________________
-प्रदोप
। ६६१]
सम्भूतिविजयस्यैव, पट्टे साधुशिरोमणिः । गौतमगोत्रसम्भूतः, स्थूलभद्रो महामुनिः ॥२६॥ पाटलिपुरवास्तव्यः, शकटालाख्यमंत्रिणः । पुत्रः कोशागृहे वासी, पितृमृत्योरनन्तरम् ॥३०॥ मन्त्रिमुद्राप्रदानाय, नन्दराजेन तत्क्षणे। आहूतः स्थूलभद्रोऽसौ, तन्मुद्रा ढौकिता तदा ॥३१ तां दृष्ट्वा स्थूलभद्रेण, चिन्तितं मानसे निजे । राज्योन्मादवशेनैव, पितृणां मृत्युता खलु ॥३२॥ कणे जप प्रभावेन, राज्ञां च मतिमान्यतः। पितृणां मृत्युता जाता, ममापि सा कथं न स्यात् ॥ अतो मृत्युनिरोधाय, त्यत्तवा वेश्यानिवासता। मौनं विधाय तत्स्थानाद्विचाराय गतस्ततः ॥३४॥ दास्यामि चोत्तरं पश्चान्मानसे कृतनिश्चयः । सम्भूतिविजयाख्यश्च, सम्मुखे मीलितो गुरुः ॥३५ महामुनिं च तं दृष्ट्वा, स्वान्ते च चिन्तितं तदा । मृत्युनिरोधकार्याय, समर्थोऽयं मुनीश्वरः ॥३६॥ शरणं तस्य चेन्मे स्यान्मम श्रेयस्तदा भवेत् । इत्येवं मानसे मत्वा, दीक्षायै प्रार्थना कृता ॥३७
Shres Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com