SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ योग [७२६] इत्येवं भिन्नभाषायां, विज्ञैश्च भक्तिभावतः। जीवनं लिखितं ज्ञेयं दृश्यतां सर्वसज्जनः ॥६०३॥ शिष्याश्च प्रौढविद्वांसः, सर्वदेशविहारिणः । सर्वदेशीयभाषायां, विज्ञाश्च परिकीर्तिताः ॥६०४॥ शासनरागरक्ताश्च, शुद्धचारित्रपालकाः। वादिशिरोमणीभूताः, वीरशासनपोषकाः ॥३०॥ विजयेन्द्राऽऽख्यसरिश्च, मुख्यशिष्यश्च सम्मतः । इतिहासादिशास्त्रेषु, पाण्डित्यं परिवर्तते ॥६०६॥ अनेक ग्रन्थकर्तृत्वं, भिन्न भाषासु ज्ञायताम् । पञ्चशिष्यस्य सम्पत्तिः, सूरीणां परिजायते ॥६०७॥ मङ्गलविजयश्चैव, द्वितीयः परिकीर्तितः । पाठकपदसंयुक्तः, न्यायतीर्थविशारदः ॥६०८॥ अनेकग्रन्थकर्ता च, भाषायां संस्कृते तथा । प्रभाकरेण संयुक्तः, नैकदेशेविहारवान् ॥६०६॥ सम्मेतशिखरादीनां, तीर्थानां समुद्धारकः । बङ्गे सराकजातोनामुद्धारे च समुद्यतः ॥६१०॥ शिष्योऽपि तादृशस्तस्य, सर्वकार्यसहायकः। गुरुष भक्तिरागरच, सर्वदा परिदर्शकः ॥६११॥ Shree Suanarmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034654
Book TitleVeer Dharm Pattavali
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy