________________
- प्रदीप
[ ६६३ ]
शुद्ध च श्राविकां कृत्वा, आगतौ गुरुसन्निधौ । कठिन कार्यकर्त्तारं, स्थूलभद्रमुनीश्वरम् ॥४७ धन्यवादं मुहुर्दत्त्वा कथितं गुरुणा तदा । साधुशिरोमणिर्ज्ञेयः, भारते नैव त्वादृशः ॥४८॥ दशपूर्व च सम्पूर्ण, पठितं चार्थयोगतः । चतुःपूर्वं च सूत्रेण, अर्थेन नैव लब्धवान् ॥४६॥ सम्पूर्णदृष्टिवादं च, भद्रबाहुगुरोर्मुखात् । सम्प्राप्य भारतेऽन्तिमः सञ्जातः श्रुतकेवली ॥५० वेश्यागृहनिवासेन षड्स भोज्य भोगिना । कामरागवद् वेश्यायाः, हावभावे न मोहितः ॥ ५१ ॥ तादृशो भारते वीरः, न भूतो न भविष्यति । सत्साधुगणनायां च प्रथमोस्थूलभद्रकः ॥ ५२ ॥ भगवत्स्थूलभद्र ण, स्वपट्टे स्थापितौ च द्वौ । आर्यमहागिरिचैकः, सुहस्ती च द्वितीयकः ॥ ५३ एलापत्ये च गोत्रे वै, सम्भूतः स महामुनिः । विच्छेदे जिनकल्पेऽपि तत्कल्पतुलना कृता ॥५४ विशुद्धव्रतयोगेन, स्वीपवीर्यं परिस्फुरन् ।
कठिनं तादृशं कार्य, कृतं तेन मुनीन्द्रकैः ॥ ५५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com