य नामतः । बलिस्सहगणस्यैव, उत्पत्तिस्तत्र जायते ॥१२८॥ सुहस्तिसूरिशिष्येभ्यः, उद्देहचारणौ गणौ । मानववेसवाट्याख्यौ, गणौ च निर्गतौ तदा ॥१२६ सुहस्तिसूरिशिष्याश्च, मुख्या द्वादशसंख्यकाः । पश्चमः सुस्थितस्तेषु, षष्ठः सुप्रतिबुद्धकः ॥१३०॥ उदयगिरिमध्ये च, सूरिमन्त्रस्य कोटिशः। जापस्य जपनादेव, जातः कोटिकगच्छकः ॥१३१॥ कोटिकगच्छमध्ये च, वजी विद्याधरी तथा ॥ उच्चनागरिका चैव माध्यमिका चतुर्थि का ॥१३२॥ शाखाश्च परिज्ञातव्याः उपशाखाऽप्यनेकशः । इत्येवं परिमन्तव्यं, निर्ग्रन्थ नामधेयकम् ॥१३३॥ निन्थग्रन्थतायाश्च, नामान्तराणि सन्ति । न तु विभिन्नगच्छत्वं; ज्ञातव्यं बुद्धिशालिना ॥१३४ आर्यमुहस्तिनां पट्टे, सुस्थितप्रतिबुद्धको । संजातौ मुख्यशिष्यौ द्वौ पदृशोभाविवर्ष कौ ॥ .
Shree Sudharmaswami Gyanbhandar-Umára, Surat
W.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
-प्रदीप
[६७३]
आर्यमहागिरेः काले, आर्यसुहस्तिनस्तथा । द्वादशवार्षिकः कालः, अपतच्च भयङ्करः ॥१३६॥ तत्काले नैक संख्याकः, साधुभिर्भोज्य त्यागतः । अनशनं च सम्प्राप्य, स्वर्गे गताश्च तत्क्षणे ॥१३७ दुष्कालस्य प्रभावेन, आगमज्ञानहासता । कलिंगाधिपराज्ञा च, खारवेलेन तत्क्षणे ॥१३८॥ जैनस्थविरसाधूनां, कुमारीपर्वते खलु । एकत्रीकरणायैव, आह्वानं च कृतं तदा ॥१३॥ आर्यबलिस्सहश्चैव, बोधिलिङ्गनक्षत्रको । देवाचार्यश्च धर्मश्च, प्रभृत्यनेक साधवः ॥१४०॥ सुस्थितप्रतिबुद्धौ च, उमास्वातिस्तथा परः। श्यामाचार्याश्च तत्रैव, आगता स्थविरास्तथा ॥१४१ आर्यपोइणिकाः साध्व्यः, समितौ चागताः खलु । कलिङ्गभिक्षुगजश्च, पुष्यमित्रादिकाः किल ॥१४२॥ चतुर्विधकसंघस्य, आगतिस्तत्र जायते । कलिङ्गराजविज्ञप्त्या, साधुसाव्य अनेकशः ॥१४३ मगधमथुराषङ्ग, देशे धर्मप्रचारतः। आगमज्ञ मुनीन्द्रेश्च, आगमसंग्रहः कृतः ॥१४४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
योगmmmmmmmm
[ ६७४ ] पूर्वधरमुनीन्द्रश्च, पूर्वस्य संग्रहः कृतः । यस्य पार्वे च यज्ज्ञानं, तत्सर्व संग्रही कृतम् १४५ आर्यसुहस्तिनः पट्टे, सुस्थितप्रतिबुद्धको । द्वयोर्गोत्राभिधाने च, व्याघ्रापत्यकनामके ॥१४६॥ कोटिशमन्त्रजापाच्च, कोटिकौ तौ प्रकीर्तितौ । काकन्दिकनगर्या च, काकन्दको समुद्भवात् ।।१४७ सुविहितक्रियानिष्ठी, सुज्ञाततत्त्वको तथा । महापुरुषरूपौ तौ, विज्ञेयौ जिनशासने ॥१४८॥ धर्मोन्नतिविधानाय, सततं चोद्यमौ तथा। धर्म प्राणसमं मत्वा, धर्मध्यानपरायणौ ॥१४॥ कोटिकगच्छके जाताः, इन्द्रदिन्नादि सूरयः । स्थविरप्रियग्रन्थश्च, विद्याधरादिकास्तथा ॥१५०॥ सुस्थितसूरिपट्टे च, कौशिकगोत्रभूषकः । दिन्नसूरिश्च तत्प, विज्ञेयो वीरशासने ॥१५१॥ आर्यसिंहगिरिश्चैव, तत्प? शान्तसेवधिः । संजातो दृढ़धर्मश्च, जगत्कल्याणकारकः ॥१५२॥ प्रसङ्गतोऽनुवक्तव्याः, प्रभावशालिसूरयः । आयश्च क्रालिकाचार्यः, गर्दभिल्लविनाशकः ॥१५३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
-प्रदोप
[६७५ ] सांवत्सरी महापर्व, प्रागस्ति पञ्चमी दिने । चतुर्थी कालिकाचार्याज्जातं संघनियोगतः ॥१५४॥ धारावासनगर्याश्च, वीरसिंहस्य पुत्रकः । भृगुकच्छनृपाणां च, मातुलः समभूत्तदा ॥१५॥ गुणाकराख्यसूरीणां, प्रबुद्धो देशनादितः। जैनी दीक्षां समादाय, सम्भूतो जैनसाधुराट् ॥१५६ तद्भगिन्याः सरस्वत्या, भ्रातृदीक्षाऽनुयोगतः । तया दीक्षा प्रपन्ना च, विशुद्धा गुरुसन्मुखे ॥१५७ बुद्धिबलेन साधुः सः, सूरित्वं प्रतिपन्नवान् । निरतिचारचारित्रं, पालयति च सर्वदा ॥१५॥ अनुमतिं गुरुणां च, प्राप्य विहृतवांस्तथा । सर्वत्र परिभ्राम्यन् सनुज्जयिन्यां समागतः ॥१५०॥ रूपलावण्ययुक्ता या, विशुद्धब्रह्मचारिणी। साध्वी सरस्वती साऽपि, तत्पूर्या च समागता ॥१६० गर्दभिल्लनृपश्चैव, सर्वदा स्त्रीषु लम्पटः । महासती स्वरूपं च, दृष्ट्वा स मोहमूर्छितः ॥१६१ बलात्कारात्समादाय, अन्तःपुरे स नोतवान् । तन्मुत्त्यर्थं च सूरीशैः, प्रयत्नश्च कृतो बहु ॥१६२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
योग
~~~rn
[६७६] विनाशकालयोगेन विपरीता मतिर्भवेत् । दुर्बुद्धिगर्दभिल्लेन, स्वान्ते नैव विचारितम् ॥१६३ साध्वी शीलसुरक्षाय, आचार्यैश्च विचारितम् । विनाऽन्यराजसामर्थ्यात्साव्याश्च मोचनं न हि ॥ शकराजं समानीय, भीषणयुद्धमादृतम् । गर्दभिल्लसमुच्छेद्य, साध्वी शुद्धा च मोचिता १६५ बलभानुमित्रकानां च, तद्राज्यं हि समर्पितम् । कालिकाचार्यबोधेन, ताभ्यां धर्मश्च स्वोकृतः ॥१६६ तदाग्रहाच्च तत्रैव, चातुर्मासी कृता तदा । मन्त्रिणां मतिमांद्य न, प्रतिष्ठानपुरे गतः ॥१६७॥ तत्रस्य नृपसामीप्ये, जैनधर्मोपदेशनम् । प्रभावशालिबोधेन, प्रबुद्धः सोऽपि भूपतिः ॥१६॥ राजाग्रहनियोगेन, चतुर्थी दिवसे खलु। पञ्चमीतः समानीय, पर्व तदा समाहृतम् ॥१६॥ अद्यावधि च तत्पर्व, प्रचलति च भारते । तदीयाज्ञा शिरोधार्य, स्वीकृतिश्च कृता समैः॥१७० धन्यास्ते कालिकाचार्याः, धर्मोन्नतेश्च कारकाः । साध्वीशीलस्य रक्षायै, स्वशक्तिपरिस्फोटिता ॥१७१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
-प्रदाप
[६७७] आर्यदिन्नस्य पट्टेषु, आर्यसिंहगिरिस्तथा । कौशिकगोत्रसम्पन्नः, जातिस्मरणवान् खलु ॥१७२ तत्प? गौतमाभिख्य, गोत्रे सूरिपुरन्दरः। वस्वामिमहासाधू, सम्भूतो लल्धिभाक् तथा ॥ आर्यधनगिरेः पुत्रः, मुनन्दाकुक्षिसम्भवः । तुम्बवनाख्य ग्रामस्था, जातो धर्मपरायणः ॥१७४॥ स्वोत्पत्तिसमये श्रुत्वा, पितृदीक्षा मनोहराम् । संजात जातिस्मृत्या च, मातुरुद्व गहेतवे ॥१७॥ रोदति सततं तत्र, षणमासावधिकं तथा । भिक्षायै चैकदा साधुः धनगिरिः समागतः ॥१७६ तं दृष्ट्वा च तया प्रोक्तं, गृह्यतां स्वीय पुत्रकम् । धनगिरिमहाभागः, गृहीतः सोऽपि तत्क्षणे ॥१७७ महाभारत्व योगेन, दत्तं वजाभिधानकम् । पालनस्थः स बालोऽपि, जातश्चैकादशांगवित् १७८ यदा त्रिवार्षिको जातः, रूपलावण्यसंयुतः। तं दृष्ट्वा स्वीय मातृणां, मोहश्च वर्धते खलु ॥ मात्रा राजसभां गत्वा, पुत्राय प्रार्थना कृता । धनगिरिः सुनन्दा च, आगतौ राजमन्दिरे ॥१८०॥
Shree Sudharmàswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
[६७८ ]
योग
पुत्रव्यामोहकार्याय, सुनन्दा मुखभक्षिकाम् । अनेकविधता युक्तां तत्र गत्वा च ढौकते ॥ १८९ ॥ धनगिरिमहाभागैः साधुचिह्न रजोहरम् । तत्समीपे च मुक्तवा वै, प्रोक्तं द्वाभ्यां च तत्क्षण ॥ तुभ्यं यद्रोचते तद्धि, गृह्यतां भाग्यसेवधे । मोहसाधन मिष्टान्नं त्यक्त्वा रजोहरं धृतम् ॥१८३ ततो मातापि वैराग्याद्दीक्षां गृह्णाति भावतः । यदाष्टवार्षिको जातः, तदा जृम्भक देवकः ॥ १८४॥ पूर्वभवीय मित्रोऽमी, परीक्षायै तदागतः । उज्जयिन्याश्च मार्गेषु, वृष्टिनिवृत्तिकालिके ॥१८५॥ कुष्माण्डशुद्धभिक्षां च दीयमानां न गृह्णीयात् ।
"
अनिमेषत्व चिह्नन, जानाति देवपिण्डकम् ॥१८६॥ मह्यं न कल्पते तद्धि, कथितं तेन तत्क्षणे । तुष्टदेवेन तत्काले, दत्ता वैक्रियलब्धिका ॥ १८७॥ द्वितीय समये भिक्षा, धृतपुराभिधानिका । दीयमानापि साऽशुद्धा, देवपिण्डस्वरूपिका ॥१८८॥ तद्योग्यां च मत्वावै तुष्ट जृम्भकदेवतः । सम्प्राप्ता च महाविद्या, आकाशगामिनी तदा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________
-प्रदीप
[६७६] अन्यदा पाटली पुत्रे, विहारेण समागताः । तत्र साध्वी मुखाच्चैव, वज्रस्वामि गुणावलिम् ॥ श्रुत्वा च रुक्मिणी नाम्नी, कनीधनस्य श्रेष्ठिनः । गृह्णाति नियमं तत्र, वस्वामि पतिं विना ॥१६॥ नान्यं पतिं करिष्यामि, इति च प्रतिज्ञा कृता। धनश्रेष्ठिवरेणैव, नैकोपायाः कृताः खलु ॥१६२॥ परन्तु सा प्रतिज्ञाताद् न च्युता लेशमात्रतः। तदा वजूमहाभागः, आगतश्च पुरे वरे ॥१६॥ श्रुत्वा धनेन तत्काले, स कोटिद्रव्यसंयुताम् । रुक्मिणी दीयमानां च, न गृह्णाति स साधुराट् १६४ प्रतिबोध्य तदा तां च, वैरागमयवाक्यजैः । गम्भीरशुद्धबोधैश्च, दत्तं रत्नत्रयं तदा ॥१६॥ शुद्धा साध्वी च संजाता, वज्रगुरूपदेशतः। चारित्रं च विशुद्ध तत्पालयति सहर्षतः ॥१९६॥ दुर्भिक्षे चैकदा जाते, संघ संस्थाप्य पट्टके । सुभिक्षीय पुरीमध्ये, गुरुभिः संघ आनीतः ॥१९७ पर्युषणा समायाते, प्रभुभक्तिप्रवधिका । पुष्पादि सर्वसामग्री, निषिद्धा बोधर्मिभिः ॥१९८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
-
~
~
//
--.
wwwwwwwwww..
[६८.]
योगसंघेनैव समागत्य, गुरुणा प्रार्थना कृता। विना विशुद्धसामग्री, प्रभुभक्तिः कथं भवेत् ॥१६६ भवादृग्गुरुसंयोगे, कथं भक्तौ च विनता। दूषबुध्या च तेनैव, प्रतिषेधः कृतः खलु ॥२०॥ जैनधर्ममहाद्वेषी, अयं च बौद्धभूपतिः । स्वसत्तायाः समुन्मादः, धर्मद्वेषेण जायते ॥२०१॥ जैनानां भक्तिनाशाय, उपायस्तेन शोधितः । अतः केनापि योगेन, जैनत्वं परिदृश्यताम् ॥२०२॥ गुरुणा संघविज्ञप्त्या, तद्भक्तिपरिपुष्टये । धर्मोन्नतिसमुद्दिश्य, गताश्च सूरयस्ततः ॥२०॥ व्योमविद्याप्रयोगेन, माहेश्वरी पुरी खलु । मालिनं पितृमित्रं च, जल्पन्ति पुष्पहेतवे ॥२०४॥ हिमवत्पर्वते गत्वा, श्रीदेव्याश्च समीपके । हुताशनवनाच्चैव, लक्षशः कुसुमानि च ॥२०॥ महापद्मानि संगृह्य, देवकृत विमानके। माहेश्वरीय पुष्पाणि, लात्वा महोत्सवेन च ॥२०६॥ दुन्दुभिनादपूर्वेण, आगतास्तत्र सूरिराट् । देवेन सर्वपुष्पाणि, दत्तानि श्रावकाय च ॥२०७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
[६८१]
rrrrrrorm..mmmmmmmmmmmmmmmmmmmmmmmm
-प्रदीप अतीव भक्तिपूर्वेण, अतीवानन्दयोगतः। प्रभुभक्तिं प्रकुर्वन्ति, सर्वे च तत्र श्रावकाः ॥२०८ विशुद्धपुष्पगन्धेन, शुद्धसुगन्धिवस्तुना । जिनेन्द्रपूजनं दृष्ट्वा, राज्ञा मनसि शोचितम् ॥२०६ सर्व गुरुप्रसादेन, जैनसंघेन कृतं तथा । तादृशा गुरवो नैव, अस्माकं दर्शने खलु ॥२१०॥ गुरुदर्शनकार्याय, राजा तत्र समागतः। गुरूणां देशनां श्रुत्वा, शुद्धकल्याणकारिणीम् ॥२११ सम्यग्रत्नं परिप्राप्य, जैनधर्मप्रभावनाम् । करोति चातिभावेन, दृढधर्मपरायणः ॥२१२॥ अहो गरुमहात्म्यं तद्, बोद्धं च प्रतिबोध्य वै। तद्देशे जैनधर्मत्वं, स्थापितं गुरुणा तदा ॥२१३॥ शत्रुजये महातीर्थे, श्रेष्टिजावडभावडैः। विक्रमशतके पूर्णे, अष्टवर्षोंत्तरे तथा ॥२१४॥ तत्तीर्थोद्धृतिकार्य च, कृतं तै: श्रेष्टिभिः किल । प्रतिष्ठायाश्च कर्तव्ये, गुरवः प्रभावशालिनः ॥२१५ विद्यया परिपूर्णाश्च, तत्कार्य प्राथिताश्च तः। तेषां च भाग्ययोगेन, मीलिता दशपूर्विणः ॥२१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
योग
Nrr+44
~-47--14trrr
-.
[६८२] वजस्वाम्याख्य सूरीन्द्राः, अतिप्रभावशालिनः । विहारानुक्रमेणैव, आगतास्तेऽपि तत्र वै ॥२१७॥ विज्ञप्तिं श्रेष्ठिनां श्रुत्वा, महालाभाय ते तथा । स्वीकृत्यैव प्रतिष्ठायाः, कार्य प्रारब्धकं खलु ॥२१८ कपर्दीयक्षविघ्नेन, मूलनायकस्वामिनाम् । स्थैर्य च नैव जायेत, उत्थापनं पुनः पुनः ॥२१॥ महाविद्याबलेनैव, ज्ञाता तस्यैव विघ्नता। यक्षं सन्तोष्य तत्रैवाधिष्ठातृत्वं कृतं तदा ॥२२०॥ तन्मूर्तिः स्थापिता तत्र, तत्तीर्थे गुरुणा खलु । आधिपत्यं च तस्यैव, शत्रुजये विराजते ॥२२१॥ महाकार्य विधायैव, गुरुभिर्विहृतिः कृता । तीर्थोद्धारप्रतिष्ठा च, जाता सद्गुरुयोगतः ॥२२२ अन्यदा गुरुदेवानां, कफोद्रेकप्रभावतः । भोजनादनुस्वाद्यर्थ, शुण्ठोग्रंथिश्च रक्षिता ॥२२३॥ कर्णे च स्थापिता साऽपि, विस्मृता वृद्धभावतः । प्रतिक्रमणकाले च, पतिता कर्णतस्तदा ॥२२४! आसनमृत्युतां ज्ञात्वा, सुरिणां च प्रमादतः । द्वादशवर्षपर्यन्तं, दुर्मिक्षस्य प्रवेशनम् ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
wrrrrrrrrrrrrrrrr
~
~
~
~
~
~
~
~
~~
~
~
~
~
~
~
~
-प्रदीप
[६८३] सूरिर्ज्ञानेन विज्ञाय, वजसेनं हि तत्क्षणे। आहृय कथितं तेन, लक्षमूल्योदनात्खलु ॥२२६॥ त्वं भिक्षां च यदाऽनुयाः, तदुत्तरदिने च भोः । सुभिक्षं तु त्वया ज्ञेममन्यथा न कदाचन ॥२२७॥ पूर्व च दशमं तस्माद व्युच्छिन्नं वज्रस्वामितः। वनसेन महाभागः, तदनु विहृतिः कृता ॥२२८॥ सोपारकपुरे तस्माच्छिष्येण सह चागतः । जिनदत्ताख्य भव्यानां, भिक्षार्थ गतवान् गृहे २२६ तत्पत्न्याश्चेश्वरी नाम्न्याः क्रीतं च लक्ष्यमूलकम् । अन्ने तस्मिंश्च संक्षिप्त, विषं हालाहलं तदा २३० विचारितं स्वस्वान्ते च, अन्नं धनं न विद्यते । आगतेऽह्नि च भिक्षूणां, भिक्षां दास्ये कथं खलु २३१ दर्शयामि कथं स्वास्यं, विचार्य विषवत्कृतम् । तस्या विशुद्धभावोऽपि, ज्ञातो हि गुरुणा तदा २३२ आगत्य सूरिणा प्रोक्तं, नैवं कार्य कदाचन । श्वः काले भूरिपोतं तद्, आगच्छति च धान्यकं २३३ .तच्छुत्वा च सहर्षेण, जिनदत्तेन शोचितम् । यदि सत्यं भवेत्तर्हि, आनन्दः परिजायते ॥२३४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
[६८४]
योगप्रचुरधान्यसम्प्राप्ते, सुकालः परिजायते। नागेन्द्रचन्द्रनिर्वृत्तिविधाधरैः सुतैः सह ॥२३॥ जिनदत्तोहि चेश्वर्या, प्रेरितो वृतमात्तवान् । पुत्रचतुष्कनाम्ना च, भिन्नाः शाखाश्च निसृताः । चन्द्रनाम्ना च तद् गच्छः, शाखारूपेण जायते । नागेन्द्रेणैव नागेन्द्रः, चन्द्रेण चन्द्रगच्छकः । नितिकामरूपेण, निवृतिनागच्छकः । विद्याधरेण तद्रूपः, एवं च परिज्ञायताम् ॥२३८॥ वनसेनमहाभागपट्टे च चन्द्रसूरयः । प्रभावशालिनस्तेपि, ज्ञातव्या जैनशासने ॥२३६॥ प्रभावशालिसाधूनां, सिद्धसेनदिवाकराः । ज्ञातव्याश्च महाभागाः, विक्रमप्रतिबोधकाः ॥२४० वृद्धवादिगुरूणां च, पार्वे कुमुदचन्द्रकैः । महाविज्ञैः समागत्य, स्वकल्याणं च साधितम् २४१ बङ्गदेशीय कुर्मारराजं च देशनादिना । जैनं कृत्वा च सुश्राद्धः, कारितो जेनशासने ॥२४२
-प्रभावशालि साधना मध्ये । Shree Sudharmaswami Gyanbhandar-umara, Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
प्रदीप
[ ६८५ ]
परमार्हतभक्तोऽपि, संजातो गुरुयोगतः । विहृत्यच ततः स्थानादवन्त्यां गुरवो गताः ॥२४३
अवन्तिपार्श्वनाथस्य, अवन्तीनगरीयके ।
मूर्त्तिर्ब्राह्मणलोकैश्च, स्वाधीनी सर्वथा ॥ २४४
कृत्य
जैननामापमानं च कृतं तादृशकार्यतः ।
तत्र गत्वा महाकालमन्दिरे च कृता स्थितिः ॥ कल्याणमन्दिराख्यं च स्तोत्रं सुरचितं तदा । संजातं तन्निशम्यताम् ॥२४६
तत्स्तोत्रपठने यच्च, पञ्चदशमश्लोकस्य, उच्चारणं यदा भवेत् । तदा तच्छ्विलिङ्ग च, स्फुटितं गुरुमंत्रतः ॥२४७॥ तन्मध्ये पार्श्वनाथस्य, प्रतिमा निःसृता शुभा । तद्दृष्ट्वा सर्वलोकाश्च कुर्वन्ति शुद्धभावनाम् २४८ महाश्चर्यं महाश्चर्य, जगति गुरुणा कृतम् । विक्रमादित्य राजापि, आगतो गुरुसन्निधौ ॥ २४६ स्तुतिं च गुरुदेवार्ना, करोति भक्तिभावतः ।
विकमप्रतिबोधाय, प्रारब्धा देशना खलु ॥ २५० ॥
गुरूपदेशयोगेन, विशुद्धशक्तियोगतः ।
प्रतिबोध्यैव राजानं श्रावकः सूरिणा कृतः ॥ २५९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
योगmmmmmmmmmm
[६८६] संस्कृतं प्राकृतं ज्ञान, प्रचुरं परिज्ञायताम् । तत्सदृशोहि विज्ञश्च, तत्काले भारते नहि ॥२५२॥
जैनदर्शनशास्त्राणि, शुद्धन्याययुतानि च । निर्मापितानि जैनेषु, विद्यन्ते खलु भारते ॥२५३॥ आद्य निर्मापणं न्यायशास्त्राणां सूरिणा कृतम् । तत्पश्चान्यायशास्त्रस्य, ग्रन्थान काश्च निर्मिताः ॥ सर्वागमीय ग्रन्थानामनुवादश्च संस्कृते । कर्तव्ये स्वीय जिज्ञासा, दर्शिता संघसम्मुखे ॥२५५ नमस्कारमहामंत्रानुवादश्च कृतस्तदा । तच्छुत्वा संघमुख्येन, प्रायश्चित्तं प्रदर्शितम् ॥२५६ तत्प्रायश्चित्तरूपेण, विक्रमप्रतिबोधनम् । कृतं च गुरुदेवेन, बहुयुक्तिप्रयोगतः ॥२५७॥ विक्रमीय चरित्राच, विज्ञेयं ज्ञानशालिना । अत्र तु नाममात्रेण, दर्शितमधुना मया ॥२५८॥ सिद्धाचलस्य यात्रायै, महासंघश्च योजितः । निष्कासितो महानेव, विक्रमेणैव तत्क्षणे ॥२५६॥ ओङ्कारनगरे जैनमन्दिरं नूतनं कृतम् । अश्वाववोधतीर्थस्य, उद्धारोऽपि कृतः खलु ॥२६०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
- प्रदीप
[ ६८७]
अनेकधर्मकार्याणि कारितानि च सूरिणा । सन्मतितर्कन्यायावतारादिकाश्च ग्रन्थकाः || २६१ सर्वोत्तमाश्च विज्ञेयाः, प्रौढयुक्त्या समन्विताः । तन्नामस्मृतिमात्रेण, पापं च परिनश्यति ॥ २६२॥ दक्षिणदेशमध्ये च, सूरीणां स्वर्गवासता । सञ्जाता कालयोगेन, दिवाकरा दिवं गताः ॥ २६३ धन्यास्ते सूरयो ज्ञेयाः, जैनधर्मस्य दीपकाः । अद्यावधि च तन्नाममन्त्ररूपेण गीयते ॥ २६४॥ चन्द्रगच्छादि गच्छाच्च, नामान्तरस्वरूपतः । चतुरशीतिगच्छाश्च, सञ्जाता वाचनादितः ॥ २६५ चन्द्रगच्छादि गच्छाश्च, रूपान्तरेण ते तथा । नामान्तरं स्वरूपेण, विज्ञेया जैनशासने || २६६ ॥ निर्ग्रन्थ प्रथमं नाम, द्वितीयं कोटिकं तथा । चन्द्रगच्छस्तृतीयं च, अभिधानं प्ररूपितम् ॥ २६७ वनगच्छचतुर्थं च अभिधानं निगद्यते ।
।
यतो हि तच्च संजातं, तत्स्वरूपं च लेशतः ॥ २६८
१ ― निर्मन्थ गच्छस्य ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
[६८८]
योगचंद्रसूरीशपट्टेषु, सामन्तभद्रसूरयः । महाप्रतापसंयुक्ताः जगद्य द्योतकारकाः ॥२६६॥ दिगम्बरत्वभेदोऽपि, पतितः कालदोषतः । सम्प्रदाय द्वयस्यापि, ते पूज्याः सूरयो मताः ॥२७० तन्निर्मिताश्च सद्ग्रन्थाः, मन्यन्ते चाप्तरूपतः। द्वाभ्यां च सम्प्रदायाभ्यां, संशयो नात्र विद्यते ॥ विवादो नैव केषाश्चित्तद् विषये प्रजायते । युक्त्यनुशासनं देवागमस्तोत्रं च सुन्दरम् ॥२७२॥ स्वयम्भूस्तोत्ररूपाश्च, ग्रन्थाः सर्वैश्च सम्मताः । सूरीणां वृद्धदेवानां, प्रतिबोधस्य हेतवे ॥२७३॥ देवागमीय स्तोत्रं तत्कृतं सामन्तसूरिभिः । दिगम्बराश्च ते सन्ति, इत्युक्तौ न प्रमाणता ॥ प्रमाणाभावतो नैव, तादृग् वाक्यं च मन्यते । प्रमाणविरहेणापि, यदि त्वया निगद्यते ॥२७।। तदा शशविषाणं च, मन्यतां च स्वच्छन्दतः । कल्याणमन्दिरस्यैव सिद्धसेनदिवाकराः ॥२७॥ श्वेताम्बराश्च कर्तारः, प्रसिद्ध युक्तियुक्ततः । तथाप्यज्ञानदोषेण, नग्नाटत्वं च घोषितम् ॥२७७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umarayyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
-प्रदीप
[६८६] यथैव मानतुंगाना, सूरीणां स्वीकृतिः कृता । तथैवात्रापि ज्ञातव्यं, सामन्तभद्रसूरिषु ॥२७८॥ तद् ग्रन्थेषु प्रमाणं च, नग्नाटसाधकं न हि । उत्कटत्यागभावेन, स्वीकृता वनवासता ॥२७६॥ द्वष्ट्वा दिगम्बरैस्तेषु, घोषितं च दिगम्बरम् । योगिनां समदृष्टित्वात्पक्षपातो न विद्यते ॥२८॥ पूर्वविदश्च ते ज्ञेयाः, घोरतपस्विनस्तथा । आगमस्यानुसारेण, क्रियायाः कारकाश्च ते ॥२८॥ देवकुलादिशून्येषु, स्थानेषु वनवासता। वनवासित्वयोगेन, वनगच्छोपि निर्गतः ॥२८२॥ वनवासित्वगच्छोऽपि, निर्ग्रन्थतश्चतुर्थकः । प्ररूपणासु भेदस्य, लेशमात्रं न विद्यते ॥२८॥ सामन्तभद्रपट्टेषु, वृद्धदेवाः समागताः । सततं धर्मवृद्धीणां, कारका दुःखवारकाः ॥२८४॥ तत्प परिज्ञातव्याः, प्रद्योतनाख्य सुरयः । शासनरागता तेषां हृदये परिराजते ॥२८॥ सूरयो मानदेवाख्याः, तत्पवृद्धिकारकाः । कर्त्तारो लघुशान्तीनां, सङ्घोपद्रवनाशकाः ॥२८६॥
४४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
योग
[ ६६० ]
तत्पद्द े मानतु ङ्गाख्याः, सूरयो धर्मवर्धकाः । विशेषरूपतस्तेषां स्वरूपं कथ्यते मया ॥२८७॥ धारानगरवास्तव्यः वृद्धभोजाभिधानकः ।
तन्नृपस्य सभायां च भक्तामरस्य कारकाः २८८ || नैकतालकदानेन, सूरीणां च नियन्त्रितः । एकैकश्लोक पाठेन, एकतालकोटनम् ॥ २८६ ॥ सम्पूर्ण स्तोत्रसंजाते, सर्वतालकत्रोटनम् । सूरिभिश्च कृतं तत्र, महाश्चर्यप्रदर्शकम् ॥ २६० ॥ तादृशीं गुरुशक्तिं च दृष्ट्वा नृपश्चमत्कृतः । जैनधर्मप्रभावोऽपि तत्सभासु प्रजायते ॥ २६१ ॥ गुरूपदेशलाभेन, प्रभावः प्रसृतो बहु । प्रभावशालिनस्ते च सूरयो जगती तले ॥२६२॥
बप्पभट्टिगुरूणां च स्वरूपं लेशमात्रतः । प्रसङ्गतो निगयेत, स्वकीय ज्ञानहेतवे ॥ २६३॥
पाञ्चालदेशवास्तव्य, सूरपालनृपस्य च । पुत्रास्ते सूरयो ज्ञेया, जगदुद्योतकारकाः ॥ २६४ ॥ लघुवयसि दीक्षा च गृहीता शुद्धभावतः ।
सिद्धसेनाख्य सरीणां, पार्श्वे च मोढगच्छके २६५
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
-प्रदीप
[६११] ज्ञानचारित्रयोगेन, आचार्यत्वे नियोजिताः । संजाता बप्पभट्ट याख्याः, सून्यो जैनशासने २९६ प्रत्यहं श्लोकसाहस्य, सूरिकण्ठेषु जायते । तादृशशक्तिसामर्थ्यमन्यत्रनैव विद्यते ॥२६॥ गोपगिरिनृपाणां च, उपदेशप्रभावतः। प्रतिबोधनकार्य च, सूरिभिश्च कृतं तदा ॥२६॥ आमराजेन तत्काले, विशालं खलु मन्दिरम् । निर्मापितं च तत्रापि, प्रतिमा सुमनोहरा ॥२६॥ सुवर्णमयमूर्तिश्च, महामूल्येन कारिता । प्रतिष्ठिता शुभे लग्ने, सूरिभिः शुभमन्त्रतः ॥३०॥ महावीरप्रभूणां च, सा मूर्तिः परिज्ञायताम् । आमराजस्य भाग्येन, जातं सुन्दरमन्दिरम् ।३०१॥ लक्षणावर्तग्रामस्य, नृपस्य प्रतिबोधकाः । धर्मराज शुभे धर्मे, संस्थाप्य स दृढी कृतः ॥३०२॥ वर्धनकुञ्जरादीनां, बोद्धानां परिजीवकाः । वादिकुञ्जरसिंहस्य, उपाधिर्मीलितस्तदा ॥३०॥
१ लक्ष्मणावर्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________
mmmmmmmm
[६९२]
योगतस्य सेनापतिं चैव, प्रतिबोध्यैव तत्क्षणे । दत्त्वा भागवती दीक्षामात्मकल्याणकारितम् ३०४ सूरीणामुपदेशेन, आमराजेन भावतः । सिद्धाचलादि तीर्थानां, सङ्को निष्कासितो महान् ॥ इत्याद्यनेककार्याणि, कृतानि सूरिभिः खलु । जैनधर्मप्रभावश्च, संजातो गुरुयोगतः ॥३०६॥ मानतुंगाख्यसूरीणां, पट्टे च वीरसूरयः । यथार्थनामयुक्तास्ते, शासनवृद्धिकारकाः ॥३०७॥ सूरयो जयदेवाख्याः, तत्पट्टे शुभचिन्तकाः । स्वीय शत्तयनुसारेण, जैनधर्मप्रभावकाः ॥३०॥ देवानन्दाख्य सूरिश्च, तत्पपरिवर्धकः । शुद्धा क्रियानुरागेण, रक्तं च स्वीयमानसम् ॥३०॥ विक्रमसूरयो ज्ञेयाः, तत्पट्टपरिदीपकाः। जैनसिद्धान्तज्ञातारः, स्वपरोन्नतिकारकाः ॥३१० ततो नृसिंहसूरीणां, परिचयो विशेषतः। कार्यते धर्मयोगेन, स्वपरोन्नति हेतवे ॥३११॥ स्वपरशास्त्रज्ञातारः; महाविज्ञाश्च ते मताः । नरसिंहपुरे यक्षस्योपदेशप्रदाः खलु ॥३१२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________
-प्रदीप
[६] तं प्रतिबोध्य तस्माच, मांसाहारस्य भक्षणम् । त्याजितं सूरिभिश्चैव, स्वप्रभावः प्रदर्शितः।३१३॥ क्षोमाणानामधेयं च, राजकुलं स्वशक्तितः । प्रतिबोध्यैव धर्मेषु, दृढीकृतं च सरिभिः ॥३१४॥ तद्वंशीय समुद्राख्य, कुमारं प्रतिबोध्य च । दीक्षां भगवती दत्वा, कल्याणं कारितं च तैः ३१५ समुद्रसूरयः पश्चात्ते जाता भाग्ययोगतः। वादे दिगम्बरं जित्वा, स्वशक्तिपरिदर्शकाः ॥३१६ नागहृदीय तीर्थं च, ततश्च स्वायती कृतम् । श्वेताम्बरीय संघस्य, विजयः कारितश्च तैः।३१७ महाप्रभावसद्युक्ताः जैनशासनदीपकाः । आचार्यनरसिंहाख्याः, जयन्तु जगती तले ॥३१८। समुद्रसूरयो ज्ञेयाः, धर्मोन्नति प्रभावकाः। तत्प शोभमानास्ते, जगदानन्ददायकाः ॥३१६॥ तत्पट्ट भूषयामासुः, मानदेवाख्य सूरयः । शासनभक्तिकर्तारः, वादीभसिंहसादृशाः ।३२०॥ विबुधप्रभसूरीन्द्राः तत्प भूषयन्ति वै। अनेकशास्त्रज्ञालारः, भन्यानां प्रतिषोधकाः ।३२१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________
rrrr
F६६४]
योगतत्पर्ट शोभयामासुः, जयानन्दाख्य सूरयः। सर्वत्रानन्ददातारः, जगत्कल्याणकारकाः ॥३२२॥ अलंचकु श्च तत्प, रविप्रभाख्य सूरयः । रविसमप्रकाशं च, कुर्वन्ति भारते खलु ॥३२३॥ प्रकाशयन्ति तत्प, यशोदेवाख्य सूरयः।। चन्द्रोज्वलयशोवादः, शासनं दीपयन्ति ते ॥३२४ प्रद्य म्नसूरिदेवानां, विषये लेशमात्रकम् ।। लिख्यते स्वात्मबोधाय, अन्येषां ज्ञानहेतवे ॥३२॥ मेदपाटनृपाणां च, अल्लाख्यानां च बोधकाः। धर्मवादविधाने च, अद्वितीयाः प्रकीर्तिताः ॥३२६ तैराचार्यमहाभागः, राजसभासु चान्यदा । नग्नाटवादिनां तत्र, पराजयश्च कारितः ॥३२७॥ श्वेताम्बरं दृढीकृत्य, युक्त्या च साधितं तदा। सर्ववादेषु नग्नाना, पराजयश्च जायते ॥३२८॥ त्रिभुवनगिर्यादीनां, नृपाणां प्रतियोधकाः। सर्वत्र जैनधर्मस्य, विजयं कारयन्ति ते ॥३२६॥ तन्नाम्ना चापरे जाताः, आचार्या जैनशासने । मेदपाटनृपाणां च, तन्मध्ये बोधकरच कः ॥३३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________
-प्रदीप अतस्तन्निर्णयो नैव, जातोऽद्यावधि शासने । ऐतिहासिकसामग्र्याः, अभावे निर्णयो न हि ३३१ सूरयो मानदेवाख्याः, तत्पी चागतः खलु.. ततो विमलचन्द्राख्याः, सूरयः पट्टदीपकाः ॥३३२॥ तत्पद भूषयामासुः, उद्योतनाख्यसूरयः । वटगच्छ समुत्पत्तिः, तत एव प्रजायते ॥३३३॥ तत्स्वरूपं विशेषेण, कथ्यते ज्ञानहेतवे । श्रोतव्यं प्रेमभावेन, शासनोन्नतिकांक्षिभिः ३३४ पश्चत्रिंशत्तमे पट्टे, सुधर्मस्वामिनां खलु । संजाताश्च महाभागाः, उद्योतनाख्य सूरयः ।३३५ मथुरा तीर्थयात्रा च, अनेकशः कृता च तैः। सम्मेतशिखरस्यैव, पञ्चकृत्वश्च सा कृता ॥३३६॥ एकदा खलु तीर्थानां, यात्रां कृत्वा हि चाबुंदे । यात्रार्थं च समायाताः, तलहट्ट्याश्च नैकटे ॥३३७ टेलिग्रामस्य सीमायां, वटस्थाधस्तले तदा । स्थिताश्च सूरयस्तत्र, विश्रामकृतिहेतवे ॥३३॥ तत्काले सुग्रहाणां च, योगस्तु जायते महान् । आचार्येणैव तत्काले, चिन्तितं निजमानसे ॥३३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________
[ ६६६ ]
योग
,
अधुना शुभयोगानां योगो मीलति सर्वथा । शुभे लग्ने शुभं कार्यं कर्त्तव्यमिति चिन्तितम् ३४० सर्वदेवादिशिष्याणां, मुख्यानां च तदा खलु । स्वाभिप्रायं प्रदश्यैव, स्वकार्यकरणोद्यताः ॥ ३४९ ॥ आचार्यपददानं च तेषां कृतं च तत्क्षणे । आशीर्वादप्रदानं वै कृतं च सूरिभिस्तदा ॥ ३४२ वटवृक्षसमायुष्मत्संततिः परिवर्धताम् । शासने सुखपूर्वेण, प्रचारः प्रविधीयताम् ॥३४३॥ तत्काले सर्वदेवानां ख्यातिश्च वटगच्छतः । जैनेषु सर्वदा जाता, पश्चाच्च वनगच्छतः ॥ ३४४॥ वटेष्वाचार्यतादानाद्वटगच्छः प्रजायते ।
समाचाय न मेदोऽस्ति, निर्ग्रन्थतश्च कश्चन ३४५
अतो नामान्तरं ज्ञेयं, न तु स्वतंत्रगच्छता । इत्येवं सर्व ज्ञातव्वं, जैनशासनवेदिभिः ॥ ३४६||
सर्वदेवाख्यसूरीणां, सन्ततिर्वटवृक्षवत् ।
प्रशाखादिस्वरूपेण, अतीव परिवर्धते ॥३४७॥
नागेन्द्रादिकगच्छानामवान्तरीय गच्छकाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________
- प्रदीप
[ ६६७ }
अनेकशश्च संजाताः, तेऽपि वटे समागताः ॥ ३४८ वटगच्छस्य मुख्यत्वं, तत्काले परिवर्त्तते । चैत्यवाससमुत्पत्तिः, सजाता तस्य पूर्वतः ॥ ३४६ ॥ वटशासनकाले च परे गच्छा विनिर्गताः ।
समाचार्याः प्रभेदेन भिन्नत्वं तत्र चागतम् । ३५० सर्वदेवाख्य सूरीणां, पट्टे ऽभूद्दे वसूरयः । कर्णसिंहाख्य हालारनृपस्य प्रतिबोधकाः ॥ ३५९ ॥ मालवदेशवास्तव्य, पोर्वाख्य गृहिणस्तथा । प्रतिबोध्य विशुद्ध े च, जैनधर्मे समानीताः ॥ ३५२॥ प्राग्वाटजातिरूपेण, तेषां च स्थापना कृता । प्रभावशालिनस्ते च संजाता जगती तले || ३५३ ॥ प्रसङ्गतः परेषां च महात्मनां च वर्णनम् । वादिवेतालश्रीशान्तिसूरीणां च विधीयते ॥३५४॥ धारापद्राख्य गच्छीय, विजयसिंहसूरयः । तच्छिष्यास्ते व संजाताः चन्द्रगच्छस्य दीपकाः ३५५.
धनपालकवीनां च, प्रेरणाशक्तियोगतः ।
भोजराजसभायां च दर्शयन्ति स्वशक्तिताम् ३५६
२ वटगच्छे । २ वटगच्छशासनकाले ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________
wrawrmer www.rrrrrrramwww.rrmerrommmmmmmmrrrrrrrrrrrr.
[६१४]
योगनैकवादिवराणां च, वादे जित्वा हि तत्क्षणे। स्वीय चमत्कृतिश्चैव, सूरिभिर्दर्शिताः खलु ।३५७ उत्तराध्ययने सूत्रे, गम्भीरार्थेन संयुता। न्यायगर्भितटीकाऽपि, रचिता बुद्धियोगतः ॥३५८ पाइटीकाभिधाना च, प्रसिद्धा जैनशासने । सप्तशतं च श्रीमालकुटुम्बानां च बोधनम् ॥३५६॥ अपूर्वशक्तियोगेन, सूरिणा च कृतं तदा । अतीववादशत्तया च, भोजराजेन हर्षतः ॥३६०॥ वादिवेतालरूपश्च, दत्तोपाधिश्च तत्क्षणे । तत्सभायां च तैरेव, पदं कवीन्द्रनामकम् ॥३६१॥ सम्प्राप्त विज्ञयोगेन, वादिचक्रित्वकं परम् । एवमनेकरूपा च पदवी तेषां च मीलिता ॥३६२॥ गूर्जराभिधभीमश्च, भोजश्च मालवाधिपः । सन्मानं गुरुदेवानां, कुर्वन्ति नैकरूपतः ॥३६॥ थारापद्रीय चौहाण-जातीनां प्रतिबोधनम् । प्रभावशालिना तेन, सूरिणा च कृतं तदा ॥३६४॥
___ मलधारिअभयदेवसूरिस्वरूपम् गौर्जरदेशवास्तव्य, कर्णदेवेन तत्क्षणे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________
प्रदीप
[६ ] गुरुषु शुद्धचारित्रमुत्कृष्टं च तपस्तथा ॥३६॥ दृष्ट्वा तेनैव सूरीणां, मलधारिपदार्पणम् । कृतं प्रसन्नरूपेण, गुणेषु पक्षपाततः । ३६६॥ कुल्पाकतीर्थयात्रां च, कृत्वैलचपुरे वरे । गत्वा श्रीपालराजस्य, प्रतिषोधनता कृता ॥३६७।। मुक्तागिर्याख्य तीर्थस्य, कारिता तन्त्र स्थापना । सिरपुरेऽन्तरिक्षस्य, पार्श्वनाथप्रभोस्तथा ॥३६८॥ प्रतिष्ठाविधियोगेन, सरिणा तेन कारिता । परमजैनधर्मत्वं, प्रापितं तन्नृपे तदा ॥३६॥ मुक्तागिर्याख्य तीर्थ च, श्वेताम्बरीय सरिभिः । स्थापितं हि ततो नैव, नग्नाटत्वं च तत्र वै ॥३७०॥ श्वेताम्वरीय श्राद्धानां, तत्र वसत्यभावतः। दिगम्बरीय-सत्ता च, संजाता तत्र तीर्थके ॥३७१॥ मूलनायकमूर्तिश्च, श्वेताम्बरत्व दर्शिका। अद्यापि विद्यते तत्र, गत्वा च दृश्यतां खलु ॥३७२।
मलधारिहेमचन्द्रपरिचयः । अभयदेवसरीणां, मलधार्यभिधानताम् । सुशिष्या हेमचन्द्राश्च, प्रखरवादिनस्तथा ॥३७३॥
Shree Sudharmaswamim Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________
[ ७०० ]
विशेषावश्यके सूत्रे, महट्टीका विनिर्मिता । अष्टाविंशतिसाहस्रश्लोकप्रमाणसंयुता ॥ ३७४ ॥
गम्भीरार्थेन युक्ता सा, नैकवादसमन्विता । गणधरादिवादाश्च तत्रैव चिन्तिता खलु ॥ ३७५॥
अजयमेरुराजाऽपि, व्याख्यानं श्रोतुमिच्छया । प्रत्यहं देशनायां च, आगच्छति च भावतः । ३७६ भुवनपालराजेन, सरीणामुपदेशतः । जैन मन्दिरपूजायै, आगतानां करो नहि ॥ ३७७ ৷৷ सर्वथा करमुक्ताश्च, कृतास्तेनैव श्रावकाः । सूरिव्याख्याप्रभावेन, जातो धर्मे च रागवान् ३७८ सौराष्ट्रराजखेंगारः, संजातः सूरिभक्तराट् ॥
शाकम्भरीयराजेन, पृथ्वीपालेन तत्क्षणे ॥ ३७६ ॥ सरीणामुपदेशेन, जैनधर्मश्च स्वीकृतः ।
रणथम्भोरग्रामे च कारितं जैनमन्दिरम् ॥ ३८० ॥ सिर्द्धराजादि राजापि, व्याख्यानश्रवणाय वै ।
I
योग
१ सिद्धराज जयसिंह ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www
आगच्छति गुरूणां च नैकटे नैकशः खलु ॥ ३८१
,
निर्माता नैकग्रन्थानां, जेता च नैकवादिनाम् ।
www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________
-प्रदीप
[ ७०१ ]
शुद्धप्रभावसयुक्ता, जयतु जैनशासने ॥ ३८२॥
वादिदेव परिचय | महानैयायिकास्ते च, शासने प्रौढतार्किकाः चतुरशीतिसाहस्रश्लोकप्रमाणतायुतः ॥ ३८३ ॥ रत्नाकरान्तस्याद्वादादिग्रन्थस्तैश्च निर्मितः ।
गौर्जरेश्वर सिद्धराजस्तेषां भक्तराट् खलु ॥ ३८४ ॥ तत्सभायां च नग्नाटा:, कुमुदचन्द्रवादिनः । वादे जित्वा च सद्युक्तया, जयध्वजः प्रवर्तितः ३८५ सांख्यदर्शनकाराणां वादिनां तस्य संसदि । जित्वा च धर्मवादेन, वादिसिंहपदं तथा ॥ ३८६ ॥ सम्प्राप्त सूरिभिस्तैश्च, जैनधर्मः प्रवर्धितः । जैनशासनशोभायाः कारकाश्च जयन्तु ते ॥ ३८७॥
कलिकालसर्वज्ञहेमचन्द्रपरिचयः
सम्पूर्णे भारते तेषां यशोगानं प्रवर्तते । सर्वकविवरेन्द्र ेषु, प्राधान्यं तेषु वर्तते ॥ ३८८ ॥ सर्वेषां ग्रन्थकर्तृणां प्राधान्यं तेषु सर्वदा ।
व्याख्यानशालिनां मध्ये, मुख्यव्याख्यानकारकाः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________
योग
[ ७०२ ]
कुमारपाल भूपालबोधकागुरवश्च ते । अष्टादशसु देशेषु, अमारिपटघोषणम् ॥ ३६० ॥ कारितमुपदेशेन, सूरिणा भूपतेः खलु । जन्म सफलता राज्ञां, कारिता सूरिणा तदा ॥ ३६१ अपूर्वविज्ञता तेषामपूर्वबुद्धिकौशलम् । अपूर्वा तर्कशक्तिश्च, सर्वापूर्व च सूरिषु ॥३६२॥ व्याकरणं च लिङ्गानुशासने नैव संयुतम् । पादलक्षप्रमाणं च श्लोकानां तत्र वर्तते ॥ ३६३ ॥ काव्यानुशासनं चैव, छन्दोऽनुशासनं तथा । वादानुशासनं तैश्च, स्वोपज्ञं च विनिर्मितम् ३६४ न्याये प्रमाणमीमांसा, सटीका तैश्च निर्मिता । अनेक काव्यग्रन्थाश्च, रचिता सूरिभिः खलु ॥ ३६५॥ प्रौढिमयोगशास्त्रं च, सटीकं वर्तते खलु । वीतरागमहास्तोत्रं, जैनगीतास्वरूपकम् ॥ ३६६॥ सार्वत्रिकोटिश्लोकानां, निर्माणं जैनशासने । तैरेव कारितं बुध्या, सर्वाश्चर्य विधायकम् ॥ ३६७॥ नैकमन्दिरनिर्माणं, प्रतिष्ठा करणं तथा ।
अनेकतीर्थयात्रा च, संघद्वारा कृता खलु ॥ ३६८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________
mmmmmmmmmmain
-प्रदोप
[३] सिद्धाचलमहासंघ, कुमारपालभूभुजैः। अतीव भक्तियुक्तन, निष्कासितश्च भावतः ॥३६॥ कलिकालीय सर्वज्ञाः जयन्तु ते सूरिवराः । तेषां स्मरणमात्रेण, गलन्ति पापपङ्कजाः ॥४०॥ प्रसङ्गतश्च सम्प्रोक्तं, वादिवैतालकादीनाम् । संक्षेपेण चरित्रं च, स्वपरज्ञानहेतवे ॥४०॥ देवसूरिप्रभूणां च, अष्टाविंशतिपट्टके । सर्वदेवाख्य सूरिश्च, तत्प च द्वितीयके ॥४०२॥ यशोभद्राख्य सूरिश्च, तत्पी परिराजते । मुनिचन्द्राख्य सरिश्च, तत्पट्टपरिवर्धकः ॥४०३॥ अजितदेवस रिश्च, मुनिचन्द्रान्वये खलु । विजयसिंहाख्य सूरिश्च, अजितदेवपट्टके ॥४०४॥ सोमप्रभाख्य सूरिश्च, तत्पट्टपरिदीपकः । अनुक्रमेण ते ज्ञेयाः, सूरयो वटगच्छके ॥४०॥ षष्ठं निर्गन्धसाधूनां, तपोगच्छाभिधानकम् । कथं केन च सम्प्राप्त, तत्स्वरूपं निगद्यते ॥४०॥ सोमप्रभाख्य सूरीणां, मणिरत्नाख्य सूरयः । लघुभ्रातृत्वरूपेण, प्रसिद्धा जैनशासने ॥४०७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________
wwmmmmmmmmmmmm
[७०४]
योगतच्छिष्यातीवयोग्याश्च, परं संवेगधारकाः। जगचन्द्राभिधानेन, विख्याता वीरशासने ॥४८॥ योग्यानां योग्यतां ज्ञात्वा सोमप्रभाख्य सूरिणा । आचार्यत्वे नियुक्तास्ते, जगच्चन्द्राख्य सूरयः ॥ तदानि वटगच्छेषु, क्रिया शैथिल्यमागतम् । तदुद्धारस्य कर्तव्ये, जिज्ञासा मानसे बहु ॥४१०॥ सहयोगं विना नैव, कार्यसिद्धिः प्रजायते । भुवनचन्द्रसूरीणां, संयोगः कार्यसाधकः ॥४११॥ तत्सहायेन तैरेव, क्रियोद्धारश्च कारितः। शिष्यदेवेन्द्रसूरीणां साहाय्यं परमं मतम् ॥४१२॥ शुद्धक्रियां च कुर्वन्ति, आचाम्लं च तपस्तथा । अभिग्रह नवीनं च, निरन्तरं प्रजायते ॥४१३॥ अनेकाचार्यवर्या श्च, ज्ञात्वा सवेगरूपकान् । तद्धस्ते सूरिभिस्तैश्च, क्रियोद्धारश्च कारितः ॥४१४ अमात्य वस्तुपालश्च, तेजपालमहाशयः । जैनशासनमध्ये च, पुष्पदन्तो ह्यपूर्वकौ ॥४१॥ शत्रुजयस्य यात्रायां, एकादशश्च च सूरयः । भिन्नगच्छसमुत्पन्ना, निमन्त्रिता महाशयः ॥४१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________
wrmirmwarrammar
1-4447w
-प्रदीप
[७०५] जगच्चन्द्राख्य सरिश्च, मुख्यतया विराजते।। अनेककार्यकर्तृत्वं, सूरिषु च निगद्यते ॥४१७॥ घोरतपस्विनस्तांश्च, परमत्यागिनस्तथा । मेदपाटनरेशेन, जैत्रसिंहेन तत्क्षणे ॥४१८॥ तान् दृष्ट्वा च तपा रूपं पदं तेन समर्पितम् । दीक्षाग्रहणकालादारभ्य कण्ठगतासुकम् ॥४१६॥ आचाम्लाख्य तपश्चर्य, कृतं कल्याणहेतवे । मेदपाटनरेशश्च, जातः परमभक्तराट् ॥४२०॥ राजसभासु तैरेवः दिगम्बरीय वादिनाम् । द्वात्रिंशद्गणनानां च, जित्वा वादे सुयुक्तितः ॥४२१ हीरकवदभेद्यत्वाद्य क्तीनां वादकालिके । हीरलेति च सोपाधिः, प्राप्तश्च राजसंसदि ॥४२२॥ मेदपाटनृपाश्चैव, मन्यन्ते बहुभक्तितः। वटगच्छस्य सन्नाम, सरितश्च तपोऽभिधम् ॥४२३ अद्यावधि च तन्नाम, वर्तते जैनशासने । उन्नतिः खलु तस्यैव, प्रतिदिनं च जायते ॥४२४॥ जगच्चन्द्राख्यसूरीणां, पट्टे देवेन्द्रसूरयः । महाप्रभावसद्युक्ताः , संजाता जैनशासने ॥४२५॥
Shree Sudhalinaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________
योग
७०६ ]
कर्मग्रन्थादिशास्त्राणां कर्त्तारो भाग्यशालिनः । श्रावक दिनकृत्यानां निर्मातारश्च ते मताः ॥ ४२६ मेदपाटनृपाणां च समरसिंहभूभुजाम् । जयतल्लारूप देवीनां सर्वेषां प्रतिबोधकाः ॥ ४२७॥ सरीणामुपदेशेन, जयतल्लाख्य राज्ञीभिः । चित्रकुटीय दुर्गेषु, पार्श्वनाथस्य मन्दिरम् ||४२८ ॥ निर्मार्पितं च भावेन, सम्यत्तत्वप्राप्तिहेतवे । प्रतिष्ठा सूरिवर्येण, कारिता विधिपूर्वकम् ॥४२६ ॥ गुर्जर देशवास्तव्य, वीरधवलभूपतेः । भक्तिश्च गुरुदेवानामुपर्यतीव जायते ॥ ४३० ॥ अमात्य वस्तुपालोऽपि, जातश्च गुरुभक्तराट् । समरसिंहभूपालैः, सरीणामुपदेशतः ॥ ४३१॥ अमारिपटहोद्घोषः, स्वराज्ये कारितो मुदा । अनेकधर्मकार्याणि कृतानि गुरुबोधतः ॥ ४३२ ॥ महाप्रतापिनस्ते च, जैनशासनदीपकाः ।
जयन्तु गुरुदेवाश्च तादृशा जगती तले ॥४३३॥ तत्पट्ट धर्मघोषाख्याः, सुरयश्च समागताः । मण्डपदुर्गवास्तव्य, पेथड | रूपस्य मन्त्रिणः ॥ ४३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________
-प्रदीप
[७.७] झांझणाख्य कुमाराणां, सूरयः प्रतिषोधकाः । तदुपदेशेन मंत्री च, चतुरशीति मन्दिरम् ॥४३५॥ अनेकपुस्तकागारान्, करोति भक्तिभावतः । प्रतिभाशालिनस्ते च, जैनशासनवर्धकाः ॥४३६॥ सोमप्रभाख्य सूरिश्च, तत्प परिराजते।। सोमतिलकसूरिश्च, तत्पी च समागतः ॥४३७॥ तत्पद भूषयामासुः, देवसुन्दरसरयः। अनेकग्रन्थकर्तारः, अनेकराजबोधकाः ॥४३८॥ सोमसुन्दरसूरिश्च, जयतु पृथिवीतले । देवसुन्दरसूरीणां, पट्टे सोऽपि समागतः ॥४३६॥ मुनिसुन्दरनामानः, सूरयो वीरशासने। तत्पट्ट च समायाताः, धर्मवृद्धिकराश्चते ॥४४०॥ अध्यात्मकल्पद्रौमादिग्रन्थानां कारकाः खलु । सहस्रावधिकर्तारः, महाप्रतापशालिनः ॥४४१॥ मुजफराख्य म्लेच्छानां, गूर्जरे च निवासिनाम् । उपदेशं विधायैव, धर्मप्रभावदर्शितः ॥४४२॥
१-अवधान। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________
योग -
[ ७०८ ]
सुबा दफरखानानां खम्भातपुरवासिनाम् । प्रतिबोधनकर्त्तारः, सूरयस्ते महाशयाः ॥ ४४३ ॥ अद्भुतवादशक्तिं च दृष्ट्वा तैर्यवनैस्तदा । वादिगोकुलषण्डाख्यं पदं तत्र समर्पितम् ॥ ४४४ ॥ दक्षिणविज्ञलोकैश्च, कालीसरस्वतीनामकम् । पदं दत्तं गुरुभ्यश्च, सभासु सर्वसन्निधौ ॥ ४४५॥ शिरोहिराजद्वारा च उपदेशप्रदानतः । अमारिपटहोद्घोषः दापितः स्वीय राजसु ॥ ४४६॥ एवमनेककार्याणां कर्तॄणां च प्रतापिनाम् । सूरीणां हि गुणानां वै स्तुतिं कर्तुं न शक्यते ॥ तत्पट्ट शोभयामासुः, रत्नशेखसूरयः । श्राद्धविध्यादि शास्त्राणां कर्त्तारो जैनशासने ॥४४८ दफरखान पर्षद्यां, बांबी प्रमुखवादिभिः । सम्मील्य गुरुदेवानां, कालीसरस्वतीपदम् ॥४४६ ॥ दत्तं सद्भावपूर्वेण, सहर्षेणैव तत्क्षणे । स्वप्रभावश्च तत्रापि, सूरिभिः परिदर्शितः ॥ ४५० ॥ श्राद्धप्रतिक्रमस्यैव वृत्तिश्च रचिता शुभा ।
श्राद्धविधीय ग्रन्थस्य, वृत्तिश्च विधिकौमुदी ॥४५१
Shree Sudharmaswami Gyanbhandar-Umara, Surat * www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________
-प्रदीप
__७०६] षडावश्यकवृत्तिश्च, चतुसहस्रश्लोकिका । आचारत्वप्रदीपाख्यः, ग्रन्थस्तैरेव निर्मितः ॥४५२॥ हैमव्याकरणे तैश्न, अवचरिवि निर्मिता। प्रबोधचन्द्रवृत्तिश्च, कृतेति परिश्रूयते ॥४५३॥ लक्ष्मीसागरमरिश्च, तत्प च समागतः । लघुवयसि चारित्रं, गृहीत्वा पठनं कृतम् ॥४५४॥ सिद्धान्तचर्चावार्तासु, कौशल्यं प्राप्तवान् खलु । गच्छभेदस्य नाशाय, करोति च परिश्रमम् ॥४५५ राजनगरश्राद्धन, गुरूपदेशदानतः। ज्ञानकोशः कृतस्तेन, हस्तलिखित-पत्रके ॥४५६॥ वस्तुपालस्य रासोऽपि सूरिणा तेन निर्मितः । तादृशगुरुदेवाश्च, जयन्तु जैनशासने ॥४५७॥ सुमतिसाधुसूरिश्च, तत्पट्टे राजते सदा । हेमविमलसूरिश्च, तत्पी च समागतः ॥४५८॥ सूत्रकृताङ्गसूत्रस्य, दीपिका तेन निर्मिता । कवित्वं गुरुदेवे च, राजते नात्रसंशयः ॥४५६॥ हेमविमलसूरीणामानन्दविमलाभिधा; । तत्प सूरयो ज्ञेयाः, धर्मोन्नति विधायकाः ॥४६०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________
योग
mmmmmmmm
[७१०] महातपस्विनस्ते च, क्रियोद्धारस्य कारकाः । त्यागि चारित्रपात्रत्वं, तेषु च परिशोभते ॥४६१ तपस्त्यागप्रभावेन, सौराष्ट्रपतिना खलु । सुरत्राणेन सौराष्ट्र, तद्विहारश्च याचितः ॥४६२॥ जगर्षिमुख्यसाधूनां, विहारस्तत्र जायते । गत्वोपदेशदानेन, प्रभावः परिदर्शितः ॥४६३॥ सूरीणामुपदेशेन, कर्माशाहाख्य श्रावकः। शत्रुजयस्य तीर्थस्य, उद्धारस्तैश्च कारितः ॥४६४॥ नवोपवासकं कृत्वा, अन्त्यावस्थासु सूरिभिः । अनशनं विधायैव, स्वर्गे गच्छन्ति शुद्धितः ॥४६५ तत्पद भूषयामासुः विजयदानसूरयः । खरतरतपोगच्छे, प्राग्जातं वैमनस्यकम् ॥४६६॥ तत्सर्वं तन्महाभागैरन्योऽन्यसहकारतः । शासनवृद्धिकार्याय, विनाशितं च प्रेमतः ॥४६७॥ द्वेषोत्पादकग्रन्धाश्च, गच्छद्वयस्य सन्ति ये। जलाधीनाश्च ते सर्वे, कारितास्तैश्च सूरिभिः ॥ अपूर्वप्रेमवृद्धिश्च, संजाता गुरुयोगतः । जरूपानां सप्तकस्यैव, आज्ञा च सूरिभिः कृता ॥४६६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________
wwwwwww
--प्रदीप
[७११] परस्परं च षन्धुत्वं, वर्धितं सूरिभिस्तदा । जयन्तु गुरुदेवाश्च, तादृशा जैनशासने ॥४७॥ तत्पद दीपयामासुः, हीरविजयसूरयः । लघुवयसि दीक्षां च, गृहीत्वा वीरशासने ॥४७१॥ गुर्वाज्ञां च गृहीत्वैव, देवगिरौ समागताः । तत्रत्य विज्ञपार्वे च, पठनं पुष्कलं कृतम् ॥४७२॥ प्रमाणशास्त्रग्रन्थेषु, ग्रन्थाः षडदर्शनात्मकः अधीताः स्वल्पकालेन, नव्यन्यायः कृतस्तथा ॥४७३ सामुद्रिकं च ज्योतिष्क, साहित्ये संहिता मतिः । नाटकशास्त्रग्रन्थाश्च, अधोताः सूरिभिस्तथा ४७४ सिद्धान्ते पूर्णयोग्यत्वं, सम्प्राप्त गुरुयोगतः । कर्मग्रन्थादिशास्त्राणां, ज्ञानं शुद्ध समादृतम्४७५ यशोगानं च सूरीणां, जैनजैनेतरे तथा । आइनेऽकबरी ग्रन्थे, अबुलफजलेन च ॥४७६। विन्सेण्टस्मिथविज्ञैश्च, स्वग्रन्थेषु स्तुतिः कृता । सर्वविज्ञजनैरेव, प्रशंसाऽतिकृता तदा ॥४७७॥ अपूर्वब्रह्मतेजोभिः, शुद्धपाण्डित्ययोगतः । शुद्धचारित्रयोगेन, प्रभावः प्रमृतो महान् ॥४७८॥
Shree Budharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________
योग
•wriwarraniirir
arrrrrrrrrrrrrrrrrrrrrramawarrrrrrramarriawwarrrrr.
[७१२] सम्राडकबरस्तेषां, संजातो भक्तराट् सदा। धर्मोपदेशतां श्रुत्वा, कृतं कार्यमनेकधा ॥४७६॥ सूरीणामुपशेन, वर्षे षण्मासिकावधि । मांसाहारनिषेधश्च, अक्वरैः सर्वथा कृतः ॥४०॥ निर्दोषपशुपक्षीणाममारित्वं च घोषितम् । शत्रुजयादितीर्थानां, करस्तेन निषेधितः ॥४८१॥ पर्युषणादिने चैव, समस्त भारते खलु । मांसाहार निषेधश्च, कारितः सूरिबोधतः ॥४८२॥ साधूनां विहृतौ विघ्नं दूरीकृतं च भारते । मूरिषु भक्तियोगेन, उपदेशप्रभावतः ॥४८॥ जगद्गुरुपदं तेषामर्पितं भक्तिभावतः । तत्सभासु च नान्येन, सम्प्राप्त तादृशं पदम् ४८४ सर्वजनहितायैव, कार्य कृतमनेकशः। तत्सर्वं परिदृष्टव्यं, सूरीश्वराख्यग्रन्धके ॥४८॥ शासनदीपकेनैव, विद्याविजयवन्धुना। लिखितं स प्रमाणेन, सर्वदेशीय युक्तितः ॥४८६॥
१ सूरीश्चर अने सम्माट् ग्रन्थतः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________
-प्रदीप
[१३] होरविजयसूरीणां सन्नाम भारते खलु । सुवर्णाक्षररूपेण, विद्यते जगतो तले ॥४८७॥ महावीरप्रभूणां च, अहिंसा परिघोषणा । सम्पूर्णभारते चैव, प्रवर्त्तिता च सूरिणा ॥४८॥ भारतीयाश्च राजानः, सूरीणां चरणाम्बुजे । अहोभाग्यं च मन्वाना, आगच्छन्ति च प्रेमतः ४८६ अपूर्वसूरीशौभाग्यमपूर्वविज्ञता तथा । अपूर्वः शिष्यसन्दोहोऽपूर्व सरिवरे खलु ॥४०॥ रोगाक्रान्ते शरीरेऽपि, भैषज्यं नैव सेवितम् । धर्मध्यानं च कुर्वाणाः, सूरयश्च दिवं गताः ४६१ ऊनाख्यग्राममध्ये च, अन्त्या सर्वा क्रिया तदा। कृता श्राद्धन भावेन, सशोकेनैव तत्क्षणे ॥४६२॥ तत्पद भूषयामासुः, विजयसेनसूरयः । प्रभावशालिनस्तेऽपि, धर्मप्रभावकारकाः ॥४६३॥ सूषानां खानखानानामुपदेशस्यदापनम् । तद् द्वारानेककार्य च, कारितं सेनसूरिणा ॥४६४॥ गुरूणां वृद्धभावे च, देशना श्रवणाय च । विजयसेनसूरीणामाहानमकबरैः कृतम् ॥४६॥
Shree SudharmaswamGyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________
[७१४]
योगसरिभिस्तत्र गत्वैव, लाहोराभिधग्रामके। प्रबला देशनाद्वारा, प्रभावोऽपि प्रदर्शितः ॥४९६॥ भूषणाख्यैश्च नग्नाटः, चिन्तामणेश्च सम्मुखे । सूरते च कृतो वादः, तेषां निरुत्तरी कृता ॥४६७ योगशास्त्रस्य चाय कश्लोकस्य बुद्धियोगतः। पञ्चाधिकशतार्थाहि, कृताश्च सूरिभिः खलु ॥४६८ सुमित्ररासग्रन्थश्च, सूरिभिनिर्मितस्तदा । चतुर्लक्षप्रभूणां च, मूर्तीनां शुभयोगतः ॥४६६॥ प्रतिष्ठा च कृता तैर्हि, यात्राऽपि प्रचुरास्तथा । कालीसरस्वतीरूपं, पदं प्राप्तं च तैः खलु ॥५०॥ सम्राडकवरैस्तेषां, दत्तं विशुद्धप्रेमतः । जयन्तु सूरयस्तेऽत्र, भारते जैनशासने ॥५०१॥ कादम्बर्याख्य साहित्ये, स्फुटा टीका च निर्मिता। भानुसिद्धीन्दुविज्ञाभ्या, बुद्धिचातुर्ययोगतः ॥५०२॥ विजयहीरसूरीणां, विज्ञान्तेवासिनः समे । सर्वे च ग्रन्थकर्तारः, सर्वे सिद्धान्तपारगाः ॥५०३॥
१-भानुचन्द्रसिद्धिचन्द्राभ्यां ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________
-प्रदीप
[७१५] तत्प दीपयामासुः, विजयदेवसूरयः । मण्डपदुर्गमध्ये च, तेषामामन्त्रणं भवेत् ॥५०४॥ जहांगिरेण समाजा, आहूय देशना श्रुता । महातपापदं तेन, अर्पितं बहुहर्षतः ॥५०॥ जगतसिंहराणानां, योगेन ह्यु दयेपुरे । धर्मोपदेशकं दत्वा, अहिंसा च प्रवर्तिता ॥५०६ महाभागाश्च ते ज्ञेया, शुद्धधर्मोपदेशकाः । जयन्तु भारते ते च, जैनशासनवर्धकाः ॥५०७॥ तत्कालीन महाभागाः, यशोविजयविज्ञकाः । अपूर्वप्रतिभा युक्ताः, महाप्रतापशालिनः ॥५०८॥ अपूर्वयोगिनस्ते च, अपूर्वत्यागिनस्तथा । अपूर्वशक्तियुक्ताश्च, सर्वापूर्वसमन्विताः ॥५०६॥ द्वितीय हरिभद्राश्च, अवतीर्णाः क्षमातले । यादृशी प्रतिभा तेषां, नान्यत्र तादृशी खलु ॥५१० प्रौढयुक्तिभृतास्तेषां, ग्रन्थाश्च जैनशासने । सर्वविषयशास्त्राणि, कृतानि तर्कशैलितः ॥५११ तत्समं नैव पाण्डित्यं तत्काले नैव भारते। तादृशा जैनध च, न सन्ति पण्डिता खलु ॥५१२
Shree SuanamaswamiGyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________
योगrrrrrrrrrrrr...
rrrrrrrrrrrrrrrrrrrrr
[७१६ ] संस्कृते प्राकृते चैव, गौर्जरे मरुदेशीये । भाषावादे च ग्रन्था स्युरनेके जैनशासने ॥१३॥ काश्यां द्वादशवर्षान्तं, स्थित्वा दर्शनशास्त्रकम् । नव्यप्राचीनग्रन्थाश्च, अधीता गुरुयोगतः ॥५१४॥ वादविषयशक्तिश्च, काश्यां प्रौढाश्च दर्शिता। न्यायविशारदं चैव, पदं प्राप्त च तत्र वै ॥५१५॥ रहस्यपदयुक्तानां, अष्टाधिकशतं खलु । ग्रन्थाश्च निर्मितास्तैश्च, प्रौढयुक्तिसमन्विताः ।५१६ अपूर्वतत्त्वचर्चा च, अपूर्वबुद्धियोगतः। अनेकवादग्रन्थाश्च, रचितास्तेर्महात्मभिः ॥५१७॥ सर्वविषयसाहित्य, निर्मितं प्रौढयुक्तितः। जैनशासनधूग च, ऊढा तेन महात्मना ॥५१८॥ जैनदर्शनमध्ये च, तत्समा नैव साधवः । विद्यन्ते विज्ञवर्याश्च, अतो धन्याश्च ते खलु ॥ दिगम्बरादियुक्तीनां, खण्डनं विहितं महत् ।। अध्यात्ममतशास्त्रे च, दृश्यतां तत्त्वकांक्षिभिः॥ तादृशाः साधनश्चैव, जयन्तु जगती तले। अस्माकं वन्दनं तेषां, भवतु च पुनः पुनः ॥५२१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________
•
- प्रदीप
विजय सिंह सूरिश्व, विजयदेवपट्टके । क्रमेणैव समायातः, वीरधर्मस्य शासने ॥ ५२२॥ तदानिं च क्रिया काण्डे, शैथिल्यं हि प्रवेशितम् । तन्निराशाय यत्नोऽपि, सत्यविजयसाधुभिः ॥५२३ क्रियोद्धारस्य कार्येषु, नैकसाधुसमागताः । आत्मकल्याणकर्त्तव्ये, केषामिच्छा न जायते ॥ ५२४ वैरागी महातपस्वी च, सत्यविजय साधुराट् । अपरसाधुसाहाय्यात्क्रियोद्धारश्च कारितः ॥ ५२५॥ ततः संवेगि नाम्ना च, आत्मार्थिनश्च साधवः । जैनशासनमध्ये च, विख्याता धर्मयोगतः ॥ ५२६॥ कर्पूरविजयश्चैव, तत्पट्ट परिराजते ।
[ ७१७ ]
क्षमाविजयसाधुश्च, ज्ञातव्यस्तदनन्तरम् ॥५२७॥ जिनविजय भव्यात्मा, ततोऽनुराजते खलु । तपोगच्छे च विख्यातः जयतु भुवि मण्डले ॥ ५२८ उत्तमविजयस्तस्मात्पद्मविजय पण्डिताः । रूपविजयसाधुश्च, कीर्त्तिविजयसाधुराट् ॥ ५.२६ ॥ कस्तूरविजया ज्ञेयाः, पूज्याश्च भाग्यशालिनः ।
मणि विजयशौभाग्यं वर्तते सर्व साधुषु ॥ ५३०||
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________
योग
[७१८] महायोगित्वरूपेण, प्रसिद्धाः शक्तिशालिनः । जगत्पूज्या महाभागाः, मणिविजयसाधवः ॥५३१ अशीतिषटशतं तेषां, शिष्यप्रशिष्यरूपतः। विद्यन्ते साधवश्चैव, चिन्तामणिस्वरूपकाः ॥३२॥ तपोगच्छेषु ते ज्ञेया, सर्वेषां गुरवः खलु । संविज्ञेषु शिरोभूताः, जयन्तु गुरवः सदा ॥५३३॥ बुद्धिविजयशिष्याश्च, मुख्यास्तेषां च सम्मताः । दुलवाग्रामसंजाताः, पाञ्चालदेशमध्यके ॥५३४॥ । टेकसिंहपितुर्नाम, कर्मादे मातृनामकम् । बटेलसिंह तन्नाम, प्राकाले गुरूणां मतम् ॥५३५॥ संवेगि शुद्धसाधूनां, तद्देशे विरहो महान् । अतो लुम्पकसाधूनां, दीक्षां पार्वेऽगृहीत्तदा ।५३६ बुटेरायश्च तन्नाम, ढं ढकेन नियोजितम् । जिनागमविलोकेन, जिनपूजां विलोकिता ॥५३७॥ गुरुपाद्यं च सम्प्रोक्तं, कथं मूतिर्न मन्यते । सूत्रेषु बहवः पाठाः, विद्यन्ते च पदे पदे ॥५३८॥ गुरुणा क्रोधदृष्ट्या च, पूजा प्रोक्ता न कुत्रचित् । इत्युक्ते गुरुणा पाठाः, दर्शिता गुरुसम्मुखे ।।५३६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________
-प्रदीप
[७१६] मूलचन्द्रेण तत्काले, दीक्षा च गुरुसंनिधौ। गृहीता भक्तिभावेन, ततो जाताः सहायकाः ॥ गुरुपार्वे च तत्पाठाः, दृष्टा यदा च तेन वै । मूलचन्द्रमहाराज, गुरूणां कथितं तदा ॥५४१॥ दाक्षिण्यं नैव कर्त्तव्यं, त्यज्यतां मुखवस्त्रिका सदा मुखेषु पाटाश्च, अश्वानामेव शोभते ॥५४२ प्रत्युताऽसंख्यजीवानां, हिंसा च जायते ध्रुवम् । .तस्याश्च त्रोटनं श्रेष्टं, इत्युत्तवा तैश्च वोटिता ॥ कृपाराममहाभागाः, शुद्धवैराग्यमूर्तयः । आत्मकल्याणकर्त्तव्ये, गुरून् गवेषयन्तिते ॥५४४॥ मातुलमूलचन्द्राणां, योगश्च मीलितस्तदा । तद् गुरुनिकटे तैश्चा, दीक्षा च स्वीकृता शुभा ॥ वृद्धिचन्द्रं च तन्नाम, योजितं गुरुणा तदा। ततः पाञ्चालदेशेषु, मूर्तिपूजोपदेशनम् ॥५४६॥ विशुद्धश्रावका नैके, संजाताश्चोपदेशतः। विहृत्य तैर्महाभागैः, शुद्धधर्मश्च दर्शितः ॥५४७॥ सिद्धाचलस्य यात्रायै ततश्च साधवस्त्रयः । यात्रां कृत्वा चतुर्मासं, कृतं भावपुरे वरे ॥५४॥
Shree Sudharmaswami Gyan nandar-Umara, Surat
www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________
योग
[ ७२० ]
"
राजनगरमध्ये च, आगत्यैव ततः परम् । मणिविजयपार्श्वे च शुद्धदीक्षा च याचिता ॥५४६ संवेगि साधवो जाता:, त्रयोऽपि गुरुसामीपे । वुटेरायस्य सन्नाम, बुद्धिविजयरूपकम् ||५५०|| मुक्तिविजयसन्नाम, मूलचन्द्रस्य स्थापितम् । वृद्धिविजयरूपं च वृद्धिचन्द्रस्य योजितम् ॥ ५५९ ॥ शिष्यौ तौ द्वौ च संजातौ बुद्धिविजययोगिनां । परं संवेगतां प्राप्य, हर्षितौ तौ महाशयौ ॥ ५५२ आत्मारामादि पूज्यैश्च पश्चात्पाञ्चालमध्यके । शुद्धधर्मप्रचारश्च विहितः पुष्कलस्तदा ॥ ५५३ ॥ अष्टादशमहाभागैः, साधुभिः सह तत्र वै । आत्मारामैश्च पाटानां त्रोटनं च कृतं महत् ५५४ गुर्जर देशमध्ये च, आगतास्ते महाशयाः । बुटेरायगुरूणां च, दीक्षां पार्श्वगृहीत्तदा ॥ ५५५ शुद्धसंवेगिनो जाताः, परमवैराग्यमूर्त्तयः । शुद्धधर्मप्रचाराय गुरूणां ते सहायकाः || ५५६ || नीतिविजयपूज्याश्च, क्षान्तिविजयसाधवः ।
बुद्धिविजय साधूनां शिष्याश्च ते समे मताः ॥ ५५७
Shree Sudharmaswami Gyanbhandar-Unhara, Surat www.umaragyanbhandar.com
-
Page #71
--------------------------------------------------------------------------
________________
-प्रदोष
[७२१] संवेगिसाधवश्चैव, अतोवृद्धिं गताः खलु । प्रचारकार्यकर्त्तव्ये, सर्वे ते च सहायकाः ॥५५८॥ विजयानन्दं सूरोणां, पांचालश्च प्रदेशकः । शुद्धश्रद्धाप्रवेशाय, अर्पितो गुरुभिस्तदा ॥५६॥ पूज्यानां मूलचन्द्राणां, राजनगरमध्यके । प्रचारो विहितः शुभ्रः, आशातीतश्च तत्क्षणे ।५६० पूज्यानां वृद्धिचन्द्राणां, काठियावाडमध्यके । अनेकधा प्रचारस्य, कार्य च विहितं शुभम् ॥५६१॥ नीतिविजयपूज्यैश्च, सुरतादिप्रदेशके । धर्मप्रचारकार्य च, कृतं शासनरागतः ॥५६२॥ क्षान्तिविजयसत्साधुः, महातपोविधायकः । वैराग्यपुष्टिव्याख्याभिः, प्रचारः कृतवान् खलु ५६३ तदा सुसंपशान्तिश्च, अपूर्वा परिदृश्यते । अपूर्वबन्धुभावत्वं, परस्परं प्रजायते ॥५६४॥ साहित्यवृद्धिकार्य च, साधुभिश्च कृतं तदा । नूतनग्रन्थनिर्माणं, विजयानन्दसूरिभिः ॥५६५॥ प्रज्ञापनाऽऽख्यसूत्रस्य, टीप्पनं वृद्धिचन्द्रकैः । पूज्यश्च विहितं ज्ञेयं, स्वास्यायो विहितो महान् ५६६
Shree Sudharnaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #72
--------------------------------------------------------------------------
________________
[ ७२२]
योगपरिचयो विशेषेण, वृद्धिचन्द्रमहात्मनाम् । कार्यते सुखषोधाय, शान्तिसाम्राज्यसिद्धये ॥५६७ जगद्गुरुत्वयोग्यत्वं, दृश्यते पादपंकजे । शान्तरसमयीमूर्तिः, तेषां च प्रविलोक्यते ॥५६८ साधूनां शान्तिदातारः, पक्षपातविवर्जिताः। गुणज्ञा गुणदृष्टारः, दृश्यन्ते नैव तादृशाः ॥५६६॥ क्रोधस्यावसरो नैव, तेषां पार्वे च कर्हि चित् । देवाणुप्रियशब्देन, मुनीन् जल्पन्ति सर्वदा ॥५७०॥ साधुजीवनपर्यन्तं, मिथ्यादुष्कृतकस्य वै। दातव्येऽवसरो नैव, तेषां कदापि जायते ॥५७१॥ विचार्यशुद्धवक्तारः, कुर्वन्ति नैव चापलम् । हितमितादिशब्देन, युक्तं जल्पन्ति ते तथा ५७२ तत्काले सर्वसाधूनामांधिपत्यं च राजते। क्लेशवार्ता न कर्हि चित्तत्समीपे भवेत् खलु ॥५७३॥ महाक्रोधिमनुष्याश्च, यदाऽऽगच्छन्ति नैकटे । शान्तमूर्ति च तं दृष्ट्वा, तेऽपि गच्छन्ति शान्तिताम् तख्तसिंहाख्यभूपाला, आगत्य गुरुसन्निधौ । एकदा तेऽपि जल्पन्ति, दृष्ट्वा च पादपंकजम् ५७५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #73
--------------------------------------------------------------------------
________________
-प्रदीप
[२३] भवतां चेन्न दीक्षा स्यात् संसारे भूपतिस्तदा । अहो गुरुषु सौभाग्यं, अद्भुतं परिदृश्यते ॥५७६॥ साधूनां पाठनं सम्यग्देशना मेघगम्भीरा । व्याख्याशैली हि चापूर्वा, गुरुषु विद्यते सदा ५७७ शिष्यसन्दोहबाहुल्यं, प्रज्ञाशक्तिसमन्वितम् । तादृशं नैव केषाश्चिद्यादृशं विद्यते गुरौ ॥५७८॥ विद्वत्ता खलु चाद्यापि, गुरूणां समुदायके । अन्येषां समुदायेषु, तादृशी नैव विद्यते ॥५७६॥ एकादशसु शिष्येष, मध्ये द्वौ श्रेष्ठपण्डितौ । वादिशिरोमणी तौ च, महाप्रभावशालिनौ ॥५८० प्रथमो हि गुरुदेवः स्यान्नेमिसूरिद्धि तीयकः । स्वपरशास्त्रज्ञातारौ, सिद्धान्तेषु महोदधी ॥५८१॥ परे सिद्धान्तज्ञातारः, स्वात्मीयधर्मपोषकाः । गम्भीरविजयाद्याश्च, संस्कृतग्रन्थकारकाः ॥५८२॥ केवलविजयाश्चाद्याः, वैराग्यरसपोषकाः । भद्रभावेन संयुक्ताः, साधद्वयसमन्विताः ॥५३॥ गम्भीरविजयानां च, साभवः सप्तसंख्यकाः। स्वयं पण्डितवर्याश्च, सिद्धान्तपारगामिनः ॥५४॥
Shree Sudharmaswami Gyanbhandar-Omara, Surat
www.umaragyanbhandar.com
Page #74
--------------------------------------------------------------------------
________________
योग
[७२४] उत्तमविजया ज्ञेयाः, उत्तमधर्मदेशकाः । साधुत्रयसमायुक्ताः, गुरुभक्तिपरायणाः ॥५८५॥ चतुरविजयाः पूज्याः, शान्तस्वभावताजुषः । वैराग्यरसतायुक्ताः, जैनसिद्धान्तज्ञायकाः ॥५८६॥ द्वादशसाधुसंयुक्ताः, तपोधर्मप्रदर्शकाः । आत्मकल्याणमार्गेषु, विचरन्ति च ते सदा ॥५८८॥ राजविजयपूज्याश्च, सदा वैराग्यदीपकाः । भावविजयसाधुश्च, तपस्विनां शिरोमणिः ॥५८८॥ हेमविजयसाधूनाममोघधर्मदेशना । वैराग्यधासनारूपा, दससंख्याकसाधवः ॥५८६॥ विजयनेमिसूरीणां, षष्टिसंख्याकसाधवः । अनेके पण्डितास्तेषु, अनेके ग्रन्थलेखकाः ॥५६०॥ प्रेमविजयसाधूनां, शिष्यत्रयी च वर्तते । अपूर्वप्रेमभावश्च, विद्यते च महात्मनाम् ॥५६१॥ शान्तमूर्त्तित्वरूपेण, करविजयस्य वै । ख्यातिश्च जैनधर्मेषु, अपूर्वत्यागभावतः ॥५६२॥ साधूनां सप्तसंख्याः स्याद्भाषाग्रन्थस्य लेखकाः। प्राचीनपुस्तकानां च ते स्वयमनुवादकाः ॥५६३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #75
--------------------------------------------------------------------------
________________
-~-
~
~
-
~
~~
-~
-प्रदोष
[७२५] वृद्धिचन्द्रगुरूणां च, अतीव प्रेमपात्रता । सम्पादिता च यैरेव, तेषां च शिष्यसम्पदा ॥५६॥ विशेषरूपतश्चैव, निगद्यते प्रसङ्गतः। सर्वदिग्गामिनः शिष्याः, परेषां नैव सन्ति वै ५६५॥ विजयधर्मसूरीणां, गुरूणां किमु कथ्यते । वर्णनं तद्गुणानां च, जैनजैनेतः कृतम् ॥५६॥ षोडशभिन्नभाषायां, गुरूणां जीवनं खलु । विभिन्नदेशविज्ञैश्च, लिखितं स्वीयभक्तितः ५६७॥ प्रौढजीवनवादश्च, संस्कृते प्राकृते च वै । मंगलविजयाद्यश्च, साधुभिश्च विनिर्मितः॥५६॥ गौर्या चैव भाषायां, गद्यपद्यात्मकानि च । निर्मिताऽनेकरूपाणि, विद्यन्ते जीवनानि च ॥५६६॥ आदर्शसाधु ग्रन्थानां, हिन्दीभाषासु निर्मितिः।। फाञ्चेटलीयभाषायां, जीवनं विद्यते तथा ॥६००॥ आङ्गलसिंहलीयासु, भाषासु नैकजीवनम् ॥ लिखितं विभिन्न विज्ञैश्च, सर्वेषां बोध हेतवे ॥६०१॥ महाराष्ट्रीयभाषायां, कन्नडासु तथैव च । षड्भाषायां च ग्रंथोऽपि लिखितः साधुभिः खलु ॥ aese-व्या० सा. तीर्थ तर्कालङ्कारहिमांशुविजयैः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #76
--------------------------------------------------------------------------
________________
योग
[७२६] इत्येवं भिन्नभाषायां, विज्ञैश्च भक्तिभावतः। जीवनं लिखितं ज्ञेयं दृश्यतां सर्वसज्जनः ॥६०३॥ शिष्याश्च प्रौढविद्वांसः, सर्वदेशविहारिणः । सर्वदेशीयभाषायां, विज्ञाश्च परिकीर्तिताः ॥६०४॥ शासनरागरक्ताश्च, शुद्धचारित्रपालकाः। वादिशिरोमणीभूताः, वीरशासनपोषकाः ॥३०॥ विजयेन्द्राऽऽख्यसरिश्च, मुख्यशिष्यश्च सम्मतः । इतिहासादिशास्त्रेषु, पाण्डित्यं परिवर्तते ॥६०६॥ अनेक ग्रन्थकर्तृत्वं, भिन्न भाषासु ज्ञायताम् । पञ्चशिष्यस्य सम्पत्तिः, सूरीणां परिजायते ॥६०७॥ मङ्गलविजयश्चैव, द्वितीयः परिकीर्तितः । पाठकपदसंयुक्तः, न्यायतीर्थविशारदः ॥६०८॥ अनेकग्रन्थकर्ता च, भाषायां संस्कृते तथा । प्रभाकरेण संयुक्तः, नैकदेशेविहारवान् ॥६०६॥ सम्मेतशिखरादीनां, तीर्थानां समुद्धारकः । बङ्गे सराकजातोनामुद्धारे च समुद्यतः ॥६१०॥ शिष्योऽपि तादृशस्तस्य, सर्वकार्यसहायकः। गुरुष भक्तिरागरच, सर्वदा परिदर्शकः ॥६११॥
Shree Suanarmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #77
--------------------------------------------------------------------------
________________ -प्रदीप [727 ] कीर्तिविजयश्चैव, सिद्धान्तपरिपाठकः / स्वाध्यायध्यानकर्ता च, श्रावकान् प्रतिबोधकः // रत्नविजययोगीन्द्रः, योगकार्ये सदा रतः / ग्रन्थपञ्चविनिर्माता, शुद्धचारित्रपालकः // 613 // भक्तिविजयपंन्यासः जैनसिद्धान्तज्ञायकः / त्रिंशचशिष्यसंयुक्तः, गौर्जरे च विहारवान् // सिंहविजयसाधुश्च, आत्मधर्मगवेषकः / कर्मग्रन्थादिशास्त्राणामभ्यासी सर्वदा खलु // 615 // विद्याविजयसत्साधुः, जैनशासनदीपकः / व्याख्यानवारिधिश्चैव, जैनसाहित्यलेखकः // 616 // अनेकग्रन्थनिर्माता, ग्रन्थाश्च सर्वदेशीयाः। पञ्चविंशतिसंख्याकाः, ग्रन्थानां निर्मितीकृताः // शिष्योऽपि तादृशो ज्ञेयः सर्वदर्शनज्ञायकः / ग्रन्थपञ्चककर्तृत्वं, तस्मिंश्च विद्यते खलु // 618 // न्यायविजयसाधुश्च, महाविज्ञश्च सम्मतः / प्रखरतार्किकः सोऽपि, प्रौढग्रन्थविधायकः // 31 // अपूर्वा प्रतिभा तस्य, व्याख्यानकारको महान् / शुद्धसांत्वनशक्तिश्च, तत्रैव विद्यते तथा // 20 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #78
--------------------------------------------------------------------------
________________
योग
[ ७२८] महेन्द्रविजयश्चैव, शुद्धचारित्रपालकः । ज्ञानध्यानसमायुक्त:, भक्तिभावसमन्वितः ॥२१॥ गुणविजयसाधुश्च, चारित्रे दृढरागवान् । गुरुभक्तिसमायुक्तः, त्यागभावेषु तत्परः ॥६२२॥ जयन्तविजयश्चैव, शान्तमूर्तिः प्रसिद्धभाक् । वैराग्यवासनायुक्तः, क्रियासु कमैठः सदा ॥२३॥ प्राचीनतत्त्ववेत्ता च, ग्रन्थसप्तककारकः । शिष्योऽपि गुरुभक्तश्च, सोऽपि ग्रन्थविधायकः ॥ देवेन्द्रविजयः साधुः स्पष्टवक्ता निगद्यते । चारित्रगुणरक्तः स्याद् गुरुध्यानपरायणः ॥६२६॥ धरणेन्द्राख्यसाधुश्च, भजनानन्दकारकः । गौर्जरे विहृतिस्तस्य, क्रियाकाण्डेषु तत्परः ॥६२६ इत्येवं शिष्यसम्पत्तिः, गुरूणां परिजायते। प्रशिष्या नैकसंख्याकाः, वोरशासनसम्मताः ॥ प्रशस्तिकारकेनापि, जैनतत्त्वप्रदोपकम् । व्युत्पत्तिवादटीका च, शक्तिवादस्य टीप्पणम् ॥ नयप्रदीपग्रन्थश्च, व्याकृतिधर्मदीपिका । योगप्रदीपशास्त्रं च, योगस्य प्रतिपादकम् ॥६२६॥
१ धर्मदीपका व्याकरणम Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #79
--------------------------------------------------------------------------
________________
-प्रदीप
[२६] आदर्शभूतिनामाख्यं, गुरुदेवस्य जीवनम् । वीरपट्टावलिश्चैव, प्रशस्तिरूपतः खलु ॥६३०॥ नवसंख्याकग्रन्थाश्च, संस्कृते निर्मितास्तथा । हिन्दीभाषासु चैकः स्यात् पदार्थव्यवस्थापकः ॥६३१ तत्त्वाख्यानस्य द्वौ भागौ, पूर्वोत्तरार्द्ध भेदतः। षड्दर्शनस्य तत्त्वानां, समालोचकतायुतौ ॥६३२ आदर्शदीपिका साऽपि, जैनतत्त्वनिरूपिका । विस्तृतरूपतः सर्वतत्त्वानां परिदर्शिका ॥६३३॥ सप्तभङ्गी प्रदीपश्च, सप्तभङ्गप्ररूपकः । स्याद्वादापूर्वशैली च, दर्शकः सोऽपि सम्मतः ॥६३४ द्रव्यप्रदीपग्रन्थे च, षडद्रव्यस्य प्ररूपणम् । श्रद्धाप्रदीपग्रन्थे च, सम्यत्त्वप्रतिपादनम् ॥६३॥ धर्मजीवनदीपे च, गरूणां रासरूपतः । चरित्रं लिखितं तत्र, विज्ञेयं धर्मकांक्षिभिः ॥६३६॥ धर्मप्रदीपग्रन्थेषु, स्तवनानां निरूपणम् । अध्यात्मरूपतो ज्ञेयं, भिन्नविषयकं तथा ॥६३७॥ गहूंलीसंग्रहश्चैव, गुरुस्तुतिनिरूपकः । आन्ध्रदेशीयभाषासु, व्याकृतिकोषनिर्मितिः ॥६३८
३
४
१ तेनगभाषासु Shree Sudharmaswati Gyandnandar-Umara, Surat
www.umaragyanbhandar.com
Page #80
--------------------------------------------------------------------------
________________
[ ७३० ]
लुम्पक मतदीपाख्य, मूर्त्तिमण्डनरूपकः । मुखे च वस्त्रिकायाश्च, बन्धनस्य निषेधकः ||६३६॥ ग्रन्थानां विंशति संख्या, कृता प्रशस्तिकारकैः । द्रव्यानुयोगपूर्णत्वं दृश्यते च पदे पदे ॥ ६४० ॥
"
न्यायशैलीधृता तत्र, युक्तिशून्यं च नो भवेत् । सर्वेषां सुखबोधाय, निर्मिता शुद्धभावतः || ६४१ ॥ योगप्रदीपशास्त्रेषु, वीरपट्टावलौ तथा । यदशुद्ध च ज्ञातं स्याद्विशोध्य परिदर्श्यताम् ६४२ शास्त्रविरुद्ध दोषश्चेत् प्रमादप्रेषदोषतः ।
खलना यदि चेत्तर्हि, मिथ्यादुष्कृतता भवेत् ॥६४३ गुप्तिनवनिधानेन, नवधा ब्रह्मचर्यकैः ।
युक्ते खे वत्सरे वीरविभोः कैवल्यस्थानके ॥ ६४४॥ माघशुक्ल द्वितीयायां योगप्रदीपशास्त्र के । ग्रन्थान्ते च कृता ज्ञेया, प्रशस्तिर्वोरशासने ॥६४५ || गौर्जराभिधदेशेषु, वटपद्रीय राज्यके । लींचग्रामे समुत्पन्नैः, मङ्गलविजयैः कृतः ॥६४६ ।। योगप्रदीप ग्रन्थश्च निर्मितो ज्ञानहेतवे । तत्समाप्तौ समाप्तिश्च, ग्रन्थस्य परिज्ञायताम् ॥३४७॥
योग
१ ढुंढकमत प्रदीप ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #81
--------------------------------------------------------------------------
________________
-प्रदीप
[७३१] इति शास्त्रविशारदजैनाचार्यजङ्गमयुगप्रधानजगत्पूज्य श्रीविजयधर्मसूरीश्वरशिष्येण न्यायविशारदन्यायतीर्थोपाध्यायमङ्गलविजयेन विरचिते योगप्रदीपग्रन्थे भगवत्सुधर्मस्वामित
आरभ्य गुरुदेवशिष्यप्रशिष्यपयन्तवर्णनाऽऽख्यवीरधर्मपट्टावलि रूपा प्रशस्तिः समाप्ता । तत्समाप्तोच ग्रन्थसमाप्तिः प्रजायते ॥ ॥ ॐ शान्तिः शान्तिः ॥
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #82
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #83
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #84
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com