________________
योगmmmmmmmmmm
[६८६] संस्कृतं प्राकृतं ज्ञान, प्रचुरं परिज्ञायताम् । तत्सदृशोहि विज्ञश्च, तत्काले भारते नहि ॥२५२॥
जैनदर्शनशास्त्राणि, शुद्धन्याययुतानि च । निर्मापितानि जैनेषु, विद्यन्ते खलु भारते ॥२५३॥ आद्य निर्मापणं न्यायशास्त्राणां सूरिणा कृतम् । तत्पश्चान्यायशास्त्रस्य, ग्रन्थान काश्च निर्मिताः ॥ सर्वागमीय ग्रन्थानामनुवादश्च संस्कृते । कर्तव्ये स्वीय जिज्ञासा, दर्शिता संघसम्मुखे ॥२५५ नमस्कारमहामंत्रानुवादश्च कृतस्तदा । तच्छुत्वा संघमुख्येन, प्रायश्चित्तं प्रदर्शितम् ॥२५६ तत्प्रायश्चित्तरूपेण, विक्रमप्रतिबोधनम् । कृतं च गुरुदेवेन, बहुयुक्तिप्रयोगतः ॥२५७॥ विक्रमीय चरित्राच, विज्ञेयं ज्ञानशालिना । अत्र तु नाममात्रेण, दर्शितमधुना मया ॥२५८॥ सिद्धाचलस्य यात्रायै, महासंघश्च योजितः । निष्कासितो महानेव, विक्रमेणैव तत्क्षणे ॥२५६॥ ओङ्कारनगरे जैनमन्दिरं नूतनं कृतम् । अश्वाववोधतीर्थस्य, उद्धारोऽपि कृतः खलु ॥२६०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com