________________
-
~
~
//
--.
wwwwwwwwww..
[६८.]
योगसंघेनैव समागत्य, गुरुणा प्रार्थना कृता। विना विशुद्धसामग्री, प्रभुभक्तिः कथं भवेत् ॥१६६ भवादृग्गुरुसंयोगे, कथं भक्तौ च विनता। दूषबुध्या च तेनैव, प्रतिषेधः कृतः खलु ॥२०॥ जैनधर्ममहाद्वेषी, अयं च बौद्धभूपतिः । स्वसत्तायाः समुन्मादः, धर्मद्वेषेण जायते ॥२०१॥ जैनानां भक्तिनाशाय, उपायस्तेन शोधितः । अतः केनापि योगेन, जैनत्वं परिदृश्यताम् ॥२०२॥ गुरुणा संघविज्ञप्त्या, तद्भक्तिपरिपुष्टये । धर्मोन्नतिसमुद्दिश्य, गताश्च सूरयस्ततः ॥२०॥ व्योमविद्याप्रयोगेन, माहेश्वरी पुरी खलु । मालिनं पितृमित्रं च, जल्पन्ति पुष्पहेतवे ॥२०४॥ हिमवत्पर्वते गत्वा, श्रीदेव्याश्च समीपके । हुताशनवनाच्चैव, लक्षशः कुसुमानि च ॥२०॥ महापद्मानि संगृह्य, देवकृत विमानके। माहेश्वरीय पुष्पाणि, लात्वा महोत्सवेन च ॥२०६॥ दुन्दुभिनादपूर्वेण, आगतास्तत्र सूरिराट् । देवेन सर्वपुष्पाणि, दत्तानि श्रावकाय च ॥२०७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com