________________
॥ नमो नमः श्री प्रभुधर्मसूरये ॥
वीरधर्मपट्टावलिः।
योगप्रदीपस्य प्रशस्तिः। वन्दे शासननायकं जिनपतिं वीरं सिद्धार्थात्म द्वादशवर्षमितं तपश्च विहितं येनैव घोरं महत् ॥ उपसर्गादिककष्टसोढशक्तं ध्यानातकैवल्यकं पावापुरिस्थितमनन्तसुखदं, श्रीवर्धमानं स्तुवे ॥१॥ मिथ्यात्वतैमिरतया च व्याप्तम् यदीयस्वान्तमज्ञानदोषतः। श्रीवीरभानूदयेनैव नष्टम् पावानगर्या यजनक्षणे तत् ॥२॥ श्रीवर्धमानात्रिपदीमवाप्य दृब्धं परिपूर्णश्रुतं च येन । श्रीद्वादशांगित्वरूपात्प्रसिद्धम् तमिन्द्रिभूतिं शतशो नमामः ॥३॥
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com