________________
rrrrrr
wwwxxx.ru
[६६.]
योगजगत्कल्याणरूपं तन्मत्वा संघेन रक्षितम् । पठित्वा नैकभव्याश्च, मोक्षमार्गे प्रयान्ति वै ॥२०॥ प्रभवस्वामिनः पट्टे, शय्यंभवो महामुनिः । श्रुतकेवलितां प्राप्य, व्यहरच्च महीतले ॥२१॥ सूरेः शय्यंभवस्यैव, पट्टेऽभूच्छ तकेवली। यशोभद्राख्यसूरिश्च, प्रतापिसूर्यसन्निभः ॥२२॥ तुङ्गिकायनगोत्रीयः, सर्वलब्धिसमन्वितः । अनेकभव्यजन्तूनां, बोधको दोषरोधकः ॥२३॥ सम्भूतिविजयाख्यश्च, तत्प? शान्तसेवधिः । माढरगोत्रसम्भूतः, सम्पूर्णश्रुतपारगः ॥२४॥ प्राचीनगोत्रसंजातः, भद्रबाहुमहामुनिः । नैकागमेषु नियुक्तीः, कृतवान् बुद्धियोगतः ॥२५॥ कल्पसूत्राख्यसूत्रं च, उद्ध तं दृष्टिवादतः। संघोपद्रवनाशाय, स्तोत्रं व्यरचयत्तथा ॥२६॥ उपसर्गहराख्यं च, जगज्जन्तुहितावहम् । महास्तोत्रं कृतं येन, शीघ्र दुरितनाशकम् ॥२७॥ तस्मै महामुनीन्द्राय, नमः श्रीभद्रबाहवे । रक्षणं जैनधर्मस्य, कृतं च मुनिना तदा ॥२८॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.amaragyanDhandar.com