SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ [२] योगयोग्यजीवं परिज्ञाय, गुरुणा दीक्षितः किल । राजसभा समागत्य, धर्मलाभं प्रदत्तवान् ॥३८॥ शोचितो. राजप्रश्नश्च, लोचितमुत्तरं कृतम् । तं श्रुत्वा मानसे स्वीये, राज्ञा च परिचिन्तितम्॥३६ अहो ! चैतस्य दाढ्यं तदहो मानसनिश्चयः। अहो ! वैराग्यपुष्टित्वं, कामरागस्य मन्दिरे ॥४०॥ इत्येवं स्तुतिश्लाघां च, मुहुर्मुहुः करोत्यसौ । तत्काले राजहाच, निर्गतः शान्तसेवधिः ॥४१॥ कोशाया प्रतिबोधाय, चातुर्मासाय याचनाम् । करोति गुरुसाम्मुख्ये, स्थूलभद्रो महामुनिः ॥४२ योग्यस्य योग्यतां ज्ञात्वा, गुरुणा स्वीकृतिः कृता । गतः कोशागृहे साधुः, चित्रशालां च याचते ॥४३ पूर्वप्रेमवशेनैव, शाला समर्पिता तदा । षड्सभोज्यसामग्री, वर्षाकालो महांस्तथा ॥४४ मदनागारवासेन, मदनोऽपि विनाशितः। कोशाशृङ्गारसामग्री, दृष्ट्वापि नैव मोहितः ॥४५ वैराग्यमयवाक्येन, अध्यात्मदेशनादिना । प्रतिबोध्य च तां कोशामणव्रतं प्रदत्तवान् ॥४६॥ Shree Sudharmaswami Gyanbhandar-Umara, surat www.umaragyanbhandar.com
SR No.034654
Book TitleVeer Dharm Pattavali
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy