________________
[ ७२२]
योगपरिचयो विशेषेण, वृद्धिचन्द्रमहात्मनाम् । कार्यते सुखषोधाय, शान्तिसाम्राज्यसिद्धये ॥५६७ जगद्गुरुत्वयोग्यत्वं, दृश्यते पादपंकजे । शान्तरसमयीमूर्तिः, तेषां च प्रविलोक्यते ॥५६८ साधूनां शान्तिदातारः, पक्षपातविवर्जिताः। गुणज्ञा गुणदृष्टारः, दृश्यन्ते नैव तादृशाः ॥५६६॥ क्रोधस्यावसरो नैव, तेषां पार्वे च कर्हि चित् । देवाणुप्रियशब्देन, मुनीन् जल्पन्ति सर्वदा ॥५७०॥ साधुजीवनपर्यन्तं, मिथ्यादुष्कृतकस्य वै। दातव्येऽवसरो नैव, तेषां कदापि जायते ॥५७१॥ विचार्यशुद्धवक्तारः, कुर्वन्ति नैव चापलम् । हितमितादिशब्देन, युक्तं जल्पन्ति ते तथा ५७२ तत्काले सर्वसाधूनामांधिपत्यं च राजते। क्लेशवार्ता न कर्हि चित्तत्समीपे भवेत् खलु ॥५७३॥ महाक्रोधिमनुष्याश्च, यदाऽऽगच्छन्ति नैकटे । शान्तमूर्ति च तं दृष्ट्वा, तेऽपि गच्छन्ति शान्तिताम् तख्तसिंहाख्यभूपाला, आगत्य गुरुसन्निधौ । एकदा तेऽपि जल्पन्ति, दृष्ट्वा च पादपंकजम् ५७५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com