SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ योग [७२४] उत्तमविजया ज्ञेयाः, उत्तमधर्मदेशकाः । साधुत्रयसमायुक्ताः, गुरुभक्तिपरायणाः ॥५८५॥ चतुरविजयाः पूज्याः, शान्तस्वभावताजुषः । वैराग्यरसतायुक्ताः, जैनसिद्धान्तज्ञायकाः ॥५८६॥ द्वादशसाधुसंयुक्ताः, तपोधर्मप्रदर्शकाः । आत्मकल्याणमार्गेषु, विचरन्ति च ते सदा ॥५८८॥ राजविजयपूज्याश्च, सदा वैराग्यदीपकाः । भावविजयसाधुश्च, तपस्विनां शिरोमणिः ॥५८८॥ हेमविजयसाधूनाममोघधर्मदेशना । वैराग्यधासनारूपा, दससंख्याकसाधवः ॥५८६॥ विजयनेमिसूरीणां, षष्टिसंख्याकसाधवः । अनेके पण्डितास्तेषु, अनेके ग्रन्थलेखकाः ॥५६०॥ प्रेमविजयसाधूनां, शिष्यत्रयी च वर्तते । अपूर्वप्रेमभावश्च, विद्यते च महात्मनाम् ॥५६१॥ शान्तमूर्त्तित्वरूपेण, करविजयस्य वै । ख्यातिश्च जैनधर्मेषु, अपूर्वत्यागभावतः ॥५६२॥ साधूनां सप्तसंख्याः स्याद्भाषाग्रन्थस्य लेखकाः। प्राचीनपुस्तकानां च ते स्वयमनुवादकाः ॥५६३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034654
Book TitleVeer Dharm Pattavali
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy