SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२३] भवतां चेन्न दीक्षा स्यात् संसारे भूपतिस्तदा । अहो गुरुषु सौभाग्यं, अद्भुतं परिदृश्यते ॥५७६॥ साधूनां पाठनं सम्यग्देशना मेघगम्भीरा । व्याख्याशैली हि चापूर्वा, गुरुषु विद्यते सदा ५७७ शिष्यसन्दोहबाहुल्यं, प्रज्ञाशक्तिसमन्वितम् । तादृशं नैव केषाश्चिद्यादृशं विद्यते गुरौ ॥५७८॥ विद्वत्ता खलु चाद्यापि, गुरूणां समुदायके । अन्येषां समुदायेषु, तादृशी नैव विद्यते ॥५७६॥ एकादशसु शिष्येष, मध्ये द्वौ श्रेष्ठपण्डितौ । वादिशिरोमणी तौ च, महाप्रभावशालिनौ ॥५८० प्रथमो हि गुरुदेवः स्यान्नेमिसूरिद्धि तीयकः । स्वपरशास्त्रज्ञातारौ, सिद्धान्तेषु महोदधी ॥५८१॥ परे सिद्धान्तज्ञातारः, स्वात्मीयधर्मपोषकाः । गम्भीरविजयाद्याश्च, संस्कृतग्रन्थकारकाः ॥५८२॥ केवलविजयाश्चाद्याः, वैराग्यरसपोषकाः । भद्रभावेन संयुक्ताः, साधद्वयसमन्विताः ॥५३॥ गम्भीरविजयानां च, साभवः सप्तसंख्यकाः। स्वयं पण्डितवर्याश्च, सिद्धान्तपारगामिनः ॥५४॥ Shree Sudharmaswami Gyanbhandar-Omara, Surat www.umaragyanbhandar.com
SR No.034654
Book TitleVeer Dharm Pattavali
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy